[वै] परत्याख्यातॊ राजपुत्र्या सुदेष्णां कीचकॊ ऽबरवीत अमर्यादेन कामेन घॊरेणाभिपरिप्लुतः ॥ 1 ॥
यथा कैकेयि सैरन्ध्र्या समेयां तद विधीयताम तां सुदेष्णे परीप्सस्व माहं पराणान परहासिशम ॥ 2 ॥
तस्य तां बहुशः शरुत्वा वाचं विलपतस तदा विराट महिषी देवी कृपां चक्रे मनस्विनी ॥ 3 ॥
सवम अर्थम अभिसंधाय तस्यार्थम अनुचिन्त्य च उद्वेगं चैव कृष्णायाः सुदेष्णा सूतम अब्रवीत ॥ 4 ॥
पर्विणीं तवं समुद्दिष्य सुराम अन्नं च कारय तत्रैनां परेषयिष्यामि सुरा हारीं तवान्तिकम ॥ 5 ॥
तत्र संप्रेषिताम एनां विजने निरवग्रहाम सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद यदि ॥ 6 ॥
कीचकस तु गृहं गत्वा भगिन्या वचनात तदा सुराम आहारयाम आस राजार्हां सुपरिस्रुताम ॥ 7 ॥
आजौरभ्रं च सुभृशं बहूंश चॊच्चावचान मृगान कारयाम आस कुशलैर अन्नपानं सुशॊभनम ॥ 8 ॥
तस्मिन कृते तदा देवी कीचकेनॊपमन्त्रिता सुदेष्णा परेषयाम आस सैरन्ध्रीं कीचकालयम ॥ 9 ॥
[सुदेस्णा] उत्तिष्ठ गच्छ सैरन्धिर कीचकस्य निवेशनम पानम आनय कल्याणि पिपासा मां परबाधते ॥ 10 ॥
[दरौ] न गच्छेयम अहं तस्य राजपुत्रि निवेशनम तवम एव राज्ञि जानासि यथा स निरपत्रपः ॥ 11 ॥
न चाहम अनवद्याङ्गि तव वेश्मनि भामिनि कामवृत्ता भविष्यामि पतीनां वयभिचारिणी ॥ 12 ॥
तवं चैव देवि जानासि यथा स समयः कृतः परविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ॥ 13 ॥
कीचकश च सुकेशान्ते मूढॊ मदनदर्पितः सॊ ऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शॊभने ॥ 14 ॥
सन्ति बह्व्यस तव परेष्या राजपुत्रि वशानुगाः अन्यां परेषय भद्रं ते स हि माम अवमंस्यते ॥ 15 ॥
[सुदेस्णा] नैव तवां जातु हिंस्यात स इतः संप्रेषितां मया ॥ 16 ॥
[वै] इत्य अस्याः परददौ कांस्यं स पिधानं हिरण्मयम सा शङ्कमाना रुदती दैवं शरणम ईयुषी परातिष्ठत सुरा हारी कीचकस्य निवेशनम ॥ 17 ॥
[दरौ] यथाहम अन्यं पाण्डुभ्यॊ नाभिजानामि कं चन तेन सत्येन मां पराप्तां कीचकॊ मा वशे कृथाः ॥ 18 ॥
[वै] उपातिष्ठत सा सूर्यं मुहूर्तम अबला ततः स तस्यास तनुमध्यायाः सर्वं सूर्यॊ ऽवबुद्धवान ॥ 19 ॥
अन्तर्हितं ततस तस्या रक्षॊ रक्षार्थम आदिशत तच चैनां नाजहात तत्र सर्वावस्थास्व अनिन्दिताम ॥ 20 ॥
तां मृगीम इव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम उदतिष्ठन मुदा सूतॊ नावं लब्ध्वेव पारगः ॥ 21 ॥
विराटपर्व · Virata Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15