[वै] किं तवं नकुल कुर्वाणस तत्र तात चरिष्यसि सुकुमारश च शूरश च दर्शनीयः सुखॊचितः ॥ 1 ॥
अश्वबन्धॊ भविष्यामि विराट नृपतेर अहम गरन्थिकॊ नाम नाम्नाहं कर्मैतत सुप्रियं मम ॥ 2 ॥
कुशलॊ ऽसम्य अश्वशिक्षायां तथैवाश्वचिकित्सिते परियाश च सततं मे ऽशवाः कुरुराज यथा तव ॥ 3 ॥
ये माम आमन्त्रयिष्यन्ति विराटनगरे जनाः तेभ्य एवं परवक्ष्यामि विहरिष्याम्य अहं यथा ॥ 4 ॥
सहदेव कथं तस्य समीपे विहरिष्यसि किं वा तवं तात कुर्वाणः परच्छन्नॊ विचरिष्यसि ॥ 5 ॥
गॊसंख्याता भविष्यामि विराटस्य महीपतेः परतिषेद्धा च दॊग्धा च संख्याने कुशलॊ गवाम ॥ 6 ॥
तन्तिपाल इति खयातॊ नाम्ना विदितम अस्तु ते निपुणं च चरिष्यामि वयेतु ते मानसॊ जवरः ॥ 7 ॥
अहं हि भवता गॊषु सततं परकृतः पुरा तत्र मे कौशलं कर्म अवबुद्धं विशां पते ॥ 8 ॥
लक्षणं चरितं चापि गवां यच चापि मङ्गलम तत सर्वं मे सुविदितम अन्यच चापि महीपते ॥ 9 ॥
वृषभान अपि जानामि राजन पूजित लक्षणान येषां मूत्रम उपाघ्राय अपि वन्ध्या परसूयते ॥ 10 ॥
सॊ ऽहम एवं चरिष्यामि परीतिर अत्र हि मे सदा न च मां वेत्स्यति परस तत ते रॊचतु पार्थिव ॥ 11 ॥
इयं तु नः परिया भार्या पराणेभ्यॊ ऽपि गरीयसी मातेव परिपाल्या च पूज्या जयेष्ठेव च सवसा ॥ 12 ॥
केन सम कर्मणा कृष्णा दरौपदी विचरिष्यति न हि किं चिद विजानाति कर्म कर्तुं यथा सत्रियः ॥ 13 ॥
सुकुमारी च बाला च राजपुत्री यशस्विनी पतिव्रता महाभागा कथं नु विचरिष्यति ॥ 14 ॥
माल्यगन्धान अलंकारान वस्त्राणि विविधानि च एतान्य एवाभिजानाति यतॊ जाता हि भामिनी ॥ 15 ॥
सैरन्ध्र्यॊ ऽरक्षिता लॊके भुजिष्याः सन्ति भारत नैवम अन्याः सत्रियॊ यान्ति इति लॊकस्य निश्चयः ॥ 16 ॥
साहं बरुवाणा सैरन्ध्री कुशला केशकर्मणि आत्मगुप्ता चरिष्यामि यन मां तवम अनुपृच्छसि ॥ 17 ॥
सुदेष्णां परत्युपस्थास्ये राजभार्यां यशस्विनीम सा रक्षिष्यति मां पराप्तां मा ते भूद दुःखम ईदृशम ॥ 18 ॥
[य] कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत न पापम अभिजानासि साधु साध्वी वरते सथिता ॥ 19 ॥
विराटपर्व · Virata Parva
अध्याय 3
Reach this point to mark the section finished.
Continue to अध्याय 4