[वै] तां शमीम उपसंगम्य पार्थॊ वैराटिम अब्रवीत सुकुमारं समाज्ञातं संग्रामे नातिकॊविदम ॥ 1 ॥
समादिष्टॊ मया कषिप्रं धनूंष्य अवहरॊत्तर नेमानि हि तवदीयानि सॊढुं शक्यन्ति मे बलम ॥ 2 ॥
भारं वापि गुरुं हर्तुं कुञ्जरं वा परमर्दितुम मम वा बाहुविक्षेपं शत्रून इह विजेष्यतः ॥ 3 ॥
तस्माद भूमिंजयारॊह शमीम एतां पलाशिनीम अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्य उत ॥ 4 ॥
युथिष्ठिरस्य भीमस्य बीभत्षॊर यमयॊस तथा धवजाः शराश च शूराणां दिव्यानि कवचानि च ॥ 5 ॥
अत्र चैतन महावीर्यं धनुः पार्थस्य गाण्डिवम एकं शतसहस्रेण संमितं राष्ट्रवर्धनम ॥ 6 ॥
वयायामसहम अत्यर्थं तृणराजसमं महत सर्वायुधमहामात्रं शत्रुसंबाध कारकम ॥ 7 ॥
सुवर्णविकृतं दिव्यं शलक्ष्णम आयतम अव्रणम अलं भारं गुरुं वॊढुं दारुणं चारुदर्शनम तादृशान्य एव सर्वाणि बलवन्ति दृढानि च ॥ 8 ॥
[उत्तर] अस्मिन वृक्षे किलॊद्बद्धं शरीरम इति नः शरुतम तद अहं राजपुत्रः सन सपृशेयं पाणिना कथम ॥ 9 ॥
नैवंविधं मया युक्तम आलब्धुं कषत्रयॊनिना महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥ 10 ॥
सपृष्टवन्तं शरीरं मां शववाहम इवाशुचिम कथं वा वयवहार्यं वै कुर्वीथास तवं बृहन्नडे ॥ 11 ॥
[बृहन] वयवहार्यश च राजेन्द्र शुचिश चैव भविष्यसि धनूंष्य एतानि मां भैस तवं शरीरं नात्र विद्यते ॥ 12 ॥
दायादं मत्स्यराजस्य कुले जातं मनस्विनम कथं तवा निन्दितं कर्म कारयेयं नृपात्मज ॥ 13 ॥
[वै] एवम उक्तः स पार्थेन रथात परस्कन्द्य कुण्डली आरुरॊह शमी वृक्षं वैराटिर अवशस तदा ॥ 14 ॥
तम अन्वशासच छत्रुघ्नॊ रथे तिष्ठन धनंजयः परिवेष्टनम एतेषां कषिप्रं चैव वयपानुद ॥ 15 ॥
तथा संनहनान्य एषां परिमुच्य समन्ततः अपश्यद गाण्डिवं तत्र चतुर्भिर अपरैः सह ॥ 16 ॥
तेषां विमुच्यमानानां धनुर आम अर्कवर्चसाम विनिश्रेरुः परभा दिव्या गरहाणाम उदयेष्व इव ॥ 17 ॥
स तेषां रूपम आलॊक्य भॊगिनाम इव जृम्भताम हृष्टरॊमा भयॊद्विग्नः कषणेन समपद्यत ॥ 18 ॥
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च वैराटिर अर्जुनं राजन्न इदं वचनम अब्रवीत ॥ 19 ॥
[उत्तर] बिन्दवॊ जातरूपस्य शतं यस्मिन निपातिताः सहस्रकॊटि सौवर्णाः कस्यैतद धनुर उत्तमम ॥ 20 ॥
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः सुपार्श्वं सुग्रहं चैव कस्यैतद धनुरुत्तमम ॥ 21 ॥
तपनीयस्य शुद्धस्य षष्टिर यस्येन्द्रगॊपकाः पृष्ठे विभक्ताः शॊभन्ते कस्यैतद धनुर उत्तमम ॥ 22 ॥
सूर्या यत्र च सौवर्णास तरयॊ भासन्ति दंशिताः तेजसा परज्वलन्तॊ हि कस्यैतद धनुर उत्तमम ॥ 23 ॥
शालभा यत्र सौवर्णास तपनीयविचित्रिताः सुवर्णमणिचित्रं च कस्यैतद धनुर उत्तमम ॥ 24 ॥
इमे च कस्य नाराचाः सहस्रा लॊमवाहिनः समन्तात कलधौताग्रा उपासंगे हिरण्मये ॥ 25 ॥
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ॥ 26 ॥
कस्यायम असितावापः पञ्च शार्दूललक्षणः वराहकर्ण वयामिश्रः शरान धारयते दश ॥ 27 ॥
कस्येमे पृथवॊ दीर्घाः सर्वपारशवाः शराः शतानिसप्त तिष्ठन्ति नाराचा रुधिराशनाः ॥ 28 ॥
कस्येमे शुकपत्राभैः पूर्वैर अर्धैः सुवाससः उत्तरैर आयसैः पीतैर हेमपुङ्खैः शिलाशितैः ॥ 29 ॥
कस्यायं सायकॊ दीर्घः शिली पृष्ठः शिलीमुखः वैयाघ्रकॊशे निहितॊ हेमचित्रत्सरुर महान ॥ 30 ॥
