[कीचक] सवागतं ते सुकेशान्ते सुव्युष्टा रजनी मम सवामिनी तवम अनुप्राप्ता परकुरुष्व मम परियम ॥ 1 ॥
सुवर्णमालाः कम्बूश च कुण्डले परिहाटके आहरन्तु च वस्त्राणि कौशिकान्य अजिनानि च ॥ 2 ॥
अस्ति मे शयनं शुभ्रं तवदर्थम उपकल्पितम एहि तत्र मया सार्धं पिबस्व मधुमाधवीम ॥ 3 ॥
[दरौ] अप्रैषीद राजपुत्री मां सुरा हारीं तवान्तिकम पानम आनय मे कषिप्रं पिपासा मेति चाब्रवीत ॥ 4 ॥
[कीचक] अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम ॥ 5 ॥
[वै] इत्य एनां दक्षिणे पाणौ सूतपुत्रः परामृशत सा गृहीता विधुन्वाना भूमाव आक्षिप्य कीचकम सभां शरणम आधावद यत्र राजा युधिष्ठिरः ॥ 6 ॥
तां कीचकः परधावन्तीं केशपक्षे परामृशत अथैनां पश्यतॊ राज्ञः पातयित्वा पदावधीत ॥ 7 ॥
ततॊ यॊ ऽसौ तदार्केण राक्षसः संनियॊजितः स कीचकम अपॊवाह वातवेगेन भारत ॥ 8 ॥
स पपात ततॊ भूमौ रक्षॊबलसमाहतः विघूर्णमानॊ निश्चेष्टश छिन्नमूल इव दरुमः ॥ 9 ॥
तां चासीनौ ददृशतुर भीमसेन युधिष्ठिरौ अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम ॥ 10 ॥
तस्य भीमॊ वधप्रेप्सुः कीचकस्य दुरात्मनः दन्तैर दन्तांस तदा रॊषान निस्पिपेष महामनः ॥ 11 ॥
अथाङ्गुष्ठेनावमृद्नाद अङ्गुष्ठं तस्य धर्मराज परबॊधनभयाद राजन भीमस्य परत्यषेधयत ॥ 12 ॥
सा सहा दवारम आसाद्य रुदती मत्स्यम अब्रवीत अवेक्षमाणा सुश्रॊणी पतींस तान दीनचेतसः ॥ 13 ॥
आकारम अभिरक्षन्ती परतिज्ञां धर्मसंहिताम दह्यमानेव रौद्रेण चक्षुर आ दरुपदात्मजा ॥ 14 ॥
[दरौ] येषां वैरी न सवपिति पदा भूमिम उपस्पृशन तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत ॥ 15 ॥
ये दद्युर न च याचेयुर बरह्मण्याः सत्यवादिनः तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत ॥ 16 ॥
येषां दुन्दुभिनिर्घॊषॊ जयाघॊषः शरूयते ऽनिशम तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत ॥ 17 ॥
ये ते तेजस्विनॊ दान्ता बलवन्तॊ ऽभिमानिनः तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत ॥ 18 ॥
सर्वलॊकम इमं हन्युर धर्मपाशसितास तु ये तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत ॥ 19 ॥
शरणं ये परपन्नानां भवन्ति शरणार्थिनाम चरन्ति लॊके परच्छन्नाः कव नु ते ऽदय महारथाः ॥ 20 ॥
कथं ते सूतपुत्रेण वध्यमानां परियां सतीम मर्षयन्ति यथा कलीबा बलवन्तॊ ऽमितौजसः ॥ 21 ॥
कव नु तेषाम अमर्षश च वीर्यं तेजश च वर्तते न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ॥ 22 ॥
मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम यः पश्यन मां मर्षयति वध्यमानम अनागसम ॥ 23 ॥
न राजन राजवत किं चित समाचरसि कीचके दस्यूनाम इव धर्मस ते न हि संसदि शॊभते ॥ 24 ॥
न कीचकः सवधर्मस्थॊ न च मत्स्यः कथं चन सभा सदॊ ऽपय अधर्मज्ञा य इमं पर्युपासते ॥ 25 ॥
नॊपालभे तवां नृपतौ विराट जनसंसदि नाहम एतेन युक्ता वै हन्तुं मत्स्यतवान्तिके सभा सदस तु पश्यन्तु कीचकस्य वयतिक्रमम ॥ 26 ॥
[विराट] परॊक्षं नाभिजानामि विग्रहं युवयॊर अहम अर्थतत्त्वम अविज्ञाय किं नु सयात कुशलं मम ॥ 27 ॥
[वै] ततस तु सभ्या विज्ञाय कृष्णां भूयॊ ऽभयपूजयन साधु साध्व इति चाप्य आहुः कीचकं च वयगर्हयन ॥ 28 ॥
[सभ्या] यस्येयं चारुसर्वाङ्गी भार्या सयाद आयतेक्षणा परॊ लाभश च तस्य सयान न स शॊचेत कदा चन ॥ 29 ॥
[वै] एवं संपूजयंस तत्र कृष्णां परेक्ष्य सभा सदः युधिष्ठिरस्य कॊपात तु ललाटे सवेद आसजत ॥ 30 ॥
अथाब्रवीद राजपुत्रीं कौरव्यॊ महिषीं परियाम गच्छ सैरन्ध्रि मात्रस्थाः सुदेष्णाया निवेशनम ॥ 31 ॥
भर्तारम अनुरुध्यन्त्यः कलिश्यन्ते वीर पत्नयः शुश्रूषया कलिश्यमानाः पतिलॊकं जयन्त्य उत ॥ 32 ॥
मन्ये न कालं करॊधस्य पश्यन्ति पतयस तव तेन तवां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ 33 ॥
अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि विघ्नं करॊषि मत्स्यानां दीव्यतां राजसंसदि गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव परियम ॥ 34 ॥
[दरौ] अतीव तेषां घृणिनाम अर्थे ऽहं धर्मचारिणी तस्य तस्येह ते वध्या येषां जयेष्ठॊ ऽकषदेविता ॥ 35 ॥
[वै] इत्य उक्त्वा पराद्रवत कृष्णा सुदेष्णाया निवेशनम केशान मुक्त्वा तु सुश्रॊणी संरम्भाल लॊहितेक्षणा ॥ 36 ॥
शुशुभे वदनं तस्या रुदन्त्या विरतं तदा मेघलॊखा विनिर्मुक्तं दिवीव शशिमण्डलम ॥ 37 ॥
[सुदेस्णा] कस तवावधीद वरारॊहे कस्माद रॊदिषि शॊभने कस्माद य न सुखं भद्रे केन ते विप्रियं कृतम ॥ 38 ॥
[दरौ] कीचकॊ मावधीत तत्र सुरा हारीं गतां तव सभायां पश्यतॊ राज्ञॊ यथैव विजने तथा ॥ 39 ॥
[सुदेस्णा] घातयामि सुकेशान्ते कीचकं यदि मन्यसे यॊ सौ तवां कामसंमत्तॊ दुर्लभाम अभिमन्यते ॥ 40 ॥
[दरौ] अन्ये वै तं वधिष्यन्ति येषाम आगः करॊति सः मन्ये चाद्यैव सुव्यक्तं परलॊकं गमिष्यति ॥ 41 ॥
विराटपर्व · Virata Parva
अध्याय 15
Reach this point to mark the section finished.
Continue to अध्याय 16