धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 299

  1. [वै] धर्मेण ते ऽभयनुज्ञाताः पाण्डवाः सत्यविक्रमाः अज्ञातवासं वत्स्यन्तश छन्ना वर्षं तरयॊदशम उपॊपविश्य विद्वांसः सहिताः संशितव्रताः ॥ 1 ॥

  2. ये तद भक्ता वसन्ति सम वनवासे तपस्विनः तान अब्रुवन महात्मानः शिष्टाः पराज्ञलयस तदा अभ्यनुज्ञापयिष्यन्तस तं निवासं धृतव्रताः ॥ 2 ॥

  3. विदितं भवतां सर्वं धार्तराष्ट्रैर यथा वयम छद्मना हृतराज्याश च निःस्वाश च बहुशः कृताः ॥ 3 ॥

  4. उषिताश च वने कृच्छ्रं यत्र दवादश वत्सरान अज्ञातवास समयं शेषं वर्षं तरयॊदशम तद वत्स्यामॊ वयं छन्नास तदनुज्ञातुम अर्हथ ॥ 4 ॥

  5. सुयॊधनश च दुष्टात्मा कर्णश च सह सौबलः जानन्तॊ विषमं कुर्युर अस्मास्व अत्यन्तवैरिणः युक्ताचाराश च युक्ताश च पौरस्य सवजनस्य च ॥ 5 ॥

  6. अपि नस तद भवेद भूयॊ यद वयं बराह्मणैः सह समस्ताः सवेषु राष्ट्रेषु सवराज्यस्था भवेमहि ॥ 6 ॥

  7. इत्य उक्त्वा दुःखशॊकार्ता शुचिर धर्मसुतस तदा संमूर्च्छितॊ ऽभवद राजा साश्रुकण्ठॊ युधिष्ठिरः ॥ 7 ॥

  8. तम अथाश्वासयन सर्वे बराह्मणा भरातृभिः सह अथ धौम्यॊ ऽबरवीद वाक्यं महार्थं नृपतिं तदा ॥ 8 ॥

  9. राजन विद्वान भवान दान्तः सत्यसंधॊ जितेन्द्रियः नैवंविधाः परमुह्यन्ति नराः कस्यां चिद आपदि ॥ 9 ॥

  10. देवैर अप्य आपदः पराप्ताश छन्नैश च बहुशस तथा तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ॥ 10 ॥

  11. इन्द्रेण निषधान पराप्य गिरिप्रस्थाश्रमे तदा छन्नेनॊष्य कृतं कर्म दविषतां बलनिग्रहे ॥ 11 ॥

  12. विष्णुनाश्वशिरॊ पराप्य तथादित्यां निवत्स्यता गर्भे वधार्थं दैत्यानाम अज्ञातेनॊषितं चिरम ॥ 12 ॥

  13. पराप्य वामन रूपेण परच्छन्नं बरह्मरूपिणा बलेर यथा हृतं राज्यं विक्रमैस तच च ते शरुतम ॥ 13 ॥

  14. और्वेण वसता छन्नम ऊरौ बरह्मर्षिणा तदा यत्कृतं तात लॊकेषु तच च सर्वं शरुतं तवया ॥ 14 ॥

  15. परच्छन्नं चापि धर्मज्ञ हरिणा वृत्र निग्रहे वज्रं परविश्य शक्रस्य यत्कृतं तच च ते शरुतम ॥ 15 ॥

  16. हुताशनेन यच चापः परविश्य छन्नम आसता विबुधानां कृतं कर्म तच च सर्वं शरुतं तवया ॥ 16 ॥

  17. एवं विवस्वता तात छन्नेनॊत्तम तेजसा निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ॥ 17 ॥

  18. विष्णुना वसता चापि गृहे दशरथस्य वै दशग्रीवॊ हतश छन्नं संयुगे भीमकर्मणा ॥ 18 ॥

  19. एवम एते महात्मानः परच्छन्नास तत्र तत्र ह अजयच छात्रवान युद्धे तथा तवम अपि जेष्यसि ॥ 19 ॥

  20. तथा दौम्येन धर्मज्ञॊ वाक्यैः संपरितॊषितः शास्त्रबुद्ध्या सवबुद्ध्या च न चचाल युधिष्ठिरः ॥ 20 ॥

  21. अथाब्रवीन महाबाहुर भीमसेनॊ महाबलः राजानं बलिनां शरेष्ठॊ गिरा संपरिहर्षयन ॥ 21 ॥

  22. अवेक्षया महाराज तव गाण्डीवधन्वना धर्मानुगतया बुद्ध्या न किं चित साहसं कृतम ॥ 22 ॥

  23. सहदेवॊ मया नित्यं नकुलश च निवारितौ शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥ 23 ॥

  24. न वयं तत परहास्यामॊ यस्मिन यॊक्ष्यति नॊ भवान भवान विधत्तां तत सर्वं कषिप्रं जेष्यामहे परान ॥ 24 ॥

  25. इत्य उक्ते भिमसेनेन बराह्मणाः परमाशिर अः परयुज्यापृच्छ्य भरतान यथा सवान सवान ययुर गृहान ॥ 25 ॥

  26. सर्वे वेदविदॊ मुख्या यतयॊ मुनयस तथा आशीर उक्त्वा यथान्यायं पुनर दर्शनकाङ्क्षिणः ॥ 26 ॥

  27. सह धौम्येन विद्वांसस तथा ते पञ्च पाण्डवाः उत्थाय परययुर वीराः कृष्णाम आदाय भारत ॥ 27 ॥

  28. करॊशमातम अतिक्रम्य तस्माद देशान निमित्ततः शवॊभूते मनुजव्याघ्राश छन्नवासार्थम उद्यताः ॥ 28 ॥

  29. पृथक शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः संधिविग्रहकालज्ञा मन्त्राय समुपाविशन ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 1

Previous: अध्याय 298