[वै] ततॊ दुर्यॊधनॊ राजा शरुत्वा तेषां वचस तदा चिरम अन्तर मना भूत्वा परत्युवाच सभा सदः ॥ 1 ॥
सुदुःखा खलु कार्याणां गतिर विज्ञातुम अन्ततः तस्मात सर्वे उदीक्षध्वं कव नु सयुः पाण्डवा गताः ॥ 2 ॥
अल्पावशिष्टं कालस्य गतभूयिष्ठम अन्ततः तेषाम अज्ञातचर्यायाम अस्मिन वर्षे तरयॊदशे ॥ 3 ॥
अस्य वर्षस्य शेषं चेद वयतीयुर इह पाण्डवाः निवृत्तसमयास ते हि सत्यव्रतपरायणाः ॥ 4 ॥
कषरन्त इव नागेन्द्राः सर्व आशीविषॊपमाः दुःखा भवेयुः संरब्धाः कौरवान परति ते धरुवम ॥ 5 ॥
अर्वाक कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः परविशेयुर जितक्रॊधास तावद एव पुनर वनम ॥ 6 ॥
तस्मात कषिप्रं बुभुत्सध्वं यथा नॊ ऽतयन्तम अव्ययम राज्यं निर्द्वन्द्वम अव्यग्रं निःसपत्नं चिरं भवेत ॥ 7 ॥
अथाब्रवीत ततः कर्णः कषिप्रं गच्छन्तु भारत अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः ॥ 8 ॥
चरन्तु देशान संवीताः सफीताञ जनपदाकुलान तत्र गॊष्ठीष्व अथान्यासु सिद्धप्रव्रजितेषु च ॥ 9 ॥
परिचारेषु तीर्थेषु विविधेष्व आकरेषु च विज्ञातव्या मनुष्यैस तैस तर्कया सुविनीतया ॥ 10 ॥
विविधैस तत्परैः सम्यक तज्ज्ञैर निपुण संवृतैः अन्वेष्टव्याश च निपुणं पाण्डवाश छन्नवासिनः ॥ 11 ॥
नदी कुञ्जेषु तीर्थेषु गरामेषु नगरेषु च आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ 12 ॥
अथाग्रजानन्तरजः पापभावानुरागिणम जयेष्ठं दुःशासनस तत्र भराता भरातरम अब्रवीत ॥ 13 ॥
एतच च कर्णॊ यत पराह सर्वम ईक्षामहे तथा यथॊद्दिष्टं चराः सर्वे मृगयन्तु ततस ततः एते चान्ये च भूयांसॊ देशाद देशं यथाविधि ॥ 14 ॥
न तु तेषां गतिर वासः परवृत्तिश चॊपलभ्यते अत्याहितं वा गूढास ते पारं वॊर्मिमतॊ गताः ॥ 15 ॥
वयालैर वापि महारण्ये भक्षिताः शूरमानिनः अथ वा विषमं पराप्य विनष्टाः शाश्वतीः समाः ॥ 16 ॥
तस्मान मानसम अव्यग्रं कृत्वा तवं कुरुनन्दन कुरु कार्यं यथॊत्साहं मन्यसे यन नराधिप ॥ 17 ॥
विराटपर्व · Virata Parva
अध्याय 25
Reach this point to mark the section finished.
Continue to अध्याय 26