[वय] धृतराष्ट्र महाप्राज्ञ निबॊध वचनं मम वक्ष्यामि तवा कौरवाणां सर्वेषां हितम उत्तमम ॥ 1 ॥
न मे परियं महाबाहॊ यद गताः पाण्डवा वनम निकृत्या निर्जिताश चैव दुर्यॊधन वशानुगैः ॥ 2 ॥
ते समरन्तः परिक्लेशान वर्षे पूर्णे तरयॊदशे विमॊक्ष्यन्ति विषं करुद्धाः करवेयेषु भारत ॥ 3 ॥
तद अयं किं नु पापात्मा तव पुत्रः सुमन्दधीः पाण्डवान नित्यसंक्रुद्धॊ राज्यहेतॊर जिघांसति ॥ 4 ॥
वार्यतां साध्व अयं मूढः शमं गच्छतु ते सुतः वनस्थांस तान अयं हन्तुम इच्छन पराणैर विमॊक्ष्यते ॥ 5 ॥
यथाह विदुरः पराज्ञॊ यथा भीष्मॊ यथा वयम यथा कृपश च दरॊणश च तथा साधु विधीयताम ॥ 6 ॥
विग्रहॊ हि महाप्राज्ञ सवजनेन विगर्हितः अधार्म्यम अयशस्यं च मा राजन परतिपद्यथाः ॥ 7 ॥
समीक्षा यादृशी हय अस्य पाण्डवान परति भारत उपेक्ष्यमाणा सा राजन हमान्तम अनयं सपृशेत ॥ 8 ॥
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः पाण्डवैः सहितॊ राजन्न एक एवासहाय वान ॥ 9 ॥
ततः संसर्गजः सनेहः पुत्रस्य तव पाण्डवैः यदि सयात कृतकार्यॊ ऽदय भवेस तवं मनुजेश्वर ॥ 10 ॥
अथ वा जायमानस्य यच छीलम अनुजायते शरूयते तन महाराज नामृतस्य अपसर्पति ॥ 11 ॥
कथं वा मन्यते भीष्मॊ दरॊणॊ वा विदुरॊ ऽपि वा भवान वात्र कषमं कार्यं पुरा चार्थॊ ऽतिवर्तते ॥ 12 ॥
वनपर्व · Vana Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 10