[दरौ] अहं सैरन्धि वेषेण चरन्ती राजवेश्मनि शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात ॥ 1 ॥
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप आसे कालम उपासीना सर्वं दुःखं किलार्तवत ॥ 2 ॥
अनित्या किल मर्त्यानाम अर्थसिद्धिर जयाजयौ इति कृत्वा परतीक्षामि भर्तॄणाम उदयं पुनः ॥ 3 ॥
य एव हेतुर भवति पुरुषस्य जयावहः पराजये च हेतुः स इति च परतिपालये ॥ 4 ॥
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे पातयित्वा च पात्यन्ते परैर इति च मे शरुतम ॥ 5 ॥
न दैवस्याति भारॊ ऽसति न दैवस्याति वर्तनम इति चाप्य आगमं भूयॊ दैवस्य परतिपालये ॥ 6 ॥
सथितं पूर्वं जलं यत्र पुनस तत्रैव तिष्ठति इति पर्यायम इच्छन्ती परतीक्षाम्य उदयं पुनः ॥ 7 ॥
दैवेन किल यस्यार्थः सुनीतॊ ऽपि विपद्यते दैवस्य चागमे यत्नस तेन कार्यॊ विजानता ॥ 8 ॥
यत तु मे वचनस्यास्य कथितस्य परयॊजनम पृच्छ मां दुःखितां तत तवम अपृष्टा वा बरवीमि ते ॥ 9 ॥
महिषी पाण्डुपुत्राणां दुहिता दरुपदस्य च इमाम अवस्थां संप्राप्ता का मद अन्या जिजीविषेत ॥ 10 ॥
कुरून परिभवन सर्वान पाञ्चालान अपि भारत पाण्डवेयांश च संप्राप्तॊ मम कलेशॊ हय अरिंदम ॥ 11 ॥
भरातृभिः शवशुरैः पुत्रैर बहुभिः परवीर हन एवं समुदिता नारी का नव अन्या दुःखिता भवेत ॥ 12 ॥
नूनं हि बालया धातुर मया वै विप्रियं कृतम यस्य परसादाद दुर्नीतं पराप्तास्मि भरतर्षभ ॥ 13 ॥
वर्णावकाशम अपि मे पश्य पाण्डव यादृशम यादृशॊ मे न तत्रासीद दुःखे परमके तदा ॥ 14 ॥
तवम एव भीम जानीषे यन मे पार्थ सुखं पुरा साहं दासत्वम आपन्ना न शान्तिम अवशा लभे ॥ 15 ॥
नादैविकम इदं मन्ये यत्र पार्थॊ धनंजयः भीम धन्वा महाबाहुर आस्ते शान्त इवानलः ॥ 16 ॥
अशक्या वेदितुं पार्थ पराणिनां वै गतिर नरैः विनिपातम इमं मन्ये युष्माकम अविचिन्तितम ॥ 17 ॥
यस्या मम मुखप्रेक्षा यूयम इन्द्रसमाः सदा सा परेक्षे मुखम अन्यासाम अवराणां वरा सती ॥ 18 ॥
पश्य पाण्डव मे ऽवस्थां यथा नार्हामि वै तथा युष्मासु धरियमाणेषु पश्य कालस्य पर्ययम ॥ 19 ॥
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी आसीत साद्य सुदेष्णाया भीताहं वशवर्तिनी ॥ 20 ॥
यस्याः पुरःसरा आसन पृष्ठतश चानुगामिनः साहम अद्य सुदेष्णायाः पुरः पश्चाच च गामिनी इदं तु दुःखं कौन्तेय ममासह्यं निबॊध तत ॥ 21 ॥
या न जातु सवयं पिंषे गात्रॊद्वर्तनम आत्मनः अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा ॥ 22 ॥
[वै] इत्य अस्य दर्शयाम आस किणबद्धौ कराव उभौ ॥ 23 ॥
[दरौ] बिभेमि कुन्त्या या नाहं युष्माकं वा कदा चन साद्याग्रतॊ विराटस्य भीता तिष्ठामि किंकरी ॥ 24 ॥
किं नु वक्ष्यति सम्राण मां वर्णकः सुकृतॊ न वा नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रॊचते ॥ 25 ॥
[वै] सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी रुरॊद शनकैः कृष्णा भीमसेनम उदीक्षती ॥ 26 ॥
सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः हृदयं भीमसेनस्य घट्टयन्तीदम अब्रवीत ॥ 27 ॥
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा अभाग्या यत तु जीवामि मर्तव्ये सति पाण्डव ॥ 28 ॥
ततस तस्याः करौ शूनौ किणबद्धौ वृकॊदरः मुखम आनीय वेपन्त्या रुरॊद परवीर हा ॥ 29 ॥
तौ गृहीत्वा च कौन्तेयॊ बाष्पम उत्सृज्य वीर्यवान ततः परमदुःखार्त इदं वचनम अब्रवीत ॥ 30 ॥
विराटपर्व · Virata Parva
अध्याय 19
Reach this point to mark the section finished.
Continue to अध्याय 20