धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 27

  1. [वै] ततः शांतनवॊ भीष्मॊ भरतानां पितामहः शरुतवान देशकालज्ञस तत्त्वज्ञः सर्वधर्मवित ॥ 1 ॥

  2. आचार्य वाक्यॊपरमे तद वाक्यम अभिसंदधत हितार्थं स उवाचेमां भारतीं भारतान परति ॥ 2 ॥

  3. युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा भीष्मः समवदत तत्र गिरं साधुभिर अर्चिताम ॥ 3 ॥

  4. यथैष बराह्मणः पराह दरॊणः सर्वार्थवत्त्व वित सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः ॥ 4 ॥

  5. शरुतवृत्तॊपसंपन्ना साधुव्रतसमन्विताः वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः ॥ 5 ॥

  6. समयं समयज्ञास ते पालयन्तः शुचिव्रताः नावसीदितुम अर्हन्ति उद्वहन्तः सतां धुरम ॥ 6 ॥

  7. धर्मतश चैव गुप्तास ते सववीर्येण च पाण्डवाः न नाशम अधिगच्छेयुर इति मे धीयते मतिः ॥ 7 ॥

  8. तत्र बुद्धिं परणेष्यामि पाण्डवान परति भारत न तु नीतिः सुनीतस्य शक्यते ऽनवेषितुं परैः ॥ 8 ॥

  9. यत तु शक्यम इहास्माभिस तान वै संचिन्त्य पाण्डवान बुद्ध्या परवक्तुं न दरॊहात परवक्ष्यामि निबॊध तत ॥ 9 ॥

  10. सा तव इयं साधु वक्तव्या न तव अनीतः कथं चन वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥ 10 ॥

  11. अवश्यं तव इह धीरेण सतां मध्ये विवक्षता यथामतिविवक्तव्यं सर्वशॊ धर्मलिप्सया ॥ 11 ॥

  12. तत्र नाहं तथा मन्ये यथायम इतरॊ जनः पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ॥ 12 ॥

  13. नासूयकॊ न चापीर्षुर नातिवादी न मत्सरी भविष्यति जनस तत्र सवं सवं धर्मम अनुव्रतः ॥ 13 ॥

  14. बरह्मघॊषाश च भूयांसः पूर्णाहुत्यस तथैव च करतवश च भविष्यन्ति भूयांसॊ भूरिदक्षिणाः ॥ 14 ॥

  15. सदा च तत्र पर्जन्यः सम्यग वर्षी न संशयः संपन्नसस्या च मही निरीतीका भविष्यति ॥ 15 ॥

  16. रसवन्ति च धान्यानि गुणवन्ति फलानि च गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥ 16 ॥

  17. वायुश च सुखसंस्पर्शॊ निस्प्रतीपं च दर्शनम भयं नाभ्याविशेत तत्र यत्र राजा युधिष्ठिरः ॥ 17 ॥

  18. गावश च बहुलास तत्र न कृशा न च दुर्दुहाः पयांसि दधि सर्पींषि रसवन्ति हितानि च ॥ 18 ॥

  19. गुणवन्ति च पानानि भॊज्यानि रसवन्ति च तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥ 19 ॥

  20. रसाः सपर्शाश च गन्धाश च शब्दाश चापि गुणान्विताः दृश्यानि च परसन्नानि यत्र राजा युधिष्ठिरः ॥ 20 ॥

  21. सवैर सवैर गुणैः सुसंयुक्तास तस्मिन वर्षे तरयॊदशे देशे तस्मिन भविष्यन्ति तात पाण्डव संयुते ॥ 21 ॥

  22. संप्रीतिमाञ जनस तत्र संतुष्टः शुचिर अव्ययः देवतातिथिपूजासु सर्वभूतानुरागवान ॥ 22 ॥

  23. इष्टदानॊ महॊत्साहः शश्वद धर्मपरायणः अशुभ दविच छुभप्रेप्सुर नित्ययज्ञः शुभव्रतः भविष्यति जनस तत्र यत्र राजा युधिष्ठिरः ॥ 23 ॥

  24. तयक्तवाक्यानृतस तात शुभकल्याण मङ्गलः शुभार्थेप्षुः शुभमतिर यत्र राजा युधिष्ठिरः भविष्यति जनस तत्र नित्यं चेष्ट परियव्रतः ॥ 24 ॥

  25. धर्मात्मा स तदादृश्यः सॊ ऽपि तात दविजातिभिः किं पुनः पराकृतैः पार्थः शक्यॊ विज्ञातुम अन्ततः ॥ 25 ॥

  26. यस्मिन सत्यं धृतिर दानं परा शान्तिर धरुवा कषमा हरीः शरीः कीर्तिः परं तेज आनृशंस्यम अथार्जवम ॥ 26 ॥

  27. तस्मात तत्र निवासं तु छन्नं सत्रेण धीमतः गतिं वा परमां तस्य नॊत्सहे वक्तुम अन्यथा ॥ 27 ॥

  28. एवम एतत तु संचिन्त्य यत्कृतं मन्यसे हितम तत कषिप्रं कुरु कौरव्य यद्य एवं शरद्दधासि मे ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 28

Previous: अध्याय 26