धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 10

  1. [धृ] भगवन नाहम अप्य एतद रॊचये दयूतसंस्तवम मन्ये तद विधिनाक्रम्य कारितॊ ऽसमीति वै मुने ॥ 1 ॥

  2. नैतद रॊचयते भीष्मॊ न दरॊणॊ विदुरॊ न च गान्धारी नेच्छति दयूतं तच च मॊहात परवर्तितम ॥ 2 ॥

  3. परित्यक्तुं न शक्नॊमि दुर्यॊधनम अचेतनम पुत्रस्नेहेन भगवञ जानन्न अपि यतव्रत ॥ 3 ॥

  4. [वय] वैचित्र वीर्यनृपते सत्यम आह यथा भवान दृढं वेद्मि परं पुत्रं परं पुत्रान न विद्यते ॥ 4 ॥

  5. इन्द्रॊ ऽपय अश्रुनिपातेन सुरभ्या परतिबॊधितः अन्यैः समृद्धैर अप्य अर्थैर न सुताद विद्यते परम ॥ 5 ॥

  6. अत्र ते वर्तयिष्यामि महद आख्यानम उत्तमम सुरभ्याश चैव संवादम इन्द्रस्य च विशां पते ॥ 6 ॥

  7. तरिविष्टपगता राजन सुरभिः परारुदत किल गवां मात पुरा तात ताम इन्द्रॊ ऽनवकृपायत ॥ 7 ॥

  8. [इन] किम इदं रॊदिषि शुभे कच चित कषेमं दिवौकसाम मानुषेष्व अथ वा गॊषु नैतद अल्पं भविष्यति ॥ 8 ॥

  9. [सु] विनिपातॊ न वः कश चिद दृश्यते तरिदशाधिप अहं तु पुत्रं शॊचामि तेन रॊदिमि कौशिक ॥ 9 ॥

  10. पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम परतॊदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम ॥ 10 ॥

  11. एतं दृष्ट्वा भृशं शरन्तं वध्यमानं सुराधिप कृपाविष्टास्मि देवेन्द्र मनश चॊद्विजते मम ॥ 11 ॥

  12. एकस तत्र बलॊपेतॊ धुरम उद्वहते ऽधिकाम अपरॊ ऽलपबलप्राणः कृशॊ धमनि संततः कृच्छ्राद उद्वहते भारं तं वै शॊचामि वासव ॥ 12 ॥

  13. वध्यमानः परतॊदेन तुद्यमानः पुनः पुनः नैव शक्नॊमि तं भारम उद्वॊढुं पश्य वासव ॥ 13 ॥

  14. ततॊ ऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता अश्रूण्य आवर्तयन्ती च नेत्राभ्यां करुणायती ॥ 14 ॥

  15. [इन] तव पुत्रसहस्रेषु पीड्यमानेषु शॊभने किं कृपायितम अस्त्य अत्र पुत्र एकॊ ऽतर पीड्यते ॥ 15 ॥

  16. [सु] यदि पुत्रसहस्रं मे सर्वत्र समम एव मे दीनस्य तु सतः शक्रपुत्रस्याभ्यधिका कृपा ॥ 16 ॥

  17. [वय] तद इन्द्रः सुरभी वाक्यं निशम्य भृशविस्मितः जीवितेनापि कौरव्य मेने ऽभयधिकम आत्मजम ॥ 17 ॥

  18. परववर्ष च तत्रैव सहसा तॊयम उल्बणम कर्षकस्याचरन विघ्नं भगवान पाकशासनः ॥ 18 ॥

  19. तद यथा सुरभिः पराह समम एवास्तु मे तथा सुतेषु राजन सर्वेषु दीनेष्व अभ्यधिका कृपा ॥ 19 ॥

  20. यादृशॊ मे सुतः पण्डुस तादृशॊ मे ऽसि पुत्रक विदुरश च महाप्राज्ञः सनेहाद एतद वरमीम्य अहम ॥ 20 ॥

  21. चिराय तव पुत्राणां शतम एकश च पार्थिव पाण्डॊः पञ्चैव लक्ष्यन्ते ते ऽपि मन्दाः सुदुःखिताः ॥ 21 ॥

  22. कथं जीवेयुर अत्यन्तं कथं वर्धेयुर इत्य अपि इति दीनेषु पार्थेषु मनॊ मे परितप्यते ॥ 22 ॥

  23. यदि पार्थिव कौरव्याञ जीवमानान इहेच्छसि दुर्यॊधनस तव सुतः शमं गच्छतु पाण्डवैः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 11

Previous: अध्याय 9