[व] ततः परयान्तं कौन्तेयं बराह्मणा वनवासिनः अभिगम्य तदा राजन्न इदं वचनम अब्रुवन ॥ 1 ॥
राजंस तीर्थानि गन्तासि पुण्यानि भरातृभिः सह देवैषिणा च सहितॊ लॊमशेन महात्मना ॥ 2 ॥
अस्मान अपि महाराजन नेतुम अर्हसि पाण्डव अस्माभिर हि न शक्यानि तवदृते तानि कौरव ॥ 3 ॥
शवापदैर उपसृष्टानि दुर्गाणि विषमाणि च अगम्यानि नरैर अल्पैस तीर्थानि मनुजेश्वर ॥ 4 ॥
भवन्तॊ भरातरः शूरा धनुर्धर वराः सदा भवद्भिः पालिताः शूरैर गच्छेम वयम अप्य उत ॥ 5 ॥
भवत्प्रसादाद धि वयं पराप्नुयाम फलं शुभम तीर्थानां पृथिवीपाल वरतानां च विशां पतौ ॥ 6 ॥
तव वीर्यपरित्राताः शुद्धास तीर्थपरिप्लुताः भवेम धूतपाप्मानस तीर्थसंदर्शनान नृप ॥ 7 ॥
भवान अपि नरेन्द्रस्य कार्तवीर्यस्य भारत अष्टकस्य च राजर्षेर लॊम पादस्य चैव ह ॥ 8 ॥
भारतस्य च वीरस्य सार्वभौमस्य पार्थिव धरुवं पराप्स्यसि दुष्प्रापाँल लॊकांस तीर्थपरिप्लुतः ॥ 9 ॥
परभासादीनि तीर्थानि महेन्द्रादींश च पर्वतान गङ्गाद्याः सरितश चैव पलक्षादींश च वनस्पतीन तवया सह महीपाल दरष्टुम इच्छामहे वयम ॥ 10 ॥
यदि ते बराह्मणेष्व अस्ति का चित परीतिर जनाधिप कुरु कषिप्रं वचॊ ऽसमाकं ततः शरेयॊ ऽभिपत्स्यसे ॥ 11 ॥
तीर्थानि हि महाबाहॊ तपॊविघ्नकरैः सदा अनुकीर्णानि रक्षॊभिस तेभ्यॊ नस तरातुम अर्हसि ॥ 12 ॥
तीर्थान्य उक्तानि धौम्येन नारदेन च धीमता यान्य उवाच च देवर्षिर लॊमशः सुमहातपाः ॥ 13 ॥
विधिवत तानि सर्वाणि पर्यटस्व नराधिप धूतपाप्मा सहास्माभिर लॊमशेन च पालितः ॥ 14 ॥
स तथा पूज्यमानस तैर हर्षाद अश्रुपरिप्लुतः भीमसेनादिभिर वीरैर भरातृभिः परिवारितः बाढम इत्य अब्रवीत सर्वांस तान ऋषीन पाण्डवर्षभः ॥ 15 ॥
लॊमशं समनुज्ञाप्य धौम्यं चैव पुरॊहितम ततः स पाण्डवश्रेष्ठॊ भरातृभिः सहितॊ वशी दरौपद्या चानवद्याङ्ग्या गमनाय मनॊ दधे ॥ 16 ॥
अथ वयासॊ महाभागस तथा नारद पर्वतौ काम्यके पाण्डवं दरष्टुं समाजग्मुर मनीषिणः ॥ 17 ॥
तेषां युधिष्ठिरॊ राजा पूजां चक्रे यथाविधि सत्कृतास ते महाभागा युधिष्ठिरम अथाब्रुवन ॥ 18 ॥
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम मनसा कृतशौचा वौ शुद्धास तीर्थानि गच्छत ॥ 19 ॥
शरीरनियमं हय आहुर बराह्मणा मानुषं वरतम मनॊविशुद्धां बुद्धिं च दैवम आहुर वरतं दविजाः ॥ 20 ॥
मनॊ हय अदुष्टं शूराणां पर्याप्तं वै नराधिप मैत्रीं बुद्धिं समास्थाय शुद्धास तीर्थानि गच्छत ॥ 21 ॥
ते यूयं मानसैः शुद्धाः शरीरनियम वरतैः दैवं वरतं समास्थाय यथॊक्तं फलम आप्स्यथ ॥ 22 ॥
ते तथेति परतिज्ञाय कृष्णया सह पाण्डवाः कृतस्वस्त्ययनाः सर्वे मुनिभिर दिव्यमानुषैः ॥ 23 ॥
लॊमशस्यॊपसंगृह्य पादौ दवैपायनस्य च नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥ 24 ॥
धौम्येन सहिता वीरास तथान्यैर वनवासिभिः मार्गशीर्ष्याम अतीतायां पुष्येण परययुस ततः ॥ 25 ॥
कठिनानि समादाय चीराजिनजटाधराः अभेद्यैः कवचैर युक्तास तीर्थान्य अन्वचरंस तदा ॥ 26 ॥
इन्द्रसेनादिभिर भृत्यै रथैः परिचतुर्दशैः महानस वयापृतैश च तथान्यैः परिचारकैः ॥ 27 ॥
सायुधा बद्धनिष्ट्रिंशास तूणवन्तः स मार्गणाः पराङ मुखाः परययुर वीराः पाण्डवा जनमेजय ॥ 28 ॥
वनपर्व · Vana Parva
अध्याय 91
Reach this point to mark the section finished.
Continue to अध्याय 92