धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 21

  1. [भीमस] तथा भद्रे करिष्यामि यथा तवं भीरु भाषसे अद्य तं सूदयिष्यामि कीचकं सह बान्धवम ॥ 1 ॥

  2. अस्याः परदॊषे शर्वर्याः कुरुष्वानेन संगमम दुःखं शॊकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ 2 ॥

  3. यैषा नर्तन शाला वै मत्स्यराजेन कारिता दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम ॥ 3 ॥

  4. तत्रास्ति शयनं भीरु दृज्ढाङ्गं सुप्रतिष्ठितम तत्रास्य दर्शयिष्यामि पूर्वप्रेतान पितामहान ॥ 4 ॥

  5. यथा च तवां न पश्येयुः कुर्वाणां तेन संविदम कुर्यास तथा तवं कल्याणि यथा संनिहितॊ भवेत ॥ 5 ॥

  6. [वै] तथा तौ कथयित्वा तु बाष्पम उत्सृज्य दुःखितौ रात्रिशेषं तद अत्युग्रं धारयाम आसतुर हृदा ॥ 6 ॥

  7. तस्यां रात्र्यां वयतीतायां परातर उत्थाय कीचकः गत्वा राजकुलायैव दरौपदीम इदम अब्रवीत ॥ 7 ॥

  8. सभायां पश्यतॊ राज्ञः पातयित्वा पदाहनम न चैवालभथास तराणम अभिपन्ना बलीयसा ॥ 8 ॥

  9. परवादेन हि मत्स्यानां राजा नाम्नायम उच्यते अहम एव हि मत्स्यानां राजा वै वाहिनीपतिः ॥ 9 ॥

  10. सा सुखं परतिपद्यस्व दासभीरु भवामि ते अह्नाय तव सुश्रॊणिशतं निष्कान ददाम्य अहम ॥ 10 ॥

  11. दासी शतं च ते दद्यां दासानाम अपि चापरम रथं चाश्वतरी युक्तम अस्तु नौ भीरु संगमः ॥ 11 ॥

  12. [दरौ] एकं मे समयं तव अद्य परतिपद्यस्व कीचक न तवां सखा वा भराता वा जानीयात संगतं मया ॥ 12 ॥

  13. अवबॊधाद धि भीतास्मि गन्धर्वाणां यशस्विनाम एवं मे परतिजानीहि ततॊ ऽहं वशगा तव ॥ 13 ॥

  14. [कीचक] एवम एतत करिष्यामि यथा सुश्रॊणि भाषसे एकॊ भद्रे गमिष्यामि शून्यम आवसथं तव ॥ 14 ॥

  15. समागमार्थं रम्भॊरु तवया मदनमॊहितः यथा तवां नावभॊत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ॥ 15 ॥

  16. [दरौ] यद इदं नर्तनागारं मत्स्यराजेन कारितम दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम ॥ 16 ॥

  17. तमिस्रे तत्र गच्छेथा गन्धर्वास तन न जानते तत्र दॊषः परिहृतॊ भविष्यति न संशयः ॥ 17 ॥

  18. [वै] तम अर्थं परतिजल्पन्त्याः कृष्णायाः कीचकेन ह दिवसार्धं समभवन मासेनैव समं नृप ॥ 18 ॥

  19. कीचकॊ ऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः सैरन्ध्री रूपिणं मूढॊ मृत्युं तं नावबुद्धवान ॥ 19 ॥

  20. गन्धाभरण माल्येषु वयासक्तः स विशेषतः अलं चकार सॊ ऽऽतमानं स तवरः काममॊहितः ॥ 20 ॥

  21. तस्य तत कुर्वतः कर्मकालॊ दीर्घ इवाभवत अनुचिन्तयतश चापि ताम एवायत लॊचनाम ॥ 21 ॥

  22. आसीद अभ्यधिका चास्य शरीः शरियं परमुमुक्षतः निर्वाणकाले दीपस्य वर्तीम इव दिधक्षतः ॥ 22 ॥

  23. कृतसंप्रत्ययस तत्र कीचकः काममॊहितः नाजानाद दिवसं यान्तं चिन्तयानः समागमम ॥ 23 ॥

