धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 2

  1. [भम] पौरॊगवॊ बरुवाणॊ ऽहं बल्लवॊ नाम नामतः उपस्थास्यामि राजानं विराटम इति मे मतिः ॥ 1 ॥

  2. सूपानस्य करिष्यामि कुशलॊ ऽसमि महानसे कृतपूर्वाणि यैर अस्य वयञ्जनानि सुशिक्षितैः तान अप्य अभिभविष्यामि परीतिं संजनयन्न अहम ॥ 2 ॥

  3. आहरिष्यामि दारूणां निचयान महतॊ ऽपि च तत परेक्ष्य विपुलं कर्म राजा परीतॊ भविष्यति ॥ 3 ॥

  4. दविपा वा बलिनॊ राजन वृषभा वा महाबलाः विनिग्राह्या यदि मया निग्रहीष्यामि तान अपि ॥ 4 ॥

  5. ये च के चिन नियॊत्स्यन्ति समाजेषु नियॊधकाः तान अहं निहनिष्यामि परीतिं तस्य विवर्धयन ॥ 5 ॥

  6. न तव एतान युध्यमानां वै हनिष्यामि कथं चन तथैतान पातयिष्यामि यथा यास्यन्ति न कषयम ॥ 6 ॥

  7. आरालिकॊ गॊविकर्ता सूपकर्ता नियॊधकः आसं युधिष्ठिरस्याहम इति वक्ष्यामि पृच्छतः ॥ 7 ॥

  8. आत्मानम आत्मना रक्षंश चरिष्यामि विशां पते इत्य एतत परतिजानामि विहरिष्याम्य अहं यथा ॥ 8 ॥

  9. यम अग्निर बराह्मणॊ भूत्वा समागच्छन नृणां वरम दिधक्षुः खाण्डवं दावं दाशार्ह सहितं पुरा ॥ 9 ॥

  10. महाबलं महाबाहुम अजितं कुरुनन्दनम सॊ ऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः ॥ 10 ॥

  11. यॊ ऽयम आसाद्य तं तावं तर्पयाम आस पावकम विजित्यैक रथेनेन्द्रं हत्वा पन्नगरक्षसान शरेष्ठः परतियुधां नाम सॊ ऽरजुनः किं करिष्यति ॥ 11 ॥

  12. सूर्यः परपततां शरेष्ठॊ दविपदां बराह्मणॊ वरः आशीविषश च सर्पाणाम अग्निस तेजस्विनां वरः ॥ 12 ॥

  13. आयुधानां वरॊ वर्जः ककुद्मी च गवां वरः हरदानाम उदधिः शरेष्ठः पर्जन्यॊ वर्षतां वरः ॥ 13 ॥

  14. धृतराष्ट्रश च नागानां हस्तिष्व ऐरावतॊ वरः पुत्रः परियाणाम अधिकॊ भार्या च सुहृदां वरा ॥ 14 ॥

  15. यथैतानि विशिष्टानि जात्यां जात्यां वृकॊदर एवं युवा गुडाकेशः शरेष्ठः सर्वधनुर्मताम ॥ 15 ॥

  16. सॊ ऽयम इन्द्राद अनवरॊ वासुदेवाच च भारत गाण्डीवधन्वा शवेताश्वॊ बीभत्सुः किं करिष्यति ॥ 16 ॥

  17. उषित्वा पञ्चवर्षाणि सहस्राक्षस्य वेश्मनि दिव्यान्य अस्त्राण्य अवाप्तानि देवरूपेण भास्वता ॥ 17 ॥

  18. यं मन्ये दवादशं रुद्रम आदित्यानां तरयॊदशम यस्य बाहू समौ दीर्घौ जया घातकठिन तवचौ दक्षिणे चैव सव्ये च गवाम इव वहः कृतः ॥ 18 ॥

  19. हिमवान इव शैलानां समुद्रः सरिताम इव तरिदशानां यथा शक्रॊ वसूनाम इव हव्यवाः ॥ 19 ॥

  20. मृगाणाम इव शार्दूलॊ गरुडः पतताम इव वरः संनह्यमानानाम अर्जुनः किं करिष्यति ॥ 20 ॥

  21. परतिज्ञां षण्ढकॊ ऽसमीति करिष्यामि महीपते जया घातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ॥ 21 ॥

  22. कर्णयॊः परतिमुच्याहं कुण्डले जवलनॊपमे वेणी कृतशिरॊ राजन नाम्ना चैव बृहन्नडा ॥ 22 ॥

  23. पठन्न आख्यायिकां नाम सत्रीभावेन पुनः पुनः रमयिष्ये महीपालम अन्यांश चान्तःपुरे जनान ॥ 23 ॥

  24. गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा शिक्षयिष्याम्य अहं राजन विराट भवने सत्रियः ॥ 24 ॥

  25. परजानां समुदाचारं बहु कर्मकृतं वदन छादयिष्यामि कौन्तेय माययात्मानम आत्मना ॥ 25 ॥

  26. युधिष्ठिरस्य गेहे ऽसमि दरौपद्याः परिचारिका उषितास्मीति वक्ष्यामि पृष्टॊ राज्ञा च भारत ॥ 26 ॥

  27. एतेन विधिना छन्नः कृतकेन यथा नलः विहरिष्यामि राजेन्द्र विराट भवने सुखम ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 3

Previous: अध्याय 1