[य] न वै निर्गुणम आत्मानं मन्ये देवर्षिसत्तम तथास्मि दुःखसंतप्तॊ यथा नान्यॊ महीपतिः ॥ 1 ॥
परांश च निर्गुणान मन्ये न च धर्मरतान अपि ते च लॊमश लॊके ऽसमिन्न ऋध्यन्ते केन केतुना ॥ 2 ॥
[ल] नात्र दुःखं तवया राजन कार्यं पार्थ कथं चन यद अधर्मेण वर्धेरन्न अधर्मरुचयॊ जनाः ॥ 3 ॥
वर्धत्य अधर्मेण नरस ततॊ भद्राणि पश्यति ततः सपत्नाञ जयति स मूलस तु विनश्यति ॥ 4 ॥
मया हि दृष्टा दैतेया दानवाश च महीपते वर्धमाना हय अधर्मेण कषयं चॊपगताः पुनः ॥ 5 ॥
पुरा देवयुगे चैव दृष्टं सर्वं मया विभॊ अरॊचयन सुरा धर्मं धर्मं तत्यजिरे ऽसुराः ॥ 6 ॥
तीर्थानि देवा विविशुर नाविशन भारतासुराः तान अधर्मकृतॊ दर्पः पूर्वम एव समाविशत ॥ 7 ॥
दर्पान मानः समभवन मानात करॊधॊ वयजायत करॊधाद अह्रीस ततॊ ऽलज्जा वृत्तं तेषां ततॊ ऽनशत ॥ 8 ॥
तान अलज्जान गतह्रीकान हीनवृत्तान वृथा वरतान कषमा लक्ष्मीश च धर्मश च नचिरात परजहुस ततः लक्ष्मीस तु देवान अगमद अलक्ष्मीर असुरान नृप ॥ 9 ॥
तान अलक्ष्मी समाविष्टान दर्पॊपहत चेतसः दैतेयान दानवांश चैव कलिर अप्य आविशत ततः ॥ 10 ॥
तान अलक्ष्मी समाविष्टान दानवान कलिना तथा दर्पाभिभूतान कौन्तेय करिया हीनान अचेतसः ॥ 11 ॥
मानाभिभूतान अचिराद विनाशः परत्यपद्यत निर्यशस्यास ततॊ दैत्याः कृत्स्नशॊ विलयं गताः ॥ 12 ॥
देवास तु सागरांश चैव सरितश च सरांसि च अभ्यगच्छन धर्मशीलाः पुण्यान्य आयतनानि च ॥ 13 ॥
तपॊभिः करतुभिर दानैर आशीर्वादैश च पाण्डव परजहुः सर्वपापाणि शरेयश च परतिपेदिरे ॥ 14 ॥
एवं हि दानवन्तश च करियावन्तश च सर्वशः तीर्थान्य अगच्छन विबुधास तेनापुर भूतिम उत्तमाम ॥ 15 ॥
तथा तवम अपि राजेन्द्र सनात्वा तीर्थेषु सानुजः पुनर वेत्स्यसि तां लक्ष्मीम एष पन्थाः सनातनः ॥ 16 ॥
यथैव हि नृगॊ राजा शिबिर औशीनरॊ यथा भगीरथॊ वसु मना गयः पूरुः पुरूरवः ॥ 17 ॥
चरमाणास तपॊनित्यं सपर्शनाद अम्भसश च ते तीर्थाभिगमनात पूता दर्शनाच च महात्मनाम ॥ 18 ॥
अलभन्त यशः पुण्यं धनानि च विशां पते तथा तवम अपि राजेन्द्र लब्धासि विपुलां शरियम ॥ 19 ॥
यथा चेक्ष्वाकुर अचरत सपुत्रजनबान्धवः मुचुकुन्दॊ ऽथ मान्धाता मरुत्तश च महीपतिः ॥ 20 ॥
कीर्तिं पुण्याम अविन्दन्त यथा देवास तपॊबलात देवर्षयश च कार्त्स्न्येन तथा तवम अपि वेत्स्यसे ॥ 21 ॥
धार्तराष्ट्रास तु दर्पेण मॊहेन च वशीकृताः नचिराद विनशिष्यन्ति दैत्या इव न संशयः ॥ 22 ॥
वनपर्व · Vana Parva
अध्याय 92
Reach this point to mark the section finished.
Continue to अध्याय 93