धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 8

  1. [व] शरुत्वा च विदुरं पराप्तं राज्ञा च परिसान्त्वितम धृतराट्रात्मजॊ राजा पर्यतप्यत दुर्मतिः ॥ 1 ॥

  2. स सौबलं समानाय्य कर्ण दुःशासनाव अपि अब्रवीद वचनं राजा परविश्याबुद्धिजं तमः ॥ 2 ॥

  3. एष परप्त्यगतॊ मन्त्री धृतराष्ट्रस्य संमतः विदुरः पाण्डुपुत्राणां सुहृद विद्वान हिते रतः ॥ 3 ॥

  4. यावद अस्य पुनर बुद्धिं विदुरॊ नापकर्षति पाण्डवानयने तावन मन्त्रयध्वं हितं मम ॥ 4 ॥

  5. अथ पश्याम्य अहं पार्थान पराप्तान इह कथं चन पुनः शॊषं गमिष्यामि निरासुर निरवग्रहः ॥ 5 ॥

  6. विषम उद्बन्धनं वापि शस्त्रम अग्निप्रवेशनम करिष्ये न हि तान ऋद्धान पुनर दरष्टुम इहॊत्सहे ॥ 6 ॥

  7. [ष] किं बालिषां मतिं राजन्न आस्थितॊ ऽसि विशां पते गतास ते समयं कृत्वा नैतद एवं भविष्यति ॥ 7 ॥

  8. सत्यवाक्ये सथिताः सर्वे पाण्डवा भरतर्षभ पितुस ते वचनं तात न गरहीष्यन्ति कर्हि चित ॥ 8 ॥

  9. अथ वा ते गरहीष्यन्ति पुनर एष्यन्ति वा पुरम निरस्य समयं भूयः पणॊ ऽसमाकं भविष्यति ॥ 9 ॥

  10. सर्वे भवामॊ मध्यस्था राज्ञश छन्दानुवर्तिनः छिद्रं बहु परपश्यन्तः पाण्डवानां सुसंवृताः ॥ 10 ॥

  11. [दुह] एवम एतन महाप्राज्ञ यथा वदसि मातुल नित्यं हि मे कथयतस तव बुद्धिर हि रॊचते ॥ 11 ॥

  12. [कर] कामम ईक्षामहे सर्वे दुर्यॊधन तवेप्सितम ऐकमत्यं हि नॊ राजन सर्वेषाम एव लक्ष्यते ॥ 12 ॥

  13. [व] एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा नातिहृष्टमनाः कषिप्रम अभवत स पराङ्मुखः ॥ 13 ॥

  14. उपलभ्य ततः कर्णॊ विवृत्य नयने शुभे रॊषाद दुःशासनं चैव सौबलेयं च ताव उभौ ॥ 14 ॥

  15. उवाच परमक्रुद्ध उद्यम्यात्मानम आत्मना अहॊ मम मतं यत तन निबॊधत नराधिपाः ॥ 15 ॥

  16. परियं सर्वे चिकीर्षामॊ राज्ञः किंकरपाणयः न चास्य शक्नुमः सर्वे परिये सथातुम अतन्द्रिताः ॥ 16 ॥

  17. वयं तु शस्त्राण्य आदाय रथान आस्थाय दंशिताः गच्छामः सहिता हन्तुं पाण्डवान वनगॊचरान ॥ 17 ॥

  18. तेषु सर्वेषु शान्तेषु गतेष अविदितां गतिम निर्विवादा भविष्यन्ति धार्तराष्ट्रास तथा वयम ॥ 18 ॥

  19. यावद एव परिद्यूना यावच छॊकपरायणाः यावन मित्र विहीनाश च तावच छक्या मतं मम ॥ 19 ॥

  20. तस्य तद वचनं शरुत्वा पूजयन्तः पुनः पुनः बाढम इत्य एव ते सर्वे परत्यूचुः सूतजं तदा ॥ 20 ॥

  21. एवम उक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक पृथक निर्ययुः पाण्डवान हन्तुं संघशः कृतनिश्चयाः ॥ 21 ॥

  22. तान परस्थितान परिज्ञाय कृष्णद्वैपायनस तदा आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥ 22 ॥

  23. परतिषिध्याथ तान सर्वान भगवाँल लॊकपूजितः परज्ञा चक्षुषम आसीनम उवाचाभ्येत्य सत्वरः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7