धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 12

  1. [जनम] एवं मत्स्यस्य नगरे वसन्तस तत्र पाण्डवाः अत ऊर्ध्वं महावीर्याः किम अकुर्वन्त वै दविज ॥ 1 ॥

  2. [वै] एवं ते नयवसंस तत्र परच्छन्नाः कुरुनन्दनाः आराधयन्तॊ राजानं यद अकुर्वन्त तच छृणु ॥ 2 ॥

  3. युधिष्ठिरः सभास्तारः सभ्यानाम अभवत परियः तथैव च विराटस्य सपुत्रस्य विशां पते ॥ 3 ॥

  4. स हय अक्षहृदयज्ञस तान करीडयाम आस पाण्डवः अक्षवत्यां यथाकामं सूत्रबद्धान इव दविजान ॥ 4 ॥

  5. अज्ञातं च विराटस्य विजित्य वसु धर्मराज भरातृभ्यः पुरुषव्याघ्रॊ यथार्हं सम परयच्छति ॥ 5 ॥

  6. भीमसेनॊ ऽपि मांसानि भक्ष्याणि विविधानि च अति सृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे ॥ 6 ॥

  7. वासांसि परिजीर्णानि लब्धान्य अन्तःपुरे ऽरजुनः विक्रीणानश च सर्वेभ्यः पाण्डवेभ्यः परयच्छति ॥ 7 ॥

  8. सहदेवॊ ऽपि गॊपानां वेषम आस्थाय पाण्डवः दधि कषीरं घृतं चैव पाण्डवेभ्यः परयच्छति ॥ 8 ॥

  9. नकुलॊ ऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम तुष्टे तस्मिन नरपतौ पाण्डवेभ्यः परयच्छति ॥ 9 ॥

  10. कृष्णापि सर्वान भरातॄंस तान निरीक्षन्ती तपस्विनी यथा पुनर अविज्ञाता तथा चरति भामिनी ॥ 10 ॥

  11. एवं संपादयन्तस ते तथान्यॊन्यं महारथाः परेक्षमाणास तदा कृष्णाम ऊषुश छन्ना नराधिप ॥ 11 ॥

  12. अथ मासे चतुर्थे तु बरह्मणः सुमहॊत्सवः आसीत समृद्धॊ मत्स्येषु पुरुषाणां सुसंमतः ॥ 12 ॥

  13. तत्र मल्लाः समापेतुर दिग्भ्यॊ राजन सहस्रशः महाकाया महावीर्याः कालखञ्जा इवासुराः ॥ 13 ॥

  14. वीर्यॊन्नद्धा बलॊदग्रा राज्ञा समभिपूजिताः सिन्ह सकन्धकटि गरीवाः सववदाता मनस्विनः असकृल लब्धलक्षास ते रङ्गे पार्थिव संनिधौ ॥ 14 ॥

  15. तेषाम एकॊ महान आसीत सर्वमल्लान समाह्वयत आवल्गमानं तं रङ्गे नॊपतिष्ठति कश चन ॥ 15 ॥

  16. यदा सर्वे विमनसस ते मल्ला हतचेतसः अथ सूदेन तं मल्लं यॊधयाम आस मत्स्यराज ॥ 16 ॥

  17. चॊद्यमानस ततॊ भीमॊ दुःखेनैवाकरॊन मतिम न हि शक्नॊति विवृते परत्याख्यातुं नराधिपम ॥ 17 ॥

  18. ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन परविवेश महारङ्गं विराटम अभिहर्षयन ॥ 18 ॥

  19. बबन्ध कक्ष्यां कौन्तेयस ततस्तं हर्षयञ जनम ततस तं वृत्र संकाशं भीमॊ मल्लं समाह्वयत ॥ 19 ॥

  20. ताव उभौ सुमहॊत्साहाव उभौ तीव्रपराक्रमौ मत्ताव इव महाकायौ वारणौ षष्टिहायनौ ॥ 20 ॥

  21. चकर्ष दॊर्भ्याम उत्पाट्य भीमॊ मल्लम अमित्रहा विनदन्तम अभिक्रॊशञ शार्दूल इव वारणम ॥ 21 ॥

  22. तम उद्यम्य महाबाहुर भरामयाम आस वीर्यवान ततॊ मल्लाश च मत्स्याश च विस्मयं चक्रिरे परम ॥ 22 ॥

  23. भरामयित्वा शतगुणं गतसत्त्वम अचेतनम परत्यापिंषन महाबाहुर मल्लं भुवि वृकॊदरः ॥ 23 ॥

  24. तस्मिन विनिहते मल्ले जीमूते लॊकविश्रुते विराटः परमं हर्षम अगच्छद बान्धवैः सह ॥ 24 ॥

  25. संहर्षात परददौ वित्तं बहु राजा महामनः बल्लवाय महारङ्गे यथा वैश्रवणस तथा ॥ 25 ॥

  26. एवं स सुबहून मल्लान पुरुषांश च महाबलान विनिघ्नन मत्स्यराजस्य परीतिम आवहद उत्तमाम ॥ 26 ॥

  27. यदास्य तुल्यः पुरुषॊ न कश चित तत्र विद्यते ततॊ वयाघ्रैश च सिंहैश च दविरदैश चाप्य अयॊधयत ॥ 27 ॥

  28. पुनर अन्तःपुर गतः सत्रीणां मध्ये वृकॊदरः यॊध्यते सम विराटेण सिंहैर मत्तैर महाबलैः ॥ 28 ॥

  29. बीभत्सुर अपि गीतेन सुनृत्तेन च पाण्डवः विराटं तॊषयाम आस सर्वाश चान्तःपुर सत्रियः ॥ 29 ॥

  30. अश्वैर विनीतैर जवनैस तत्र तत्र समागतैः तॊषयाम आस नकुलॊ राजानं राजसत्तम ॥ 30 ॥

  31. तस्मै परदेयं परायच्छत परीतॊ राजा धनं बहु विनीतान वृषभान दृष्ट्वा सहदेवस्य चाभिभॊ ॥ 31 ॥

  32. एवं ते नयवसंस तत्र परच्छन्नाः पुरुषर्षभाः कर्माणि तस्य कुर्वाणा विराट नृपतेस तदा ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 13

Previous: अध्याय 11