[वै] ततः शारद्वतॊ वाक्यम इत्य उवाच कृपस तदा युक्तं पराप्तं च वृद्धेन पाण्डवान परति भाषितम ॥ 1 ॥
धर्मार्थसहितं शलक्ष्णं तत्त्वतश च स हेतुमत तत्रानुरूपं भीष्मेण ममाप्य अत्र गिरं शृणु ॥ 2 ॥
तेषां चैव गतिस तीर्थैर वासश चैषां परचिन्त्यताम नीतिर विधीयतां चापि सांप्रतं या हिता भवेत ॥ 3 ॥
नावज्ञेयॊ रिपुस तात पराकृतॊ ऽपि बुभूषता किं पुनः पाण्डवास तात सर्वास्त्रकुशला रणे ॥ 4 ॥
तस्मात सत्रं परविष्टेषु पाण्डवेषु महात्मसु गूढभावेषु छन्नेषु काले चॊदयम आगते ॥ 5 ॥
सवराष्ट्र परराष्ट्रेषु जञातव्यं बलम आत्मनः उदये पाण्डवानां च पराप्ते काले न संशयः ॥ 6 ॥
निवृत्तसमयाः पार्था महात्मानॊ महाबलाः महॊत्साहा भविष्यन्ति पाण्डवा हय अति तेजसः ॥ 7 ॥
तस्माद बलं च कॊशं च नीतिश चापि विधीयताम यथाकालॊदये पराप्ते सम्यक तैः संदधामहे ॥ 8 ॥
तात मन्यामि तत सर्वं बुध्यस्व बलम आत्मनः नियतं सर्वमित्रेषु बलवत्स्व अबलेषु च ॥ 9 ॥
उच्चावचं बलं जञात्वा मध्यस्थं चापि भारत परहृष्टम अप्रहृष्टं च संदधाम तथा परैः ॥ 10 ॥
साम्ना भेदेन दानेन दण्डेन बलिकर्मणा नयायेनानम्य च परान बलाच चानम्य दुर्बलान ॥ 11 ॥
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम सकॊश बलसंवृद्धः सम्यक सिद्धिम अवाप्स्यसि ॥ 12 ॥
यॊत्स्यसे चापि बलिभिर अरिभिः परत्युपस्थितैः अन्यैस तवं पाण्डवैर वापि हीनस्वबलवाहनैः ॥ 13 ॥
एवं सर्वं विनिश्चित्य वयवसायं सवधर्मतः यथाकालं मनुष्येन्द्र चिरं सुखम अवाप्स्यसि ॥ 14 ॥
विराटपर्व · Virata Parva
अध्याय 28
Reach this point to mark the section finished.
Continue to अध्याय 29