[वै] कीचकस्य तु घातेन सानुजस्य विशां पते अत्याहितं चिन्तयित्वा वयस्मयन्त पृथग्जनाः ॥ 1 ॥
तस्मिन पुरे जनपदे संजल्पॊ ऽभूच च सर्वशः शौर्याद धि वल्लभॊ राज्ञॊ महासत्त्वश च कीचकः ॥ 2 ॥
आसीत परहर्ता च नृणां दारामर्शी च दुर्मतिः स हतः खलु पापात्मा गन्धर्वैर दुष्टपूरुषः ॥ 3 ॥
इत्य अजल्पन महाराजन परानीक विशातनम देशे देशे मनुष्याश च कीचकं दुष्प्रधर्षणम ॥ 4 ॥
अथ वै धार्तराष्ट्रेण परयुक्ता य बहिश्चराः मृगयित्वा बहून गरामान राष्ट्राणि नगराणि च ॥ 5 ॥
संविधाय यथादिष्टं यथा देशप्रदर्शनम कृतचिन्ता नयवर्तन्त ते च माग पुरं परति ॥ 6 ॥
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्र जम दॊर्ण कर्ण कृपैः सार्धं भीष्मेण च महात्मना ॥ 7 ॥
संगतं भरातृभिश चापि तरिगर्तैश च महारथैः दुर्यॊधनं सभामध्ये आसीनम इदम अब्रुवन ॥ 8 ॥
कृतॊ ऽसमाभिः परॊ यत्नस तेषाम अन्वेषणे सदा पाण्डवानां मनुष्येन्द्र तस्मिन महति कानने ॥ 9 ॥
निर्जने मृगसंकीर्णे नानाद्रुमलतावृते लताप्रतान बहुले नानागुल्मसमावृते ॥ 10 ॥
न च विद्मॊ गता येन पार्थाः सयुर दृढविक्रमाः मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ॥ 11 ॥
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च जनाकीर्णेषु देशेषु खर्वटेषु परेषु च ॥ 12 ॥
नरेन्द्र बहुशॊ ऽनविष्टा नैव विद्मश च पाण्डवान अत्यन्तभावं नष्टास ते भद्रं तुभ्यं नरर्षभ ॥ 13 ॥
वर्त्मान्य अन्विष्यमाणास तु रथानां रथसत्तम कं चित कालं मनुष्येन्द्र सूतानाम अनुगा वयम ॥ 14 ॥
मृगयित्वा यथान्यायं विदितार्थाः सम तत्त्वतः पराप्ता दवारवतीं सूता ऋते पार्थैः परंतप ॥ 15 ॥
न तत्र पाण्डवा राजन नापि कृष्णा पतिव्रता सर्वथा विप्रनष्टास ते नमस ते भरतर्षभ ॥ 16 ॥
न हि विद्मॊ गतिं तेषां वासं वापि महात्मनाम पाण्डवानां परवृत्तिं वा विद्मः कर्मापि वा कृतम स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ॥ 17 ॥
अन्वेषणे पाण्डवानां भूयः किं करवामहे इमां च नः परियाम ईक्ष वाचं भद्रवतीं शुभाम ॥ 18 ॥
येन तरिगर्त्ता निकृता बलेन महता नृप सूतेन राज्ञॊ मत्स्यस्य कीचकेन महात्मना ॥ 19 ॥
स हतः पतितः शेते गन्धर्वैर निशि भारत अदृश्यमानैर दुष्टात्मा सह भरातृभिर अच्युत ॥ 20 ॥
परियम एतद उपश्रुत्य शत्रूणां तु पराभवम कृतकृत्यश च कौरव्य विधत्स्व यद अनन्तरम ॥ 21 ॥
विराटपर्व · Virata Parva
अध्याय 24
Reach this point to mark the section finished.
Continue to अध्याय 25