[वै] स राजधान्या निर्याय वैराटिः पृथिवीं जयः परयाहीत्य अब्रवीत सूतं यत्र ते कुरवॊ गताः ॥ 1 ॥
समवेतान कुरून यावज जिगीशून अवजित्य वै गाश चैषां कषिप्रम आदाय पुनर आयामि सवं पुरम ॥ 2 ॥
ततस तांश चॊदयाम आस सदश्वान पाण्डुनन्दनः ते हया नरसिंहेन चॊदिता वातरंहसः आलिखन्त इवाकाशम ऊहुः काञ्चनमालिनः ॥ 3 ॥
नातिदूरम अथॊ यात्वा मत्स्यपुत्र धनंजयौ अवेक्षेताम अमित्रघ्नौ कुरूणां बलिनां बलम शमशानम अभितॊ गत्वा आससाद कुरून अथ ॥ 4 ॥
तद अनीकं महत तेषां विबभौ सागरस्वनम सर्पमाणम इवाकाशे वनं बहुल पादपम ॥ 5 ॥
ददृशे पार्थिवॊ रेणुर जनितस तेन सर्पता दृष्टिप्रणाशॊ भूतानां दिवस्पृश नरसत्तम ॥ 6 ॥
तद अनीकं महद दृष्ट्वा जगाश्वरथसंकुलम कर्णदुर्यॊधन कृपैर गुप्तं शांतनवेन च ॥ 7 ॥
दरॊणेन च सपुत्रेण महेष्वासेन धीमता हृष्टरॊमा भयॊद्विग्नः पार्थं वैराटिर अब्रवीत ॥ 8 ॥
नॊत्सहे कुरुभिर यॊद्धुं रॊमहर्षं हि पश्य मे बहु परवीरम अत्युग्रं देवैर अपि दुरासदम परतियॊद्धुं न शक्ष्यामि कुरुसैन्यम अनन्तकम ॥ 9 ॥
नाशंसे भारतीं सेनां परवेष्टुं भीमकार्मुकाम रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम दृष्ट्वैव हि परान आजाव आत्मा परव्यथतीव मे ॥ 10 ॥
यत्र दरॊणश च भीष्मश च कृपः कर्णॊ विविंशतिः अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ बाह्लिकः ॥ 11 ॥
दुर्यॊधनस तथा वीरॊ राजा च रथिनां वरः दयुतिमन्तॊ महेष्वासाः सर्वे युद्धविशारदाः ॥ 12 ॥
दृष्ट्वैव हि कुरून एतान वयूढानीकान परहारिणः हृषितानि च रॊमाणी कश्मलं चागतं मम ॥ 13 ॥
[वै] अवियातॊ वियातस्य मौर्ख्याद धूर्तस्य पश्यतः परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ 14 ॥
तरिगर्तान स पिता यातः शून्ये संप्रणिधाय ताम सर्वां सेनाम उपादाय न मे सन्तीह सैनिकाः ॥ 15 ॥
सॊ ऽहम एकॊ बहून बालः कृतास्त्रान अकृतश्रमः परतियॊद्धुं न शक्यामि निवर्तस्व बृहन नडे ॥ 16 ॥
[अर्ज] भयेन दीनरूपॊ ऽसि दविषतां हर्षवर्धनः न च तावत कृतं किं चित परैः कर्म रणाजिरे ॥ 17 ॥
सवयम एव च माम आत्थ वह मां कौरवान परति सॊ ऽहं तवां तत्र नेष्यामि यत्रैते बहुला धवजाः ॥ 18 ॥
मध्यंम आमिष गृध्राणां कुरूणाम आततायिनाम नेष्यामि तवां महाबाहॊ पृथिव्याम अपि युध्यताम ॥ 19 ॥
तथा सत्रीषु परतिश्रुत्य पौरुषं पुरुषेषु च कत्थमानॊ ऽभिनिर्याय किमर्थं न युयुत्ससे ॥ 20 ॥
न चेद विजित्य गास तास तवं गृहान वै परतियास्यसि परहसिष्यन्ति वीर तवां नरा नार्यश च संगताः ॥ 21 ॥
अहम अप्य अत्र सैरन्ध्र्या सतुतः सारथ्य कर्मणि न हि शक्ष्याम्य अनिर्जित्य गाः परयातुं पुरं परति ॥ 22 ॥
सतॊत्रेण चैव सैरन्ध्र्यास तव वाक्येन तेन च कथं न युध्येयम अहं कुरून सर्वान सथिरॊ भव ॥ 23 ॥
[उत्तर] कामं हरन्तु मत्स्यानां भूयांसं कुरवॊ धनम परहसन्तु च मां नार्यॊ नरा वापि बृहन्नडे ॥ 24 ॥
