[वै] सा हता सूतपुत्रेण राजपुत्री समज्वलत वधं कृष्णा परीप्सन्ती सेना वाहस्य भामिनी जगामावासम एवाथ तदा सा दरुपदात्म जा ॥ 1 ॥
कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा गत्राणि वाससी चैव परक्षाल्य सलिलेन सा ॥ 2 ॥
चिन्तयाम आस रुदती तस्य दुःखस्य निर्णयम किं करॊमि कव गच्छामि कथं कार्यं भवेन मम ॥ 3 ॥
इत्य एवं चिन्तयित्वा सा भीमं वै मनसागमत नान्यः कर्ता ऋते भीमान ममाद्य मनसः परियम ॥ 4 ॥
तत उत्थाय रात्रौ सा विहाय शयनं सवकम पराद्रवन नाथम इच्छन्ती कृष्णा नाथवती सती दुःखेन महता युक्ता मानसेन मनस्विनी ॥ 5 ॥
सा वै महानसे पराप्य भीमसेनं शुचिस्मिता सर्वश्वेतेव माहेयी वने जाता तरिहायनी उपातिष्ठत पाञ्चाली वाशितेव महागजम ॥ 6 ॥
सा लतेव महाशालं फुल्लं गॊमति तीरजम बाहुभ्यां परिरभ्यैनं पराबॊधयद अनिन्दिता सिंहं सुप्तं वने दुर्गे मृगराजवधूर इव ॥ 7 ॥
वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता अभ्यभाषत पाञ्चाली भीमसेनम अनिन्दिता ॥ 8 ॥
उत्तिष्ठॊत्तिष्ठ किं शेषे भीमसेन यथा मृतः नामृतस्य हि पापीयान भार्याम आलभ्य जीवति ॥ 9 ॥
तस्मिञ जीवति पापिष्ठे सेना वाहे मम दविषि तत कर्मकृतवत्य अद्य कथं निद्रां निषेवसे ॥ 10 ॥
स संप्रहाय शयनं राजपुत्र्या परबॊधितः उपातिष्ठत मेघाभः पर्यङ्के सॊपसंग्रहे ॥ 11 ॥
अथाब्रवीद राजपुत्रीं कौरव्यॊ महिषीं परियाम केनास्य अर्थेन संप्राप्ता तवरितेव ममान्तिकम ॥ 12 ॥
न ते परकृतिमान वर्णः कृशा पाण्डुश च लक्ष्यसे आचक्ष्व परिशेषेण सर्वं विद्याम अहं यथा ॥ 13 ॥
सुखं वा यदि वा दुःखं दवेष्यं वा यदि वा परियम यथावत सर्वम आचक्ष्व शरुत्वा जञास्यामि यत परम ॥ 14 ॥
अहम एव हि ते कृष्णे विश्वास्यः सर्वकर्मसु अहम आपत्सु चापि तवां मॊक्षयामि पुनः पुनः ॥ 15 ॥
शीघ्रम उक्त्वा यथाकामं यत ते कार्यं विवक्षितम गच्छ वै शयनायैव पुरा नान्यॊ ऽवबुध्यते ॥ 16 ॥
विराटपर्व · Virata Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17