धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 22

  1. [वै] तस्मिन काले समागम्य सर्वे तत्रास्य बान्धवाः रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥ 1 ॥

  2. सर्वे संहृष्टरॊमाणः संत्रस्ताः परेक्ष्य कीचकम तथा सर्वाङ्गसंभुग्नं कूर्मं सथल इवॊद्धृतम ॥ 2 ॥

  3. पॊथितं भीमसेनेन तम इन्द्रेणेव दानवम संस्कारयितुम इच्छन्तॊ बहिर नेतुं परचक्रमुः ॥ 3 ॥

  4. ददृशुस ते ततः कृष्णां सूतपुत्राः समागताः अदूराद अनवद्याङ्गीं सतम्भम आलिङ्ग्य तिष्ठतीम ॥ 4 ॥

  5. समवेतेषु सूतेषु तान उवाचॊपकीचकः हन्यतां शीघ्रम असती यत्कृते कीचकॊ हतः ॥ 5 ॥

  6. अथ वा नेह हन्तव्या दह्यतां कामिना सह मृतस्यापि परियं कार्यं सूतपुत्रस्य सर्वथा ॥ 6 ॥

  7. ततॊ विराटम ऊचुस ते कीचकॊ ऽसयाः कृते हतः सहाद्यानेन दह्येत तदनुज्ञातुम अर्हसि ॥ 7 ॥

  8. पराक्रमं तु सूतानां मत्वा राजान्वमॊदत सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥ 8 ॥

  9. तां समासाद्य वित्रस्तां कृष्णां कमललॊचनाम मॊमुह्यमानां ते तत्र जगृहुः कीचका भृशम ॥ 9 ॥

  10. ततस तु तां समारॊप्य निबध्य च सुमध्यमाम जग्मुर उद्यम्य ते सर्वे शमशानम अभितस तदा ॥ 10 ॥

  11. हरियमाणा तु सा राजन सूतपुत्रैर अनिन्दिता पराक्रॊशन नाथम इच्छन्ती कृष्णा नाथवती सती ॥ 11 ॥

  12. [दरौ] जयॊ जयन्तॊ विजयॊ जयत्सेनॊ यजद्बलः ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम ॥ 12 ॥

  13. येषां जयातलनिर्घॊषॊ विस्फूर्जितम इवाशनेः वयश्रूयत महायुद्धे भीमघॊषस तरस्विनाम ॥ 13 ॥

  14. रथघॊषश च बलवान गन्धर्वाणां यशस्विनाम ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम ॥ 14 ॥

  15. [वै] तस्यास ताः कृपणा वाचः कृष्णायाः परिदेविताः शरुत्वैवाभ्यपतद भीमः शयनाद अविचारयन ॥ 15 ॥

  16. [भीमस] अहं शृणॊमि ते वाचं तवया सैरन्धि भाषिताम तस्मात ते सूतपुत्रेभ्यॊ न भयं भीरु विद्यते ॥ 16 ॥

  17. [वै] इत्य उक्त्वा स महाबाहुर विजजृम्भे जिघांसया ततः स वयायतं कृत्वा वेषं विपरिवर्त्य च अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस तदा ॥ 17 ॥

  18. स भीमसेनः पराकाराद आरुज्य तरसा दरुमम शमशानाभिमुखः परायाद यत्र ते कीचका गताः ॥ 18 ॥

  19. स तं वृक्षं दशव्यामं स सकन्धविटपं बली परगृह्याभ्यद्रवत सूतान दण्डपाणिर इवान्तकः ॥ 19 ॥

  20. ऊरुवेगेन तस्याथ नयग्रॊधाश्वत्थ किंशुकाः भूमौ निपतिता वृक्षाः संघशस तत्र शेरते ॥ 20 ॥

  21. तं सिंहम इव संक्रुद्धं दृष्ट्वा गन्धर्वम आगतम वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ॥ 21 ॥

  22. तम अन्तकम इवायान्तं गन्धर्वं परेक्ष्य ते तदा दिधक्षन्तस तदा जयेष्ठं भरातरं हय उपकीचकाः परस्परम अथॊचुस ते विषादभयकम्पिताः ॥ 22 ॥

  23. गन्धर्वॊ बलवान एति करुद्ध उद्यम्य पादपम सैरन्ध्री मुच्यतां शीघ्रं महन नॊ भयम आगतम ॥ 23 ॥

  24. ते तु दृष्ट्वा तम आविद्धं भीमसेनेन पादपम विमुच्य दरौपदीं तत्र पराद्रवन नगरं परति ॥ 24 ॥

  25. दरवतस तांस तु संप्रेक्ष्य सवज्री दानवान इव शतं पञ्चाधिकं भीमः पराहिणॊद यमसादनम ॥ 25 ॥

  26. तत आश्वासयत कृष्णां परविमुच्य विशां पते उवाच च महाबाहुः पाञ्चालीं तत्र दरौपदीम अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकॊदरः ॥ 26 ॥

  27. एवं ते भीरु वध्यन्ते ये तवां कलिष्यन्त्य अनागसम परैहि तवं नगरं कृष्णे न भयं विद्यते तव अन्येनाहं गमिष्यामि विराटस्य महानसम ॥ 27 ॥

  28. पञ्चाधिकं शतं तच च निहतं तत्र भारत महावनम इव छिन्नं शिश्ये विगलितद्रुमम ॥ 28 ॥

  29. एवं ते निहता राजञ शतं पञ्च च कीचकाः स च सेनापतिः सूर्वम इत्य एतत सूत षट षतम ॥ 29 ॥

  30. तद दृष्ट्वा महद आश्चर्यं नरा नार्यश च संगताः विष्मयं परमं गत्वा नॊचुः किं चन भारत ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21