[वै] इत्य उक्त्वा पराद्रवद भीतॊ रथात परस्कन्द्य कुण्डली तयक्त्वा मानं स मन्तात्मा विसृज्य स शरं धनुः ॥ 25 ॥
[बृहन] नैष पूर्वैः समृतॊ धर्मः कषत्रियस्य पलायनम शरेयस ते मरणं युद्धे न भीतस्य पलायनम ॥ 26 ॥
[वै] एवम उक्त्वा तु कौन्तेयः सॊ ऽवप्लुत्य रथॊत्तमात तम अन्वधावद धावन्तं राजपुत्रं धनंजयः दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ॥ 27 ॥
विधूय वेणीं धावन्तम अजानन्तॊ ऽरजुनं तदा सैनिकाः पराहसन के चित तथारूपम अवेक्ष्य तम ॥ 28 ॥
तं शीघ्रम अभिधावन्तं संप्रेक्ष्य कुरवॊ ऽबरुवन क एष वेषप्रच्छन्नॊ भस्मनेव हुताशनः ॥ 29 ॥
किं चिद अस्य यथा पुंसः किं चिद अस्य यथा सत्रियः सारूप्यम अर्जुनस्येव कलीब रूपं बिभर्ति च ॥ 30 ॥
तद एवैतच छिरॊ गरीवं तौ बाहू परिघॊपमौ तद्वद एवास्य विक्रान्तं नायम अन्यॊ धनंजयात ॥ 31 ॥
अमरेष्व इव देवेन्द्रॊ मानुषेषु धनंजयः एकः सॊ ऽसमान उपायायाद अन्यॊ लॊके धनंजयात ॥ 32 ॥
एकः पुत्रॊ विराटस्य शून्ये संनिहितः पुरे स एष किल निर्यातॊ बालभावान न पौरुषात ॥ 33 ॥
सत्रेण नूनं छन्नं हि चरन्तं पार्थम अर्जुनम उत्तरः सारथिं कृत्वा निर्यातॊ नगराद बहिः ॥ 34 ॥
स नॊ मन्ये धवजान दृष्ट्वा भीत एष पलायति तं नूनम एष धावन्तं जिघृक्षति धनंजयः ॥ 35 ॥
इति सम कुरवः सर्वे विमृशन्तः पृथक पृथक न च वयवसितुं किं चिद उत्तरं शक्नुवन्ति ते छन्नं तथा तं सत्रेण पाण्डवं परेक्ष्य भारत ॥ 36 ॥
उत्तरं तु परधावन्तम अनुद्रुत्य धनंजयः गत्वा पदशतं तूर्णं केशपक्षे परामृशत ॥ 37 ॥
सॊ ऽरजुनेन परामृष्टः पर्यदेवयद आर्तवत बहुलं कृपणं चैव विराटस्य सुतस तदा ॥ 38 ॥
शातकुम्भस्य शुद्धस्य शतं निष्कान ददामिते मणीन इष्टौ च वैडूर्यान हेमबद्धान महाप्रभान ॥ 39 ॥
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः मत्तांश च दश मातङ्गान मुञ्च मां तवं बृहण्णडे ॥ 40 ॥
[वै] एवमादीनि वाक्यानि विलपन्तम अचेतसम परहस्य पुरुषव्याघ्रॊ रथस्यान्तिकम आनयत ॥ 41 ॥
अथैनम अब्रवीत पार्थॊ भयार्तं नष्टचेतसम यदि नॊत्सहसे यॊद्धुं शत्रुभिः शत्रुकर्शन एहि मे तवं हयान यच्छ युध्यमानस्य शत्रुभिः ॥ 42 ॥
परयाह्य एतद रथानीकं मद्बाहुबलरक्षितः अप्रधृष्यतमं घॊरं गुप्तं वीरैर महारथैः ॥ 43 ॥
मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप अहं वै कुरुभिर यॊत्स्याम्य अवजेष्यामि ते पशून ॥ 44 ॥
परविश्यैतद रथानीकम अप्रधृष्यं दुरासदम यन्ता भूस तवं नरश्रेष्ठ यॊत्स्ये ऽहं कुरुभिः सह ॥ 45 ॥
एवं बरुवाणॊ बीभत्सुर वैराटिम अपराजितः समाश्वास्य मुहूर्तं तम उत्तरं भरतर्षभ ॥ 46 ॥
तत एनं विचेष्टन्तम अकामं भयपीडितम रथम आरॊपयाम आस पार्थः परहरतां वरः ॥ 47 ॥
विराटपर्व · Virata Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37