[लॊमष] ततः सवज्री बलिभिर दैवतैर अभिरक्षितः आससाद ततॊ वृत्रं सथितम आवृत्य रॊदसी ॥ 1 ॥
कालकेयैर महाकायैः समन्ताद अभिर कषितम समुद्यतप्रहरणैः स शृङ्गैर इव पर्वतैः ॥ 2 ॥
ततॊ युद्धं समभवद देवानां सह दानवैः मुहूर्तं भरतश्रेष्ठ लॊकत्रास करं महत ॥ 3 ॥
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः आसीत सुतुमुलः शब्दः शरीरेष्व अभिपात्यताम ॥ 4 ॥
शिरॊभिः परपतद्भिश च अन्तरिक्षान महीतलम तालैर इव महीपाल वृन्ताद भरष्टैर अदृश्यत ॥ 5 ॥
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः तरिदशान अभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ 6 ॥
तेषां वेगवतां वेगं सहितानां परधावताम न शेकुस तरिदशाः सॊढुं ते भग्नाः पराद्रवन भयात ॥ 7 ॥
तान दृष्ट्वा दरवतॊ भीतान सहस्राक्षः पुरंदरः वृत्रे विवर्धमाने च कश्मलं महद आविशत ॥ 8 ॥
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः सवतेजॊ वयदधाच छक्रे बलम अस्य विवर्धयन ॥ 9 ॥
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास ततः सवं सवं तेजः समादध्युस तथा बरह्मर्षयॊ ऽमलाः ॥ 10 ॥
स समाप्यायितः शक्रॊ विष्णुना दैवतैः सह ऋषिभिश च महाभागैर बलवान समपद्यत ॥ 11 ॥
जञात्वा बलस्थं तरिदशाधिपं तु; ननाद वृत्रॊ महतॊ निनादान तस्य परणादेन धरा दिशश च; खं दयौर नगराश चापि चचाल सर्वम ॥ 12 ॥
ततॊ महेन्द्रः परमाभितप्तः; शरुत्वा रवं घॊररूपं महान्तम भये निमग्नस तवरितं मुमॊच; वज्रं महत तस्य वधाय राजन ॥ 13 ॥
स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी यथा महाञ शैलवरः पुरस्तात; स मन्दरॊ विष्णुकरात परमुक्तः ॥ 14 ॥
तस्मिन हते दैत्य वरे भयार्तः; शक्रः पदुद्राव सरः परवेष्टुम वज्रं न मेने सवकरात परमुक्तं; वृत्रं हतं चापि भयान न मेने ॥ 15 ॥
सर्वे च देवा मुदिताः परहृष्टा; महर्षयश चेन्द्रम अभिष्टुवन्तः सर्वांश च दैत्यांस तवरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान ॥ 16 ॥
ते वध्यमानास तरिदशैस तदानीं; समुद्रम एवाविविशुर भयार्ताः परविश्य चैवॊदधिम अप्रमेयं; झषाकुलं रत्नसमाकुलं च ॥ 17 ॥
तदा सम मन्त्रं सहिताः परचक्रुस; तरैलॊक्यनाशार्थम अभिस्मयन्तः तत्र सम के चिन मतिनिश्चय जञास; तांस तान उपायान अनुवर्णयन्ति ॥ 18 ॥
तेषां तु तत्र करमकालयॊगाद; घॊरा मतिश चिन्तयतां बभूव ये सन्ति विद्या तपसॊपपन्नास; तेषां विनाशः परथमं तु कार्यः ॥ 19 ॥
लॊका हि सर्वे तपसा धरियन्ते; तस्मात तवरध्वं तपसः कषयाय ये सन्ति के चिद धि वसुंधरायां; तपस्विनॊ धर्मविदश च तज जञाः तेषां वधः करियतां कषिप्रम एव; तेषु परनष्टेषु जगत परनष्टम ॥ 20 ॥
एवं हि सर्वे गतबुद्धिभावा; जगद विनाशे परमप्रहृष्टाः दुर्गं समाश्रित्य महॊर्मिमन्तं; रत्ना करं वरुणस्यालयं सम ॥ 21 ॥
वनपर्व · Vana Parva
अध्याय 99
Reach this point to mark the section finished.
Continue to अध्याय 100