  24. ततस तु दरौपदी गत्वा तदा भीमं महानसे उपातिष्ठत कल्याणी कौरव्यं पतिम अन्तिकात ॥ 24 ॥

  25. तम उवाच सुकेशान्ता कीचकस्य मया कृतः संगमॊ नर्तनागारे यथावॊचः परंतप ॥ 25 ॥

  26. शून्यं स नर्तनागारम आगमिष्यति कीचकः एकॊ निशि महाबाहॊ कीचकं तं निषूदय ॥ 26 ॥

  27. तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम गत्वा तवं नर्तनागारं निर्जीवं कुरुपाण्डव ॥ 27 ॥

  28. दर्पाच च सूतपुत्रॊ ऽसौ गन्धर्वान अवमन्यते तं तवं परहरतां शरेष्ठ नडं नाग इवॊद्धर ॥ 28 ॥

  29. अश्रुदुःखाभिभूताया मम मार्जस्व भारत आत्मनश चैव भद्रं ते कुरु मानं कुलस्य च ॥ 29 ॥

  30. [भीमस] सवागतं ते वरारॊहे यन मां वेदयसे परियम न हय अस्य कं चिद इच्छामि सहायं वरवर्णिनि ॥ 30 ॥

  31. या मे परीतिस तवयाख्याता कीचकस्य समागमे हत्वा हिडिम्बं सा परीतिर ममासीद वरवर्णिनि ॥ 31 ॥

  32. सत्यं भरतॄंश च धर्मं च पुरस्कृत्य बरवीमि ते कीचकं निहनिष्यामि वृत्रं देवपतिर यथा ॥ 32 ॥

  33. तं गह्वरे परकाशे वा पॊथयिष्यामि कीचकम अथ चेद अवभॊत्स्यन्ति हंस्ये मत्स्यान अपि धरुवम ॥ 33 ॥

  34. ततॊ दुर्यॊधनं हत्वा परतिपत्स्ये वसुंधराम कामं मत्स्यम उपास्तां हि कुन्तीपुत्रॊ युधिष्ठिरः ॥ 34 ॥

  35. [दरौ] यथा न संत्यजेथास तवं सत्यं वै मत्कृते विभॊ निगूढस तवं तथा वीर कीचकं विनिपातय ॥ 35 ॥

  36. [भीमस] एवम एतत करिष्यामि यथा तवं भीरु भाषते अदृश्यमानस तस्याद्य तमस्विन्याम अनिन्दिते ॥ 36 ॥

  37. नागॊ बिल्वम इवाक्रम्य पॊथयिष्याम्य अहं शिरः अलभ्याम इच्छतस तस्य कीचकस्य दुरात्मनः ॥ 37 ॥

  38. [वै] भीमॊ ऽथ परथमं गत्वा रात्रौ छन्न उपाविशत मृगं हरिर इवादृश्यः परत्याकाङ्क्षत स कीचकम ॥ 38 ॥

  39. कीचकश चाप्य अलं कृत्ययथाकामम उपाव्रजत तां वेलां नर्तनागारे पाञ्चाली संगमाशया ॥ 39 ॥

  40. मन्यमानः स संकेतम आगारं पराविशच च तम परविश्य च स तद वेश्म तमसा संवृतं महत ॥ 40 ॥

  41. पूर्वागतं ततस तत्र भीमम अप्रतिमौजसम एकान्तम आस्थितं चैनम आससाद सुदुर्मतिः ॥ 41 ॥

  42. शयानं शयने तत्र मृत्युं सूतः परामृशत जाज्वल्यमानं कॊपेन कृष्णा धर्षणजेन ह ॥ 42 ॥

  43. उपसंगम्य चैवैनं कीचकः काममॊहितः हर्षॊन्मथित चित्तात्मा समयमानॊ ऽभयभाषत ॥ 43 ॥

  44. परापितं ते मया वित्तं बहुरूपम अनन्तकम सत सर्वं तवां समुद्दिश्य सहसा समुपागतः ॥ 44 ॥

  45. नाकस्मान मां परशंसन्ति सदा गृहगताः सत्रियः सुवासा दर्शनीयश च नान्यॊ ऽसति तवा दृशः पुमान ॥ 45 ॥

