[व] ततः संप्रस्थितॊ राजा कौन्तेयॊ भूरिदक्षिणः अगस्त्याश्रमम आसाद्य दुर्जयायाम उवास ह ॥ 1 ॥
तत्र वै लॊमशं राजा पप्रच्छ वदतां वरः अगस्त्येनेह वातापिः किमर्थम उपशामितः ॥ 2 ॥
आसीद वा किंप्रभावश च स दैत्यॊ मानवान्तकः किमर्थं चॊद्गतॊ मन्युर अगस्त्यस्य महात्मनः ॥ 3 ॥
[ल] इल्वलॊ नाम दैतेय आसीत कौरवनन्दन मणिमत्यां पुरि पुरा वातापिस तस्य चानुजः ॥ 4 ॥
स बराह्मणं तपॊ युक्तम उवाच दितिनन्दनः पुत्रं मे भगवान एकम इन्द्र तुल्यं परयच्छतु ॥ 5 ॥
तस्मै स बराह्मणॊ नादात पुत्रं वासव संमितम चुक्रॊध सॊ ऽसुरस तस्य बराह्मणस्य ततॊ भृशम ॥ 6 ॥
समाह्वयति यं वाचा गतं वैवस्वतक्षयम स पुनर देहम आस्थाय जीवन सम परतिदृश्यते ॥ 7 ॥
ततॊ वातापिम असुरं छागं कृत्वा सुसंस्कृतम तं बराह्मणं भॊजयित्वा पुनर एव समाह्वयत ॥ 8 ॥
तस्य पार्श्वं विनिर्भिद्य बराह्मणस्य महासुरः वातापिः परहसन राजन निश्चक्राम विशां पते ॥ 9 ॥
एवं स बराह्मणान राजन भॊजयित्वा पुनः पुनः हिंसयाम आस दैतेय इल्वलॊ दुष्टचेतनः ॥ 10 ॥
अगस्त्यश चापि भगवान एतस्मिन काल एव तु पितॄन ददर्श गर्ते वै लम्बमानान अधॊमुखान ॥ 11 ॥
सॊ ऽपृच्छल लम्बमानांस तान भवन्त इह किं पराः संतानहेतॊर इति ते तम ऊचुर बरह्मवादिनः ॥ 12 ॥
ते तस्मै कथयाम आसुर वयं ते पितरः सवकाः गर्तम एतम अनुप्राप्ता लम्बामः परसवार्थिनः ॥ 13 ॥
यदि नॊ जनयेथास तवम अगस्त्यापत्यम उत्तमम सयान नॊ ऽसमान निरयान मॊक्षस तवं च पुत्राप्नुया गतिम ॥ 14 ॥
स तान उवाच तेजस्वी सत्यधर्मपरायणः करिष्ये पितरः कामं वयेतु वॊ मानसॊ जवरः ॥ 15 ॥
ततः परसव संतानं चिन्तयन भगवान ऋषिः आत्मनः परसवस्यार्थे नापश्यत सदृशीं सत्रियम ॥ 16 ॥
स तस्य तस्य सत्त्वस्य तत तद अङ्गम अनुत्तमम संभृत्य तत समैर अङ्गैर निर्ममे सत्रियम उत्तमाम ॥ 17 ॥
स तां विदर्भराजाय पुत्र कामाय ताम्यते निर्मिताम आत्मनॊ ऽरथाय मुनिः परादान महातपः ॥ 18 ॥
सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा विभ्राजमाना वपुसा वयवर्धत शुभानना ॥ 19 ॥
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः परहर्षेण दविजातिभ्यॊ नयवेदयत भारत ॥ 20 ॥
अभ्यनन्दन्त तां सर्वे बराह्मणा वसुधाधिप लॊपामुद्रेति तस्याश च चक्रिरे नाम ते दविजाः ॥ 21 ॥
ववृधे सा महाराज बिभ्रती रूपम उत्तमम अप्स्व इवॊत्पलिनी शीघ्रम अग्नेर इव शिखा शुभा ॥ 22 ॥
तां यौवनस्थां राजेन्द्र शतं कन्याः सवलंकृताः दाशी शतं च कल्याणीम उपतस्थुर वशानुगाः ॥ 23 ॥
सा च दासी शतवृता मध्ये कन्याशतस्य च आस्ते तेजस्विनी कन्या रॊहिणीव दिवि परभॊ ॥ 24 ॥
यौवनस्थाम अपि च तां शीलाचार समन्विताम न वव्रे पुरुषः कश चिद भयात तस्य महात्मनः ॥ 25 ॥
सा तु सत्यवती कन्या रूपेणाप्सरसॊ ऽपय अति तॊषयाम आस पितरं शीलेन सवजनं तथा ॥ 26 ॥
वैदर्भीं तु तथायुक्तां युवतीं परेक्ष्य वै पिता मनसा चिन्तयाम आस कस्मै दद्यां सुताम इति ॥ 27 ॥
वनपर्व · Vana Parva
अध्याय 94
Reach this point to mark the section finished.
Continue to अध्याय 95