[वै] अथाब्रवीन महावीर्यॊ दरॊणस तत्त्वार्थ दर्शिवान न तादृशा विनश्यन्ति नापि यान्ति पराभवम ॥ 1 ॥
शूराश च कृतविद्याश च बुद्धिमन्तॊ जितेन्द्रियाः धर्मज्ञाश च कृतज्ञाश च धर्मराजम अनुव्रताः ॥ 2 ॥
नीतिधर्मार्थतत्त्वज्ञं पितृवच च समाहितम धर्मे सथितं सत्यधृतिं जयेष्ठं जयेष्ठापचायिनम ॥ 3 ॥
अनुव्रता महात्मानं भरातरं भरातरॊ नृप अजातशत्रुं हरीमन्तं तं च भरातॄन अनुव्रतम ॥ 4 ॥
तेषां तथाविधेयानां निभृतानां महात्मनाम किमर्थं नीतिमान पार्थः शरेयॊ नैषां करिष्यति ॥ 5 ॥
तस्माद यत्नात परतीक्षन्ते कालस्यॊदयम आगतम न हि ते नाशम ऋच्छेयुर इति पश्याम्य अहं धिया ॥ 6 ॥
सांप्रतं चैव यत कार्यं तच च कषिप्रम अकालिकम करियतां साधु संचिन्त्य वासश चैषां परचिन्त्यताम ॥ 7 ॥
यथावत पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम दुर्ज्ञेयाः खलु शूरास ते अपापास तपसा वृताः ॥ 8 ॥
शुद्धात्मा गुणवान पार्थः सत्यवान नीतिमाञ शुचिः तेजॊराशिर असंख्येयॊ गृह्णीयाद अपि चक्षुर ई ॥ 9 ॥
विज्ञाय करियतां तस्माद भूयश च मृगयामहे बराह्मणैश चारकैः सिद्धैर ये चान्ये तद्विदॊ जनाः ॥ 10 ॥
विराटपर्व · Virata Parva
अध्याय 26
Reach this point to mark the section finished.
Continue to अध्याय 27