सुफलश चित्रकॊशश च किङ्किणी सायकॊ महान कस्य हेमत्सरुर दिव्यः खड्गः परमनिर्व्रणः ॥ 31 ॥
कस्यायं विमलः खड्गॊ गव्ये कॊशे समर्पितः हेमत्सरुर अनाधृष्यॊ नैषध्यॊ भारसाधनः ॥ 32 ॥
कस्य पाञ्च नखे कॊशे सायकॊ हेमविग्रहः परमाण रूपसंपन्नः पीत आकाशसंनिभः ॥ 33 ॥
कस्य हेममये कॊशे सुतप्ते पावकप्रभे निस्त्रिंशॊ ऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः ॥ 34 ॥
निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे विस्मयॊ मे परॊ जातॊ दृष्ट्वा सर्वम इदं महत ॥ 35 ॥
[बृहन] यन मां पूर्वम इहापृच्छः शत्रुसेनानिबर्हणम गाण्डीवम एतत पार्थस्य लॊकेषु विदितं धनुः ॥ 36 ॥
सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम एतत तद अर्जुनस्यासीद गाण्डीवं परमायुधम ॥ 37 ॥
यत तच छतसहस्रेण संमितं राष्ट्रवर्धनम येन देवान मनुष्यांश च पार्थॊ विषहते मृधे ॥ 38 ॥
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः एतद वर्षसहस्रं तु बरह्मा पूर्वम अधारयत ॥ 39 ॥
ततॊ ऽनन्तरम एवाथ परजापतिर अधारयत तरीणि पञ्चशतं चैव शक्रॊ ऽशीति च पञ्च च ॥ 40 ॥
सॊमः पञ्चशतं राजा तथैव वरुणः शतम पार्थः पञ्च च षष्टिं च वर्षाणि शवेतवाहनः ॥ 41 ॥
महावीर्यं महद दिव्यम एतत तद धनुर उत्तमम पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः ॥ 42 ॥
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः येन पार्थॊ ऽजयत कृत्स्नां दिशं पराचीं परंतपः ॥ 43 ॥
इन्द्रगॊपक चित्रं च यद एतच चारु विग्रहम राज्ञॊ युधिष्ठिरस्यैतद वैराते धनुर उत्तमम ॥ 44 ॥
सूर्या यस्मिंस तु सौवर्णाः परभासन्ते परभासिनः तेजसा परज्वलन्तॊ वै नकुलस्यैतद आयुधम ॥ 45 ॥
शलभा यत्र सौवर्णास तपनीयविचित्रिताः एतन माद्री सुतस्यापि सहदेवस्य कार्मुकम ॥ 46 ॥
ये तव इमे कषुर संकाशाः सहस्रा लॊमवाहिनः एतार्जुनस्य वैराते शराः सर्पविषॊपमाः ॥ 47 ॥
एते जवलन्तः संग्रामे तेजसा शीघ्रगामिनः भवन्ति वीरस्याक्षय्या वयूहतः समरे रिपून ॥ 48 ॥
ये चेमे पृथवॊ दीर्घाश चन्द्र बिम्बार्ध दर्शनाः एते भीमस्य निशिता रिपुक्षयकराः शराः ॥ 49 ॥
हारिद्र वर्णा ये तव एते हेमपुङ्खाः शिलाशिताः नकुलस्य कलापॊ ऽयं पञ्च शार्दूललक्षणः ॥ 50 ॥
येनासौ वयजयत कृत्स्नां परतीचीं दिशम आहवे कलापॊ हय एष तस्यासीन माद्रीपुत्रस्य धीमतः ॥ 51 ॥
ये तव इमे भास्कराकाराः सर्वपारशवाः शराः एते चित्राः करियॊपेताः सहदेवस्य धीमतः ॥ 52 ॥
ये तव इमे निशिताः पीताः पृथवॊ दीर्घवाससः हेमपुङ्खास तरिपर्वाणॊ राज्ञ एते महाशराः ॥ 53 ॥
यस तवायं सायकॊ दीर्घः शिली पृष्टः शिलीमुखः अर्जुनस्यैष संग्रामे गुरुभारसहॊ दृढः ॥ 54 ॥
वैयाघ्रकॊशस तु महान भीमसेनस्य सायकः गुरुभारसहॊ विद्यः शात्रवाणां भयंकरः ॥ 55 ॥
सुफलश चित्रकॊशश च हेमत्सरुर अनुत्तमः निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः ॥ 56 ॥
यस तु पाञ्च नखे कॊशे निहितश चित्रसेवने नलुकस्यैष निस्त्रिंशॊ गुरुभारसहॊ दृढः ॥ 57 ॥
यस तव अयं विमलः खड्गॊ गव्ये कॊशे समर्पितः सहदेवस्य विद्ध्य एनं सर्वभार सहं दृढम ॥ 58 ॥
विराटपर्व · Virata Parva
अध्याय 38
Reach this point to mark the section finished.
Continue to अध्याय 39