[वै] अथापरॊ ऽदृश्यत पाण्डवः परभुर; विराट राज्ञस तुरगान समीक्षतः तम आपतन्तं ददृशे पृथग्जनॊ; विमुक्तम अभ्राद इव सूर्यमण्डलम ॥ 1 ॥
स वै हयान ऐक्षत तांस ततस ततः; समीक्षमाणं च ददर्श मत्स्यराज ततॊ ऽबरवीत तान अनुगान अमित्रहा; कुतॊ ऽयम आयाति नरामर परभः ॥ 2 ॥
अयं हयान वीक्षति मामकान दृढं; धरुवं हयज्ञॊ भविता विचक्षणः परवेश्यताम एष समीपम आशु मे; विभाति वीरॊ हि यथामरस तथा ॥ 3 ॥
अभ्येत्य राजानम अमित्रहाब्रवीज; जयॊ ऽसतु ते पार्थिव भद्रम अस्तु ते हयेषु युक्तॊ नृप संमतः सदा; तवाश्वसूतॊ निपुणॊ भवाम्य अहम ॥ 4 ॥
[विराट] ददामि यानानि धनं निवेशनं; ममाश्वसूतॊ भवितुं तवम अर्हसि कुतॊ ऽसि कस्यासि कथं तवम आगतः; परब्रूहि शिल्पं तव विद्यते च यत ॥ 5 ॥
[नकुल] पञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः तेनाहम अश्वेषु पुरा परकृतः शत्रुकर्शन ॥ 6 ॥
अश्वानां परकृतिं वेद्मि विनयं चापि सर्वशः दुष्टानां परतिपत्तिं च कृत्स्नं चैव चिकित्सितम ॥ 7 ॥
न कातरं सयान मम जातु वाहनं; न मे ऽसति दुष्टा वडवा कुतॊ हयाः जनस तु माम आह स चापि पाण्डवॊ; युधिष्ठिरॊ गरन्थिकम एव नामतः ॥ 8 ॥
[विराट] यद अस्ति किं चिन मम वाजिवाहनं; तद अस्तु सर्वं तवदधीनम अद्य वै ये चापि के चिन मम वाजियॊजकास; तवदाश्रयाः सारथयश च सन्तु मे ॥ 9 ॥
इदं तवेष्टं यदि वै सुरॊपम; बरवीहि यत ते परसमीक्षितं वसु न ते ऽनुरूपं हयकर्म विद्यते; परभासि राजेव हि संमतॊ मम ॥ 10 ॥
युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं परिय दर्श दर्शनम कथं तु भृत्यैः स विनाकृतॊ वने; वसत्य अनिन्द्यॊ रमते च पाण्डवः ॥ 11 ॥
[वै] तथा स गन्धर्ववरॊपमॊ युवा; विराट राज्ञा मुदितेन पूजितः न चैनम अन्ये ऽपि विदुः कथं चन; परियाभिरामं विचरन्तम अन्तरा ॥ 12 ॥
एवं हि मत्स्ये नयवसन्त पाण्डवा; यथाप्रतिज्ञाभिर अमॊघदर्शनाः अज्ञातचर्यां वयचरन समाहिताः; समुद्रनेमिपतयॊ ऽतिदुःखिताः ॥ 13 ॥
विराटपर्व · Virata Parva
अध्याय 11
Reach this point to mark the section finished.
Continue to अध्याय 12