[वै] तं दृष्ट्वा कलीव वेषेण रथस्थं नरपुंगवम शमीम अभिमुखं यान्तं रथम आरॊप्य चॊत्तरम ॥ 1 ॥
भीष्मद्रॊणमुखास तत्र कुरूणां रथसत्तमाः वित्रस्तमनसः सर्वे धनंजय कृताद भयात ॥ 2 ॥
तान अवेक्ष्य हतॊत्साहान उत्पातान अपि चाद्भुतान गुरुः शस्त्रभृतां शरेष्ठॊ भारद्वाजॊ ऽभयभाषत ॥ 3 ॥
चलाश च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः भस्म वर्णप्रकाशेन तमसा संवृतं नभः ॥ 4 ॥
रूक्षवर्णाश च जलदा दृश्यन्ते ऽदभुतदर्शनाः निःसरन्ति च कॊशेभ्यः षस्त्राणि विविधानि च ॥ 5 ॥
शिवाश च विनदन्त्य एता दीप्तायां दिशि दारुणाः हयाश चाश्रूणि मुञ्चन्ति धवजाः कम्पन्त्य अकम्पिताः ॥ 6 ॥
यादृशान्य अत्र रूपाणि संदृश्यन्ते बहून्य अपि यत्ता भवन्तस तिष्ठन्तु सयाद युद्धं समुपस्थितम ॥ 7 ॥
रक्षध्वम अपि चात्मानं वयूहध्वं वाहिनीम अपि वैशसं च परतीक्षध्वं रक्षध्वं चापि गॊधनम ॥ 8 ॥
एष वीरॊ महेष्वासः सर्वशस्त्रभृतां वरः आगतः कलीब वेषेण पार्थॊ नास्त्य अत्र संशयः ॥ 9 ॥
स एष पार्थॊ विक्रान्तः सव्यसाची परंतपः नायुद्धेन निवर्तेत सर्वैर अपि मरुद्गणैः ॥ 10 ॥
कलेशितश च वने शूरॊ वासवेन च शिक्षितः अमर्षवशम आपन्नॊ यॊत्स्यते नात्र संशयः ॥ 11 ॥
नेहास्य परतियॊद्धारम अहं पश्यामि कौरवाः महादेवॊ ऽपि पार्थेन शरूयते युधि तॊषितः ॥ 12 ॥
[कर्ण] सदा भवान फल्गुनस्य गुणैर अस्मान विकत्थसे न चार्जुनः कला पूर्णा मम दुर्यॊधनस्य वा ॥ 13 ॥
[दुर] यद्य एष पार्थॊ राधेय कृतं कार्यं भवेन मम जञाताः पुनश चरिष्यन्ति दवादशान्यान हि वत्सरान ॥ 14 ॥
अथैष कश चिद एवान्यः कलीब वेषेण मानवः शरैर एनं सुनिशितैः पातयिष्यामि भूतले ॥ 15 ॥
[वै] तस्मिन बरुवति तद वाक्यं धार्तराष्ट्रे परंतपे भीष्मॊ दरॊणः कृपॊ दरौणिः पौरुषं तद अपूजयन ॥ 16 ॥
विराटपर्व · Virata Parva
अध्याय 37
Reach this point to mark the section finished.
Continue to अध्याय 38