धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 20

  1. [भीमस] धिग अस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च यत ते रक्तौ पुरा भूत्वा पाणी कृतकिणाव उभौ ॥ 1 ॥

  2. सभायां सम विराटस्य करॊमि कदनं महत तत्र मां धर्मराजस तु कटाक्षेण नयवारयत तद अहं तस्य विज्ञाय सथित एवास्मि भामिनि ॥ 2 ॥

  3. यच च राष्ट्रात परच्यवनं कुरूणाम अवधश च यः सुयॊधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ 3 ॥

  4. दुःशासनस्य पापस्य यन मया न हृतं शिरः तन मे दहति कल्याणि हृदि शल्यम इवार्पितम मा धर्मं जहि सुश्रॊणि करॊधं जहि महामते ॥ 4 ॥

  5. इमं च समुपालम्भं तवत्तॊ राजा युधिष्ठिरः शृणुयाद यदि कल्याणि कृत्स्नं जह्यात स जीवितम ॥ 5 ॥

  6. धनंजयॊ वा सुश्रॊणि यमौ वा तनुमध्यमे लॊकान्तर गतेष्व एषु नाहं शक्ष्यामि जीवितुम ॥ 6 ॥

  7. सुकन्या नाम शार्याती भार्गवं चयचनं वने वल्मीक भूतं शाम्यन्तम अन्वपद्यत भामिनी ॥ 7 ॥

  8. नाड्दायनी चेन्द्रसेना रूपेण यदि ते शरुता पतिम अन्वचरद वृद्धं पुरा वर्षसहस्रिणम ॥ 8 ॥

  9. दुहिता जनकस्यापि वैदेही यदि ते शरुता पतिम अन्वचरत सीता महारण्यनिवासिनम ॥ 9 ॥

  10. रक्षसा निग्रहं पराप्य रामस्य महिषी परिया कलिश्यमानापि सुश्रॊणी रामम एवान्वपद्यत ॥ 10 ॥

  11. लॊपामुद्रा तथा भीरु वयॊ रूपसमन्विता अगस्त्यम अन्वयाद धित्वा कामान सर्वान अमानुषान ॥ 11 ॥

  12. यथैताः कीर्तिता नार्यॊ रूपवत्यः पतिव्रताः तथा तवम अपि कल्याणि सर्वैः समुदिता गुणैः ॥ 12 ॥

  13. मा दीर्घं कषम कालं तवं मासम अध्यर्धसंमितम पूर्णे तरयॊदशे वर्षे राज्ञॊ राज्ञी भविष्यसि ॥ 13 ॥

  14. [दरौ] आर्तयैतन मया भीमकृतं बाष्पविमॊक्षणम अपारयन्त्या दुःखानि न राजानम उपालभे ॥ 14 ॥

  15. विमुक्तेन वयतीतेन भीमसेन महाबल परत्युपस्थित कालस्य कार्यस्यानन्तरॊ भव ॥ 15 ॥

  16. ममेह भीमकैकेयी रूपाभिभव शङ्कया नित्यम उद्जिवते राजा कथं नेयाद इमाम इती ॥ 16 ॥

  17. तस्या विदित्वा तं भावं सवयं चानृत दर्शनः कीचकॊ ऽयं सुदुष्टात्मा सदा परार्थयते हि माम ॥ 17 ॥

  18. तम अहं कुपिता भीम पुनः कॊपं नियम्य च अब्रुवं कामसंमूढम आत्मानं रक्ष कीचक ॥ 18 ॥

  19. गन्धर्वाणाम अहं भार्या पञ्चानां महिषी परिया ते तवां निहन्युर दुर्धर्षाः शूराः साहस कारिणः ॥ 19 ॥

  20. एवम उक्तः स दुष्टात्मा कीचकः परत्युवाच ह नाहं बिभेमि सैरन्धिर गन्धर्वाणां शुचिस्मिते ॥ 20 ॥

  21. शतं सहस्रम अपि वा गन्धर्वाणाम अहं रणे समागतं हनिष्यामि तवं भीरु कुरु मे कषणम ॥ 21 ॥

  22. इत्य उक्ते चाब्रुवं सूतं कामातुरम अहं पुनः न तवं परतिबलस तेषां गन्धर्वाणां यशस्विनाम ॥ 22 ॥

  23. धर्मे सथितास्मि सततं कुलशीलसमन्विता नेच्छामि कं चिद वध्यन्तं तेन जीवसि कीचक ॥ 23 ॥

  24. एवम उक्तः स दुष्टात्मा परहस्य सवनवत तदा न तिष्ठति सम सन मार्गे न च धर्मं बुभूषति ॥ 24 ॥

  25. पापात्मा पापभावश च कामरागवशानुगः अविनीतश च दुष्टात्मा परत्याख्यातः पुनः पुनः दर्शने दर्शने हन्यात तथा जह्यां च जीवितम ॥ 25 ॥

  26. तद धर्मे यतमानानां महान धर्मॊ नशिष्यति समयं रक्षमाणानां भार्या वॊ न भविष्यति ॥ 26 ॥

  27. भार्यायां रक्ष्यमाणायां परजा भवति रक्षिता परजायां रक्ष्यमाणायाम आत्मा भवति रक्षितः ॥ 27 ॥

  28. वदतां वर्णधर्मांश च बराह्मणानां हि मे शरुतम कषत्रियस्य सदा धर्मॊ नान्यः शत्रुनिबर्हणात ॥ 28 ॥

  29. पश्यतॊ धर्मराजस्य कीचकॊ मां पदावधीत तव चैव समक्षं वै भीमसेन महाबल ॥ 29 ॥

  30. तवया हय अहं परित्राता तस्माद घॊराज जटासुरात जयद्रथं तथैव तव मजैषीर भरातृभिः सह ॥ 30 ॥

  31. जहीमम अपि पापं तवं यॊ ऽयं माम अवमन्यते कीचकॊ राजवाल्लभ्याच छॊककृन मम भारत ॥ 31 ॥

  32. तम एवं कामसंम्मत्तं भिन्धि कुम्भम इवाश्मनि यॊ निमित्तम अनर्थानां बहूनां मम भारत ॥ 32 ॥

  33. तं चेज जीवन्तम आदित्यः परातर अभ्युदयिष्यति विषम आलॊड्य पास्यामि मां कीचक वशं गमम शरेयॊ हि मरणं मह्यं भीमसेन तवाग्रतः ॥ 33 ॥

  34. [वै] इत्य उक्त्वा परारुदत कृष्णा भीमस्यॊरः समाश्रिता भीमश च तां परिष्वज्य महत सान्त्वं परयुज्य च कीचकं मनसागच्छत सृक्किणी परिसंलिहन ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 21

Previous: अध्याय 19