धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 29

  1. [वै] अथ राजा तरिगर्तानां सुशर्मा रथयूथपः पराप्तकालम इदं वाक्यम उचाव तवरितॊ भृशम ॥ 1 ॥

  2. असकृन निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥ 2 ॥

  3. बाधितॊ बन्धुभिः सार्धं बलाद बलवता विभॊ स कर्णम अभ्युदीक्ष्याथ दुर्यॊधनम अभाषत ॥ 3 ॥

  4. असकृन मत्स्यराज्ञा मे राष्ट्रं बाधितम ओजसा परणेता कीचकश चास्य बलवान अभवत पुरा ॥ 4 ॥

  5. करूरॊ ऽमर्षी स दुष्टात्मा भुवि परख्यातविक्रमः निहतस तत्र गन्धर्वैः पापकर्मा नृशंसवान ॥ 5 ॥

  6. तस्मिंश च निहते राजन हीनदर्पॊ निराश्रयः भविष्यति निरुत्साहॊ विराट इति मे मतिः ॥ 6 ॥

  7. तत्र यात्रा मम मता यदि ते रॊचते ऽनघ कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ 7 ॥

  8. एतत पराप्तम अहं मन्ये कार्यम आत्ययिकं हितम राष्ट्रं तस्याभियात्व आशु बहु धान्यसमाकुलम ॥ 8 ॥

  9. आददामॊ ऽसय रत्नानि विविधानि वसूनि च गरामान राष्ट्राणि वा तस्य हरिष्यामॊ विभागशः ॥ 9 ॥

  10. अथ वा गॊसहस्राणि बहूनि च शुभानि च विविधानि हरिष्यामः परतिपीड्य पुरं बलात ॥ 10 ॥

  11. कौरवैः सह संगम्य तरिगर्तैश च विशां पते गास तस्यापहरामाशु सह सर्वैः सुसंहताः ॥ 11 ॥

  12. संधिं वा तेन कृत्वा तु निबध्नीमॊ ऽसय पौरुषम हत्वा चास्य चमूं कृत्स्नां वशम अन्वानयामहे ॥ 12 ॥

  13. तं वशे नयायतः कृत्वा सुखं वत्स्यामहे वयम भवतॊ बलवृद्धिश च भविष्यति न संशयः ॥ 13 ॥

  14. तच छरुत्वा वचनं तस्य कर्णॊ राजानम अब्रवीत सूक्तं सुशर्मणा वाक्यं पराप्तकालं हितं च नः ॥ 14 ॥

  15. तस्मात कषिप्रं विनिर्यामॊ यॊजयित्वा वरूथिनीम विभज्य चाप्य अनीकानि यथा वा मन्यसे ऽनघ ॥ 15 ॥

  16. परज्ञावान कुरुवृद्धॊ ऽयं सर्वेषां नः पितामहः आचार्यश च तथा दरॊणः कृपः शारद्वतस तथा ॥ 16 ॥

  17. मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ॥ 17 ॥

  18. किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः अत्यर्थं वा परनष्टास ते पराप्ता वापि यमक्षयम ॥ 18 ॥

  19. यामॊ राजन्न अनुद्विग्ना विराट विषयं वयम आदास्यामॊ हि गास तस्य विविधानि वसूमि च ॥ 19 ॥

  20. ततॊ दुर्यॊधनॊ राजा वाक्यम आदाय तस्य तत वैकर्तनस्य कर्णस्य कषिप्रम आज्ञापयत सवयम ॥ 20 ॥

  21. शासने नित्यसंयुक्तं दुःशासनम अनन्तरम सह वृद्धैस तु संमन्त्र्य कषिप्रं यॊजय वाहिनीम ॥ 21 ॥

  22. यथॊद्देशं च गच्छामः सहिताः सर्वकौरवैः सुशर्मा तु यथॊद्दिष्टं देशं यातु महारथः ॥ 22 ॥

  23. तरिगर्तैः सहितॊ राजा समग्रबलवाहनः पराग एव हि सुसंवीतॊ मत्स्यस्य विषयं परति ॥ 23 ॥

  24. जघन्यतॊ वयं तत्र यास्यामॊ दिवसान्तरम विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥ 24 ॥

  25. ते यात्वा सहसा तत्र विराटनगरं परति कषिप्रं गॊपान समासाद्य गृह्णन्तु विपुलं धनम ॥ 25 ॥

  26. गवां शतसहस्राणि शरीमन्ति गुणवन्ति च वयम अपि निगृह्णीमॊ दविधाकृत्वा वरूथिनीम ॥ 26 ॥

  27. स सम गत्वा यथॊद्दिष्टां दिशं वह्नेर महीपतिः आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम ॥ 27 ॥

  28. अपरं दिवसं सर्वे राजन संभूय कौरवाः अष्टम्यां तान्य अगृह्णन्त गॊकुलानि सहस्रशः ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 30

Previous: अध्याय 28