[लॊमष] धनंजयेन चाप्य उक्तं यत तच छृणु युधिष्ठिर युधिष्ठिरं भरातरं मे यॊजयेर धर्म्यया शरिया ॥ 1 ॥
तवं हि धर्मान परान वेत्थ तपांसि च तपॊधन शरीमतां चापि जानासि राज्ञां धर्मं सनातनम ॥ 2 ॥
स भवान यत परं वेद पावनं पुरुषान परति तेन संयॊजयेथास तवं तीर्थपुण्येन पाण्डवम ॥ 3 ॥
यथा तीर्थानि गच्छेत गाश च दद्यात स पार्थिवः तथा सर्वात्मना कार्यम इति मां विजयॊ ऽबरवीत ॥ 4 ॥
भवता चानुगुप्तॊ ऽसौ चरेत तीर्थानि सर्वशः रक्षॊभ्यॊ रक्षितव्यश च दुर्गेषु विषमेषु च ॥ 5 ॥
दधीच इव देवेन्द्रं यथा चाप्य अङ्गिरा रविम तथा रक्षस्व कौन्तेयं राक्षसेभ्यॊ दविजॊत्तम ॥ 6 ॥
यातुधाना हि बहवॊ राक्षसाः पर्वतॊपमाः तवयाभिगुप्तान कौन्तेयान नातिवर्तेयुर अन्तिकात ॥ 7 ॥
सॊ ऽहम इन्द्रस्य वचनान नियॊगाद अर्जुनस्य च रक्षमाणॊ भयेभ्यस तवां चरिष्यामि तवया सह ॥ 8 ॥
दविस तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन इदं तृतीयं दरक्ष्यामि तान्य एव भवता सह ॥ 9 ॥
इयं राजर्षिभिर याता पुण्यकृद्भिर युधिष्ठिर मन्वादिभिर महाराज तीर्थयात्रा भयापहा ॥ 10 ॥
नानृजुर नाकृतात्मा च नावैद्यॊ न च पापकृत सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः ॥ 11 ॥
तवं तु धर्ममतिर नित्यं धर्मज्ञः सत्यसंगरः विमुक्तः सर्वपापेभ्यॊ भूय एव भविष्यसि ॥ 12 ॥
यथा भगीरथॊ राजा राजानश च गयादयः यथा ययातिः कौन्तेय तथा तवम अपि पाण्डव ॥ 13 ॥
[य] न हर्षात संप्रपश्यामि वाक्यस्यास्यॊत्तरं कव चित समरेद धि देवराजॊ यं किंनामाभ्यधिकं ततः ॥ 14 ॥
भवता संगमॊ यस्य भराता यस्य धनंजयः वासवः समरते यस्य कॊ नामाभ्यधिकस ततः ॥ 15 ॥
यच च मां भगवान आह तीर्थानां दर्शनं परति धौम्यस्य वचनाद एषा बुद्धिः पूर्वं कृतैव मे ॥ 16 ॥
तद यदा मन्यसे बरह्मन गमनं तीर्थदर्शने तदैव गन्तास्मि दृढम एष मे निश्चयः परः ॥ 17 ॥
[व] गमने कृतबुद्धिं तं पाण्डवं लॊमशॊ ऽबरवीत लघुर भव महाराज लघुः सवैरं गमिष्यसि ॥ 18 ॥
[य] बिक्षा भुजॊ निवर्तन्तां बराह्मणा यतयश च ये ये चाप्य अनुगताः पौरा राजभक्तिपुरस्कृताः ॥ 19 ॥
धृतराष्ट्रं महाराजम अभिगच्छन्तु चैव ते स दास्यति यथाकालम उचिता यस्य या भृतिः ॥ 20 ॥
स चेद यथॊचितं वृत्तिं न दद्यान मनुजेश्वरः अस्मत्प्रियहितार्थाय पाञ्चाल्यॊ वः परदास्यति ॥ 21 ॥
[व] ततॊ भूयिष्ठशः पौरा गुरुभारसमाहिताः विप्राश च यतयॊ युक्ता जग्मुर नागपुरं परति ॥ 22 ॥
तान सर्वान धर्मराजस्य परेम्णा राजाम्बिका सुतः परतिजग्राह विधिवद धनैश च समतर्पयत ॥ 23 ॥
ततः कुन्तीसुतॊ राजा लघुभिर बराह्मणैः सह लॊमशेन च सुप्रीतस तरिरात्रं काम्यके ऽवसत ॥ 24 ॥
वनपर्व · Vana Parva
अध्याय 90
Reach this point to mark the section finished.
Continue to अध्याय 91