धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 93

  1. [व] ते तथा सहिता वीरा वसन्तस तत्र तत्र ह करमेण पृथिवीपाल नैमिषारण्यम आगताः ॥ 1 ॥

  2. ततस तीर्थेषु पुण्येषु गॊमत्याः पाण्डवा नृप कृताभिषेकाः परददुर गाश च वित्तं च भारत ॥ 2 ॥

  3. तत्र देवान पितॄन विप्रांस तर्पयित्वा पुनः पुनः कन्या तीर्थे ऽशवतीर्थे च गवां तीर्थे च कौरवाः ॥ 3 ॥

  4. वालकॊट्यां वृषप्रस्थे गिराव उष्य च पाण्डवाः बाहुदायां महीपाल चक्रुः सर्वे ऽभिषेचनम ॥ 4 ॥

  5. परयागे देवयजने देवानां पृथिवीपते ऊषुर आप्लुत्य गात्राणि तपश चातस्थुर उत्तमम ॥ 5 ॥

  6. गङ्गायमुनयॊश चैव संगमे सत्यसंगराः विपाप्मानॊ महात्मानॊ विप्रेभ्यः परददुर वसु ॥ 6 ॥

  7. तपस्विजनजुष्टां च ततॊ वेदीं परजापतेः जग्मुः पाण्डुसुता राजन बराह्मणैः सह भारत ॥ 7 ॥

  8. तत्र ते नयवसन वीरास तपश चातस्थुर उत्तमम संतर्पयन्तः सततं वन्येन हविषा दविजान ॥ 8 ॥

  9. ततॊ महीधरं जग्मुर धर्मज्ञेनाभिसत्कृतम राजर्षिणा पुण्यकृता गयेनानुपम दयुते ॥ 9 ॥

  10. सरॊ गय शिरॊ यत्र पुण्या चैव महानदी ऋषिजुष्टं सुपुण्यं तत तीर्थं बरह्मसरॊत्तमम ॥ 10 ॥

  11. अगस्त्यॊ भगवान यत्र गतॊ वैवस्वतं परति उवास च सवयं यत्र धर्मॊ राजन सनातनः ॥ 11 ॥

  12. सर्वासां सरितां चैव समुद्भेदॊ विशां पते यत्र संनिहितॊ नित्यं महादेवः पिनाक धृक ॥ 12 ॥

  13. तत्र ते पाण्डवा वीराश चातुर्मास्यैस तदेजिरे ऋषियज्ञेन महता यत्राक्षयवतॊ महान ॥ 13 ॥

  14. बराह्मणास तत्र शतशः समाजग्मुस तपॊधनाः चातुर्मास्येनायजन्त आर्षेण विधिना तदा ॥ 14 ॥

  15. तत्र विद्या तपॊनित्या बराह्मणा वेदपारगाः कथाः परचक्रिरे पुण्याः सदसि सथा महात्मनाम ॥ 15 ॥

  16. तत्र विद्याव्रतस्नातः कौमारं वरतम आस्थितः शमठॊ ऽकथयद राजन्न अमूर्त रयसं गयम ॥ 16 ॥

  17. अमूर्त रयसः पुत्रॊ गयॊ राजर्षिसत्तमः पुण्यानि यस्य कर्माणि तानि मे शृणु भारत ॥ 17 ॥

  18. यस्य यज्ञॊ बभूवेह बह्व अन्नॊ बहु दक्षिणः यत्रान्न पर्वता राजञ शतशॊ ऽथ सहस्रशः ॥ 18 ॥

  19. घृतकुल्याश च दध्नश च नद्यॊ बहुशतास तथा वयञ्जनानां परवाहाश च महार्हाणां सहस्रशः ॥ 19 ॥

  20. अहन्य अहनि चाप्य एतद याचतां संप्रदीयते अन्यत तु बराह्मणा राजन भुञ्जते ऽननं सुसंस्कृतम ॥ 20 ॥

  21. तत्र वै दक्षिणा काले बरह्मघॊषॊ दिवं गतः न सम परज्ञायते किं चिद बरह्म शब्देन भारत ॥ 21 ॥

  22. पुण्येन चरता राजन भूर दिशः खं नभस तथा आपूर्णम आसीच छब्देन तद अप्य आसीन महाद्भुतम ॥ 22 ॥

  23. तत्र सम गाथा गायन्ति मनुष्या भरतर्षभ अन्नपानैः शुभैस तृप्ता देशे देशे सुवर्चसः ॥ 23 ॥

  24. गयस्य यज्ञे के तव अद्य पराणिनॊ भॊक्तुम ईप्सवः यत्र भॊजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ 24 ॥

  25. न सम पूर्वे जनाश चक्रुर न करिष्यन्ति चापरे गयॊ यद अकरॊद यज्ञे राजर्षिर अमितद्युतिः ॥ 25 ॥

  26. कथं नु देवा हविषा गयेन परितर्पिताः पुनः शक्ष्यन्त्य उपादातुम अन्यैर दत्तानि कानि चित ॥ 26 ॥

  27. एवंविधाः सुबहवस तस्य यज्ञे महात्मनः बभूवुर अस्य सरसः समीपे कुरुनन्दन ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 94

Previous: अध्याय 92