धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 98

  1. [य] भूय एवाहम इच्छामि महर्षेस तस्य धीमतः कर्मणां विस्तरं शरॊतुम अगस्त्यस्य दविजॊत्तम ॥ 1 ॥

  2. [लॊमष] शृणु राजन कथां दिव्याम अद्भुताम अतिमानुषीम अगस्त्यस्य महाराज परभावम अमितात्मनः ॥ 2 ॥

  3. आसन कृतयुगे घॊरा दानवा युद्धदुर्मदाः कालेया इति विख्याता गणाः परमदारुणाः ॥ 3 ॥

  4. ते तु वृत्रं समाश्रित्य नानाप्रहरणॊद्यताः समन्तात पर्यधावन्त महेन्द्र परमुखान सुरान ॥ 4 ॥

  5. ततॊ वृत्रवधे यत्नम अकुर्वंस तरिदशाः पुरा पुरंदरं पुरस्कृत्य बरह्माणम उपतस्थिरे ॥ 5 ॥

  6. कृताञ्जलींस तु तान सर्वान परमेष्ठी उवाच ह विदितं मे सुराः सर्वं यद वः कार्यं चिकीर्षितम ॥ 6 ॥

  7. तम उपायं परवक्ष्यामि यथा वृत्रं वधिष्यथ दधीच इति विख्यातॊ महान ऋषिर उदारधीः ॥ 7 ॥

  8. तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत स वॊ दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥ 8 ॥

  9. स वाच्यः सहितैः सर्वैर भवद्भिर जयकाङ्क्षिभिः सवान्य अस्थीनि परयच्छेति तरैलॊक्यस्य हिताय वै स शरीरं समुत्सृज्य सवान्य अस्थीनि परदास्यति ॥ 9 ॥

  10. तस्यास्थिभिर महाघॊरं वज्रं संभ्रियतां दृढम महच छत्रुहनं तीक्ष्णं षड अश्रं भीमनिस्वनम ॥ 10 ॥

  11. तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः एतद वः सर्वम आख्यातं तस्माच छीघ्रं विधीयताम ॥ 11 ॥

  12. एवम उक्तास ततॊ देवा अनुज्ञाप्य पिता महम नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ॥ 12 ॥

  13. सरस्वत्याः परे पारे नानाद्रुमलतावृतम षट पदॊद्गीत निनदैर विघुष्टं साम गैर इव पुंस्कॊकिल रवॊन्मिश्रं जीवं जीवक नादितम ॥ 13 ॥

  14. महिषैश च वराहैश च सृमरैश चमरैर अपि तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥ 14 ॥

  15. करेणुभिर वारणैश च परभिन्नकरटा मुखैः सरॊ ऽवगाढैः करीडद्भिः समन्ताद अनुनादितम ॥ 15 ॥

  16. सिंहव्याघ्रैर महानादान नदद्भिर अनुनादितम अपरैश चापि संलीनैर गुहा कन्दरवासिभिः ॥ 16 ॥

  17. तेषु तेष्व अवकाशेषु शॊभितं सुमनॊरमम तरिविष्टपसमप्रख्यं दधीचाश्रमम आगमन ॥ 17 ॥

  18. तत्रापश्यन ददीचं ते दिवाकरसमद्युतिम जाज्वल्यमानं वपुषा यथा लक्ष्म्या पिता महम ॥ 18 ॥

  19. तस्य पादौ सुरा राजन्न अभिवाद्य परणम्य च अयाचन्त वरं सर्वे यथॊक्तं परमेष्ठिना ॥ 19 ॥

  20. ततॊ ददीचः परमप्रतीतः; सुरॊत्तमांस तान इदम अभ्युवाच करॊमि यद वॊ हितम अद्य देवाः; सवं चापि देहं तव अहम उत्सृजामि ॥ 20 ॥

  21. स एवम उक्त्वा दविपदां वरिष्ठः; पराणान वशीस्वान सहसॊत्ससर्ज ततः सुरास ते जगृहुः परासॊर; अस्थीनि तस्याथ यथॊपदेशम ॥ 21 ॥

  22. परहृष्टरूपाश च जयाय देवास; तवष्टारम आगम्य तम अर्थम ऊचुः तवष्टा तु तेषां वचनं निशम्य; परहृष्टरूपः परयतः परयत्नात ॥ 22 ॥

  23. चकार वज्रं भृशम उग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिम उग्रम ॥ 23 ॥

  24. ततॊ हतारिः सगणः सुखं वै; परशाधि कृत्स्नं तरिदिवं दिवि षठः तवष्ट्रा तथॊक्तः स पुरंदरस तु; वज्रं परहृष्टः परयतॊ ऽभयगृह्णात ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 99

Previous: अध्याय 97