धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 13

  1. [वै] वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा महारथेषु छन्नेषु मासा दशसमत्ययुः ॥ 1 ॥

  2. याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते अवसत परिचारार्हा सुदुःखं जनमेजय ॥ 2 ॥

  3. तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने सेनापतिर विराटस्य ददर्श जलजाननाम ॥ 3 ॥

  4. तां दृष्ट्वा देवगर्भाभां चरन्तीं देवताम इव कीचकः कामयाम आस कामबाणप्रपीडितः ॥ 4 ॥

  5. स तु कामाग्निसंतप्तः सुदेष्णाम अभिगम्य वै परहसन्न इव सेना नीर इदं वचनम अब्रवीत ॥ 5 ॥

  6. नेयं पुरा जातु मयेह दृष्टा; राज्ञॊ विराटस्य निवेशने शुभा रूपेण चॊन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी ॥ 6 ॥

  7. का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश च शॊभना चित्तं हि निर्मथ्य करॊति मां वशे; न चान्यद अत्रौषधम अद्य मे मतम ॥ 7 ॥

  8. अहॊ तवेयं परिचारिका शुभा; परत्यग्र रूपा परतिभाति माम इयम अयुक्तरूपं हि करॊति कर्म ते; परशास्तु मां यच च ममास्ति किं चन ॥ 8 ॥

  9. परभूतनागाश्वरथं महाधनं; समृद्धि युक्तं बहु पानभॊजनम मनॊहरं काञ्चनचित्रभूषणं; गृहं महच छॊभयताम इयं मम ॥ 9 ॥

  10. ततः सुदेष्णाम अनुमन्त्र्य कीचकस; ततः समभेत्य नराधिपात्म जाम उवाच कृष्णाम अभिसान्त्वयंस तदा; मृगेन्द्र कन्याम इव जम्बुकॊ वने ॥ 10 ॥

  11. इदं च रूपं परथमं च ते वयॊ; निरर्थकं केवलम अद्य भामिनि अधार्यमाणा सरग इवॊत्तमा यथा; न शॊभसे सुन्दरि शॊभना सती ॥ 11 ॥

  12. तयजामि दारान मम ये पुरातना; भवन्तु दास्यस तव चारुहासिनि अहं च ते सुन्दरि दासवत सथितः; सदा भविष्ये वशगॊवरानने ॥ 12 ॥

  13. [दरौ] अप्रार्थनीयाम इह मां सूतपुत्राभिमन्यसे विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम ॥ 13 ॥

  14. परदारास्मि भद्रं ते न युक्तं तवयि सांप्रतम दयिताः पराणिनां दारा धर्मं समनुचिन्तय ॥ 14 ॥

  15. परपारे न ते बुद्धिर जातु कार्या कथं चन विवर्जनं हय अकार्याणाम एतत सत्पुरुषव्रतम ॥ 15 ॥

  16. मिथ्याभिगृध्नॊ हि नरः पापात्मा मॊहम आस्थितः अयशः पराप्नुयाद घॊरं सुमहत पराप्नुयाद भयम ॥ 16 ॥

  17. मा सूतपुत्र हृष्यस्व माद्य तयक्ष्यसि जीवितम दुर्लभाम अभिमन्वानॊ मां वीरैर अभिरक्षिताम ॥ 17 ॥

  18. न चाप्य अहं तवया शक्या गन्धर्वाः पतयॊ मम ते तवां निहन्युः कुपिताः साध्वलं मा वयनीनशः ॥ 18 ॥

  19. अशक्यरूपैः पुरुषैर अध्वानं गन्तुम इच्छसि यथा निश्चेतनॊ बालः कूलस्थः कूलम उत्तरम तर्तुम इच्छति मन्दात्मा तथा तवं कर्तुम इच्छसि ॥ 19 ॥

  20. अन्तर महीं वा यदि वॊर्ध्वम उत्पतेः; समुद्रपारं यदि वा परधावसि तथापि तेषां न विमॊक्षम अर्हसि; परमाथिनॊ देव सुता हि मे वराः ॥ 20 ॥

  21. तवं कालरात्रीम इव कश चिद आतुरः; किं मां दृढं रार्थयसे ऽदय कीचक किं मातुर अङ्के शयितॊ यथा शिशुश; चन्द्रं जिघृक्षुर इव मन्यसे हि माम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 14

Previous: अध्याय 12