[दरौ] अशॊच्यं नु कुतस तस्या यस्या भर्ता युधिष्ठिरः जानं सर्वाणि दुःखानि किं मां तवं परिपृच्छसि ॥ 1 ॥
यन मां दासी परवादेन परातिकामी तदानयत सभायां पार्षदॊ मध्ये तन मां दहति भारत ॥ 2 ॥
पार्थिवस्य सुता नाम का नु जीवेत मादृशी अनुभूय भृशं दुःखम अन्यत्र दरौपदीं परभॊ ॥ 3 ॥
वनवास गतायाश च सैन्धवेन दुरात्मना परामर्शं दवितीयं च सॊढुम उत्सहते नु का ॥ 4 ॥
मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः कीचकेन पदा सपृष्टा का नु जीवेत मादृशी ॥ 5 ॥
एवं बहुविधैः कलेशैः कलिश्यमानां च भारत न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ 6 ॥
यॊ ऽयं राज्ञॊ विराटस्य कीचकॊ नाम भारत सेना नीः पुरुषव्याघ्र सयालः परमदुर्मतिः ॥ 7 ॥
स मां सैरन्धि वेषेण वसन्तीं राजवेश्मनि नित्यम एवाह दुष्टात्मा भार्या मम भवेति वै ॥ 8 ॥
तेनॊपमन्त्र्यमाणाया वधार्हेण सपत्नहन कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ 9 ॥
भरातरं च विगर्हस्व जयेष्ठं दुर्द्यूत देविनम यस्यास्मि कर्मणा पराप्ता दुखम एतद अनन्तकम ॥ 10 ॥
कॊ हि राज्यं परित्यज्य सर्वस्वं चात्मना सह परव्रज्यायैव दीव्येत विना दुर्द्यूत देविनम ॥ 11 ॥
यदि निष्कसहस्रेण यच चान्यत सारवद धनम सायम्प्रातर अदेविष्यद अपि संवत्सरान बहून ॥ 12 ॥
रुक्मं हिरण्यं वासांसि यानं युग्यम अजाविकम अश्वाश्वतर संघांश च न जातु कषयम आवहेत ॥ 13 ॥
सॊ ऽयं दयूतप्रवादेन शरिया परत्यवरॊपितः तूष्णीम आस्ते यथा मूढः सवानि कर्माणि चिन्तयन ॥ 14 ॥
दशनागसहस्राणि पद्मिनां हेममालिनाम यं यान्तम अनुयान्तीह सॊ ऽयं दयूतेन जीवति ॥ 15 ॥
तथा शतसहस्राणि नृणाम अमिततेजसाम उपासते महाराजम इन्द्रप्रस्थे युधिष्ठिरम ॥ 16 ॥
शतं दासी सहस्राणि यस्य नित्यं महानसे पात्री हस्तं दिवारात्रम अतिथीन भॊजयन्त्य उत ॥ 17 ॥
एष निष्कसहस्राणि परदाय ददतां वरः दयूतजेन हय अनर्थेन महता समुपावृतः ॥ 18 ॥
एनं हि सवरसंपन्ना बहवः सूतमागधाः सायंप्रातर उपातिष्ठन सुमृष्टमणिकुण्डलाः ॥ 19 ॥
सहस्रम ऋषयॊ यस्य नित्यम आसन सभा सदः तपः शरुतॊपसंपन्नाः सर्वकामैर उपस्थिताः ॥ 20 ॥
अन्धान वृद्धांस तथानाथान सर्वान राष्ट्रेषु दुर्गतान बिभर्त्य अविमना नित्यम आनृशंस्याद युधिष्ठिरः ॥ 21 ॥
स एष निरयं पराप्तॊ मत्स्यस्य परिचारकः सभायां देविता राज्ञः कङ्कॊ बरूते युधिष्ठिरः ॥ 22 ॥
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः आसन बलिभृतः सर्वे सॊ ऽदयान्यैर भृतिम इच्छति ॥ 23 ॥
पार्थिवाः पृथिवीपाला यस्यासन वशवर्तिनः स वशे विवशॊ राजा परेषाम अद्य वर्तते ॥ 24 ॥
परताप्य पृथिवीं सर्वां रश्मिवान इव तेजसा सॊ ऽयं राज्ञॊ विराटस्य सभा सतारॊ युधिष्ठिरः ॥ 25 ॥
यम उपासन्त राजानः सभायाम ऋषिभिः सह तम उपासीनम अद्यान्यं पश्य पाण्डव पाण्डवम ॥ 26 ॥
अतदर्हं महाप्राज्ञं जीवितार्थे ऽभिसंश्रितम दृष्ट्वा कस्य न दुःखं सयाद धर्मात्मानं युधिष्ठिरम ॥ 27 ॥
उपास्ते सम सभायां यं कृत्ष्णा वीर वसुंधरा तम उपासीनम अद्यान्यं पश्य भारत भारतम ॥ 28 ॥
एवं बहुविधैर दुःखैः पीड्यमानाम अनाथवत शॊकसारगमध्यस्थां किं मां भीम न पश्यसि ॥ 29 ॥
विराटपर्व · Virata Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18