[लॊमषा] समुद्रं ते समाश्रित्य वारुणं निधिम अम्भसाम कालेयाः संप्रवर्तन्त तरैलॊक्यस्य विनाशने ॥ 1 ॥
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन आश्रमेषु च ये सन्ति पुन्येष्व आयतनेषु च ॥ 2 ॥
वसिस्थस्याश्रमे विप्रा भक्षितास तैर दुरात्मभिः अशीतिशतम अष्टौ च नव चान्ये तपस्विनः ॥ 3 ॥
चयवनस्याश्रमं गत्वा पुन्यं दविज निसेवितम फलमूलाशनानां हि मुनीनां भक्षितं शतम ॥ 4 ॥
एवं रात्रौ सम कुर्वन्ति विविशुश चार्णवं दिवा भरद्वाजाश्रमे चैव नियता बरह्मचारिणः वाय्वाहाराम्बुभक्षाश च विंशतिः संनिपातिताः ॥ 5 ॥
एवं करमेण सर्वांस तान आश्रमान दानवास तदा निशायां परिधावन्ति मत्ता भुजबलाश्रयात कालॊपसृष्टाः कालेया घनन्तॊ दविज गनान बहून ॥ 6 ॥
न चैनान अन्वबुध्यन्त मनुजा मनुजॊत्तम एवं परवृत्तान दैत्यांस तांस तापसेषु तपस्विषु ॥ 7 ॥
परभाते समदृश्यन्त नियताहार कर्शिताः महीतलस्था मुनयः शरीरैर गतजीवितैः ॥ 8 ॥
कषीणमांसैर विरुधिरैर विमज्जान्त्रैर विसंधिभिः आकीर्णैर आचिता भूमिः शङ्खानाम इव राशिभिः ॥ 9 ॥
कलशैर विप्रविद्धैश च सरुवैर भग्नैस तथैव च विकीर्णैर अग्निहॊत्रैश च भूर बभूव समावृता ॥ 10 ॥
निःस्वाध्याय वषत्कारं नष्टयज्ञॊत्सव करियम जगद आसीन निरुत्साहं कालेय भयपीडितम ॥ 11 ॥
एवं परक्षीयमाणाश च मानवा मनुजेश्वर आत्मत्राण परा भीताः पराद्रवन्त दिशॊ भयात ॥ 12 ॥
के चिद गुहाः परविविशुर निर्झरांश चापरे शरिताः अपरे मरणॊद्विग्ना भयात परानान समुत्सृजन ॥ 13 ॥
के चिद अत्र महेष्वासाः शूराः परमदर्पिताः मार्गमाणाः परं यत्नं दानवानां परचक्रिरे ॥ 14 ॥
न चैतान अधिजग्मुस ते समुद्रं समुपाश्रितान शरमं जग्मुश च परमम आजग्मुः कषयम एव च ॥ 15 ॥
जगत्य उपशमं याते नष्टयज्ञॊत्सव करिये आजग्मुः परमाम आर्तिं तरिदशा मनुजेश्वर ॥ 16 ॥
समेत्य समहेन्द्राश च भयान मन्त्रं परचक्रिरे नारायणं पुरस्कृत्य वैकुण्ठम अपराजितम ॥ 17 ॥
ततॊ देवाः समेतास ते तदॊचुर मधुसूदनम तवं नः सरष्टा च पाता च भर्ता च जगतः परभॊ तवया सृष्टम इदं सर्वं यच चेङ्गं यच च नेङ्गति ॥ 18 ॥
तवया भूमिः पुरा नष्टा समुद्रात पुस्करेक्षण वाराहं रूपम आस्थाय जगद अर्थे समुद्धृता ॥ 19 ॥
आदि दैत्यॊ महावीर्यॊ हिरण्यकशिपुस तवया नारसिंहं वपुः कृत्वा सूदितः पुरुषॊत्तम ॥ 20 ॥
अवध्यः सर्वभूतानां बलिश चापि महासुरः वामनं वपुर आश्रित्य तरैलॊक्याद भरंशितस तवया ॥ 21 ॥
असुरश च महेष्वासॊ जम्भ इत्य अभिविश्रुतः यज्ञक्षॊभकरः करूरस तवयैव विनिपातितः ॥ 22 ॥
एवमादीनि कर्माणि येषां संख्या न विद्यते अस्माकं भयभीतानां तवं गतिर मधुसूदन ॥ 23 ॥
तस्मात तवां देवदेवेश लॊकार्थं जञापयामहे रक्ष लॊकांश च देवांश च शक्रं च महतॊ भयात ॥ 24 ॥
वनपर्व · Vana Parva
अध्याय 100
Reach this point to mark the section finished.
Continue to अध्याय 101