[दरौ] इदं तु मे महद दुःखं यत परवक्ष्यामि भारत न मे ऽभयसूया कर्तव्या दुःखाद एतद बरवीम्य अहम ॥ 1 ॥
शार्दूलैर महिषैः सिंहैर आगारे युध्यसे यदा कैकेय्याः परेक्षमाणायास तदा मे कश्मलॊ भवेत ॥ 2 ॥
परेक्षा समुत्थिता चापि कैकेयी ताः सत्रियॊ वदेत परेक्ष्य माम अनवद्याङ्गी कश्मलॊपहताम इव ॥ 3 ॥
सनेहात संवासजान मन्ये सूदम एषा शुचिस्मिता यॊध्यमानं महावीर्यैर इमं समनुशॊचति ॥ 4 ॥
कल्याण रूपा सैरन्ध्री बल्लवश चाति सुन्दरः सत्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ ॥ 5 ॥
सैरन्ध्री परिय संवासान नित्यं करुणवेदिनी अस्मिन राजकुले चेमौ तुल्यकालनिवासिनौ ॥ 6 ॥
इति बरुवाणा वाक्यानि सा मां नित्यम अवेदयत करुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां तवयि ॥ 7 ॥
तस्यां तथा बरुवत्यां तु दुःखं मां महद आविशत शॊके यौधिष्ठिरे मग्ना नाहं जीवितुम उत्सहे ॥ 8 ॥
यः स देवान मनुष्यांश च सर्पां चैकरथॊ ऽजयत सॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा ॥ 9 ॥
यॊ ऽतर्पयद अमेयात्मा खाण्डवे जातवेदसम सॊ ऽनतःपुर गतः पार्थः कूपे ऽगनिर इव संवृतः ॥ 10 ॥
यस्माद भयम अमित्राणां सदैव पुरुषर्षभात स लॊकपरिभूतेन वेषेणास्ते धनंजयः ॥ 11 ॥
यस्य जयातलनिर्घॊषात समकम्पन्त शत्रवः सत्रियॊ गीतस्वनं तस्य मुदिताः पर्युपासते ॥ 12 ॥
किरीटं सूर्यसंकाशं यस्य मूर्धनि शॊभते वेणी विकृतकेशान्तः सॊ ऽयम अद्य धनंजयः ॥ 13 ॥
यस्मिन्न अस्त्राणि दिव्यानि समस्तानि महात्मनि आधारः सर्वविद्यानां स धारयति कुण्डले ॥ 14 ॥
यं सम राजसहस्राणि तेजसाप्रतिमानि वै समरे नातिवर्तन्ते वेलाम इव महार्णवः ॥ 15 ॥
सॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ 16 ॥
यस्य सम रथघॊषेण समकम्पत मेदिनी स पर्वत वना भीम सहस्थावरजङ्गमा ॥ 17 ॥
यस्मिञ जाते महाभागे कुन्त्याः शॊकॊ वयनश्यत स शॊचयति माम अद्य भीमसेन तवानुजः ॥ 18 ॥
भूषितं तम अलंकारैः कुण्डलैः परिहाटकैः कम्बुपाणिनम आयान्तं दृष्ट्वा सीदति मे मनः ॥ 19 ॥
तं वेणी कृतकेशान्तं भीमधन्वानम अर्जुनम कन्या परिवृतं दृष्ट्वा भीम सीदति मे मनः ॥ 20 ॥
यदा हय एनं परिवृतं कन्याभिर देवरूपिणम परभिन्नम इव मातङ्गं परिकीर्णं करेणुभिः ॥ 21 ॥
मत्स्यम अर्थपतिं पार्थं विराटं समुपस्थितम पश्यामि तूर्यमध्य सथं दिश नश्यन्ति मे तदा ॥ 22 ॥
नूनम आर्या न जानाति कृच्छ्रं पराप्तं धनंजयम अजातशत्रुं कौरव्यं मग्नं दूद्यूत देविनम ॥ 23 ॥
तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम गॊषु गॊवेषम आयान्तं पाण्डुभूतास्मि भारत ॥ 24 ॥
सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः न विन्दामि महाबाहॊ सहदेवस्य दुष्कृतम यस्मिन्न एवंविधं दुःखं पराप्नुयात सत्यविक्रमः ॥ 25 ॥
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भरातरं परियम गॊषु गॊवृषसंकाशं मत्स्येनाभिनिवेशितम ॥ 26 ॥
संरब्धं रक्तनेपथ्यं गॊपालानां पुरॊगमम विराटम अभिनन्दन्तम अथ मे भवति जवरः ॥ 27 ॥
सहदेवं हि मे वीरं नित्यम आर्या परशंसति महाभिजन संपन्नॊ वृत्तवाञ शीलवान इति ॥ 28 ॥
हरीनिषेधॊ मधुरवाग धार्मिकश च परियश च मे स ते ऽरण्येषु बॊद्धव्यॊ याज्ञसेनि कषपास्व अपि ॥ 29 ॥
तं दृष्ट्वा वयापृतं गॊषु वत्स चर्म कषपाशयम सहदेवं युधां शरेष्ठं किं नु जीवामि पाण्डव ॥ 30 ॥
यस तरिभिर नित्यसंपन्नॊ रूपेणास्त्रेण मेधया सॊ ऽशवबन्धॊ विराटस्य पश्य कालस्य पर्ययम ॥ 31 ॥
अभ्यकीर्यन्त वृन्दानि दाम गरन्थिम उदीक्षताम विनयन्तं जनेनाश्वान महाराजस्य पश्यतः ॥ 32 ॥
अपश्यम एनं शरीमन्तं मत्स्यं भराजिष्णुम उत्तमम विराटम उपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥ 33 ॥
किं नु मां मन्यसे पार्थ सुखितेति परंतप एवं दुःखशताविष्टा युधिष्ठिर निमित्ततः ॥ 34 ॥
अतः परतिविशिष्टानि दुःखान्य अन्यानि भारत वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्य अपि ॥ 35 ॥
युष्मासु धरियमाणेषु दुःखानि विविधान्य उत शॊषयन्ति शरीरं मे किं नु कुःखम अतः परम ॥ 36 ॥
विराटपर्व · Virata Parva
अध्याय 18
Reach this point to mark the section finished.
Continue to अध्याय 19