[ज] कथं विराटनगरे मम पूर्वपितामहाः अज्ञातवासम उषिता दुर्यॊधन भयार्दिताः ॥ 1 ॥
तथा तु स वराँल लब्ध्वा धर्माधर्मभृतां वरः गत्वाश्रमं बराह्मणेभ्य आचख्यौ सर्वम एव तत ॥ 2 ॥
कथयित्वा तु तत सर्वं बराह्मणेभ्यॊ युधिष्ठिरः अरणी सहितं तस्मै बराह्मणाय नयवेदयत ॥ 3 ॥
ततॊ युधिष्ठिरॊ राजा धर्मपुत्रॊ महामनाः संनिवर्त्यानुजान सर्वान इति हॊवाच भारत ॥ 4 ॥
दवादशेमानि वर्षाणि राष्ट्राद विप्रॊषिता वयम तरयॊदशॊ ऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः ॥ 5 ॥
स साधु कौन्तेय इतॊ वासम अर्जुन रॊचय यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ॥ 6 ॥
तस्यैव वरदानेन धर्मस्य मनुजाधिप अज्ञाता विचरिष्यामॊ नराणा भरतर्षभ ॥ 7 ॥
किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानि चित रमणीयानि गुप्तानि तेषां किं चित सम रॊचय ॥ 8 ॥
सन्ति रम्या जनपदा बह्व अन्नाः परितः कुरून पाञ्चालाश चेदिमत्स्याश च शूरसेनाः पटच्चराः दशार्णा नव राष्ट्रं च मल्लाः शाल्व युगंधराः ॥ 9 ॥
एतेषां कतमॊ राजन निवासस तव रॊचते वत्स्यामॊ यत्र राजेन्द्र संवत्सरम इमं वयम ॥ 10 ॥
एवम एतन महाबाहॊ यथा स भगवान परभुः अब्रवीत सर्वभूतेशस तत तथा न तद अन्यथा ॥ 11 ॥
अवश्यं तव एव वासार्थं रमणीयं शिवं सुखम संमन्त्र्य सहितैः सर्वैर दरष्टव्यम अकुतॊभयम ॥ 12 ॥
मत्स्यॊ विराटॊ बलवान अभिरक्षेत स पाण्डवान धर्मशीलॊ वदान्यश च वृद्धश च सुमहाधनः ॥ 13 ॥
विराटनगरे तात संवत्सरम इमं वयम कुर्वन्तस तस्य कर्माणि विहरिष्याम भारत ॥ 14 ॥
यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम कर्तुं यॊ यत स तत कर्म बरवीतु कुरुनन्दनाः ॥ 15 ॥
नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि विराट नृपतेः साधॊ रंस्यसे केन कर्मणा ॥ 16 ॥
मृदुर वदान्यॊ हरीमांश च धार्मिकः सत्यविक्रमः राजंस तवम आपदा कलिष्टः किं करिष्यसि पाण्डव ॥ 17 ॥
न दुःखम उचितं किं चिद राजन वेद यथा जनः स इमाम आपदं पराप्य कथं घॊरां तरिष्यसि ॥ 18 ॥
शृणुध्वं यत करिष्यामि कर्म वै कुरुनन्दनाः विराटम अनुसंप्राप्य राजानं पुरुषर्षभम ॥ 19 ॥
सभास्तारॊ भविष्यामि तस्य राज्ञॊ महात्मनः कङ्कॊ नाम दविजॊ भूत्वा मताक्षः परिय देविता ॥ 20 ॥
वैडूर्यान काञ्चनान दान्तान फलैर जयॊती रसैः सह कृष्णाक्षाँल लॊहिताक्षांश च निर्वर्त्स्यामि मनॊरमान ॥ 21 ॥
आसं युधिष्ठिरस्याहं पुरा पराणसमः सखा इति वक्ष्यामि राजानं यदि माम अनुयॊक्ष्यते ॥ 22 ॥
इत्य एतद वॊ मयाख्यातं विहरिष्याम्य अहं यथा वृकॊदर विराटे तवं रंस्यसे केन कर्मणा ॥ 23 ॥
विराटपर्व · Virata Parva
अध्याय 1
Reach this point to mark the section finished.
Continue to अध्याय 2