  46. [भीमस] दिष्ट्या तवं दर्शनीयॊ ऽसि दिष्ट्यात्मानं परशंससि ईदृशस तु तवया सपर्शः सपृष्टपूर्वॊ न कर्हि चित ॥ 46 ॥

  47. [वै] इत्य उक्त्वा तं महाबाहुर भीमॊ भीमपराक्रमः समुत्पत्य च कौन्तेयः परहस्य च नराधमम भीमॊ जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ 47 ॥

  48. स केशेषु परामृष्टॊ बलेन बलिनां वरः आक्षिप्य केशान वेगेन बाह्वॊर जग्राह पाण्डवम ॥ 48 ॥

  49. बाहुयुद्धं तयॊर आसीत करुद्धयॊर नरसिंहयॊः वसन्ते वासिता हेतॊर बलवद गजयॊर इव ॥ 49 ॥

  50. ईषद आगलितं चापि करॊधाच चल पदं सथितम कीचकॊ बलवान भीमं जानुभ्याम आक्षिपद भुवि ॥ 50 ॥

  51. पातितॊ भुवि भीमस तु कीचकेन बलीयसा उत्पपाताथ वेगेन दण्डाहत इवॊरगः ॥ 51 ॥

  52. सपर्धया च बलॊन्मत्तौ ताव उभौ सूत पाण्डवौ निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ॥ 52 ॥

  53. ततस तद भवनश्रेष्ठं पराकम्पत मुहुर मुहुः बलवच चापि संक्रुद्धाव अन्यॊन्यं ताव अगर्जताम ॥ 53 ॥

  54. तलाभ्यां तु स भीमेन वक्षस्य अभिहतॊ बली कीचकॊ रॊषसंतप्तः पदान न चलितः पदम ॥ 54 ॥

  55. मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम बलाद अहीयत तदा सूतॊ भीमबलार्दितः ॥ 55 ॥

  56. तं हीयमानं विज्ञाय भीमसेनॊ महाबलः वक्षस्य आनीय वेगेन ममन्थैनं विचेतसम ॥ 56 ॥

  57. करॊधाविष्टॊ विनिःश्वस्य पुनश चैनं वृकॊदरः जग्राह जयतां शरेष्ठः केशेष्व एव तदा भृशम ॥ 57 ॥

  58. गृहीत्वा कीचकं भीमॊ विरुराव महाबलः शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम ॥ 58 ॥

  59. तस्य पादौ च पाणी च शिरॊग्रीवां च सर्वशः काये परवेशयाम आस पशॊर इव पिनाक धृक ॥ 59 ॥

  60. तं संमथित सर्वाङ्गं मांसपिण्डॊपमं कृतम कृष्णायै दर्शयाम आस भीमसेनॊ महाबलः ॥ 60 ॥

  61. उवाच च महातेजा दरौपदीं पाण्डुनन्दनः पश्यैनम एहि पाञ्चालि कामुकॊ ऽयं यथा कृतः ॥ 61 ॥

  62. तथा स कीचकं हत्वा गत्वा रॊषस्य वै शमम आमन्त्र्य दरौपदीं कृष्णां कषिप्रम आयान महानसम ॥ 62 ॥

  63. कीचकं घातयित्वा तु दरौपदी यॊषितां वरा परहृष्टा गतसंतापा सभा पालान उवाच ह ॥ 63 ॥

  64. कीचकॊ ऽयं हतः शेते गन्धर्वैः पतिभिर मम परस्त्री कामसंमत्तः समागच्छत पश्यत ॥ 64 ॥

  65. तच छरुत्वा भाषितं तस्या नर्तनागार रक्षिणः सहसैव समाजग्मुर आदायॊकाः सहस्रशः ॥ 65 ॥

  66. ततॊ गत्वाथ तद वेश्म कीचकं विनिपातितम गतासुं ददृशुर भूमौ रुधिरेण समुक्षितम ॥ 66 ॥

  67. कवास्य गरीवा कव चरणौ कव पाणी कव शिरस तथा इति सम तं परीक्षन्ते गन्धर्वेण हतं तदा ॥ 67 ॥

Reach this point to mark the section finished.

Continue to अध्याय 22

Previous: अध्याय 20