[व] एवं संभाषमाणे तु धौम्ये कौरवनन्दन लॊमशः सुमहातेजा ऋषिस तत्राजगाम ह ॥ 1 ॥
तं पाण्डवाग्रजॊ राजा सगणॊ बराह्मणाश च ते उदतिष्ठन महाभागं दिवि शक्रम इवामराः ॥ 2 ॥
तम अभ्यर्च्य यथान्यायं धर्मराजॊ युधिष्ठिरः पप्रच्छागमने हेतुम अटने च परयॊजनम ॥ 3 ॥
स पृष्टः पाण्डुपुत्रेण परीयमाणॊ महामनाः उवाच शलक्ष्णया वाचा हर्षयन्न इव पाण्डवान ॥ 4 ॥
संचरन्न अस्मि कौन्तेय सर्वलॊकान यदृच्छया गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम ॥ 5 ॥
तव च भरातरं वीरम अपश्यं सव्यसाचिनम शक्रस्यार्धासन गतं तत्र मे विस्मयॊ महान आसीत पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम ॥ 6 ॥
आह मां तत्र देवेशॊ गच्छ पाण्डुसुतान इति सॊ ऽहम अभ्यागतः कषिप्रं दिदृक्षुस तवां सहानुजम ॥ 7 ॥
वचनात पुरुहूतस्य पार्थस्य च महात्मनः आख्यास्ये ते परियं तात महत पाण्डवनन्दन ॥ 8 ॥
भरातृभिः सहितॊ राजन कृष्णया चैव तच छृणु यत तवयॊक्तॊ महाबाहुर अस्त्रार्थं पाण्डवर्षभ ॥ 9 ॥
तद अस्त्रम आप्तं पार्थेन रुद्राद अप्रतिमं महत यत तद बरह्मशिरॊ नाम तपसा रुद्रम आगतम ॥ 10 ॥
अमृताद उत्थितं रौद्रं तल लब्धं सव्यसाचिना तत स मन्त्रं स संहारं स परायश्चित्तमङ्गलम ॥ 11 ॥
वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर यमात कुबेराद वरुणाद इन्द्राच च कुरुनन्दन अस्त्राण्य अधीतवान पार्थॊ दिव्यान्य अमितविक्रमः ॥ 12 ॥
विश्वावसॊर च तनयाद गीतं नृत्तं च साम च वादित्रं च यथान्यायं परत्यविन्दद यथाविधि ॥ 13 ॥
एवं कृतास्त्रः कौन्तेयॊ गान्धर्वं वेदम आप्तवान सुखं वसति बीभत्सुर अनुजस्यानुजस तव ॥ 14 ॥
यदर्थं मां सुरश्रेष्ठ इदं वचनम अब्रवीत तच च ते कथयिष्यामि युधिष्ठिर निबॊध मे ॥ 15 ॥
भवान मनुष्यलॊकाय गमिष्यति न संशयः बरूयाद युधिष्ठिरं तत्र वचनान मे दविजॊत्तम ॥ 16 ॥
आगमिष्यति ते भराता कृतास्त्रः कषिप्रम अर्जुनः सुरकार्यं महत कृत्वा यद आशक्यं दिवौकसैः ॥ 17 ॥
तपसा तु तवम आत्मानं भरातृभिः सह यॊजय तपसॊ हि परं नास्ति तपसा विन्दते महत ॥ 18 ॥
अहं च कर्णं जानामि यथावद भरतर्षभ न स पार्थस्य संग्रामे कलाम अर्हति षॊडशीम ॥ 19 ॥
यच चापि ते भयं तस्मान मनसि सथम अरिंदम तच चाप्य अपहरिष्यामि सव्यसाचाव इहागते ॥ 20 ॥
यच च ते मानसं वीर तीर्थयात्राम इमां परति तच च ते लॊमशः सर्वं कथयिष्यत्य असंशयम ॥ 21 ॥
यच च किं चित तपॊ युक्तं फलं तीर्थेषु भारत महर्षिर एष यद बरूयात तच छरद्धेयम अनन्यथा ॥ 22 ॥
वनपर्व · Vana Parva
अध्याय 89
Reach this point to mark the section finished.
Continue to अध्याय 90