धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 88

  1. [धौम्य] उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै तानि ते कीर्तयिष्यामि पुण्यान्य आयतनानि च ॥ 1 ॥

  2. सरस्वती पुण्यवहा हरदिनी वनमालिनी समुद्रगा महावेगा यमुना यत्र पाण्डव ॥ 2 ॥

  3. तत्र पुण्यतमं तीर्थं पलक्षावतरणं शिवम यत्र सारस्वतैर इष्ट्वा गच्छन्त्य अवभृथं दविजाः ॥ 3 ॥

  4. पुण्यं चाख्यायते दिव्यं शिवम अग्निशिरॊ ऽनघ सहदेवायजद यत्र शम्य आक्षेपेण भारत ॥ 4 ॥

  5. एतस्मिन्न एव चार्थेयम इन्द्र गीता युधिष्ठिर गाथा चरति लॊके ऽसमिन गीयमाना दविजातिभिः ॥ 5 ॥

  6. अग्नयः सहदेवेन ये चिता यमुनाम अनु शतं शतसहस्राणि सहस्रशतदक्षिणाः ॥ 6 ॥

  7. तत्रैव भरतॊ राजा चक्रवर्ती महायशाः विंशतिं सप्त चाष्टौ च हयमेधान उपाहरत ॥ 7 ॥

  8. कामकृद यॊ दविजातीनां शरुतस तात मया पुरा अत्यन्तम आश्रमः पुण्यः सरकस तस्य विश्रुतः ॥ 8 ॥

  9. सरस्वती नदी सद्भिः सततं पार्थ पूजिता वालखिल्यैर महाराज यत्रेष्टम ऋषिभिः पुरा ॥ 9 ॥

  10. दृषद्वती पुण्यतमा तत्र खयाता युधिष्ठिर तत्र वैवर्ण्य वर्णौ च सुपुण्यौ मनुजाधिप ॥ 10 ॥

  11. वेदज्ञौ वेद विदितौ दिव्या वेदविदाव उभौ यजन्तौ करतुभिर नित्यं पुण्यैर भरतसत्तम ॥ 11 ॥

  12. समेत्य बहुशॊ देवाः सेन्द्राः स वरुणाः पुरा विशाख यूपे ऽतप्यन्त तस्मात पुण्यतमः स वै ॥ 12 ॥

  13. ऋषिर महान महाभागॊ जमदग्निर महायशाः पलाशकेषु पुण्येषु रम्येष्व अयजताभिभूः ॥ 13 ॥

  14. यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात तम ऋषिसत्तमम सवं सवं तॊयम उपादाय परिवार्यॊपतस्थिरे ॥ 14 ॥

  15. अपि चात्र महाराज सवयं विश्वावसुर जगौ इमं शलॊकं तदा वीर परेक्ष्य वीर्यं महात्मनः ॥ 15 ॥

  16. यजमानस्य वै देवाञ जमदग्नेर महात्मनः आगम्य सरितः सर्वा मधुना समतर्पयन ॥ 16 ॥

  17. गन्धर्वयक्षरक्षॊभिर अप्सरॊभिश च शॊभितम किरात किंनरावासं शैलं शिखरिणां वरम ॥ 17 ॥

  18. बिभेद तरसा गङ्गा गङ्गा दवारे युधिष्ठिर पुण्यं तत खयायते राजन बरह्मर्षिगणसेवितम ॥ 18 ॥

  19. सनत कुमारः कौरव्य पुण्यं कनखलं तथा पर्वतश च पुरुर नाम यत्र जातः पुरूरवः ॥ 19 ॥

  20. भृगुर यत्र तपस तेपे महर्षिगणसेवितः स राजन्न आश्रमः खयातॊ भृगुतुङ्गॊ महागिरिः ॥ 20 ॥

  21. यच च भूतं भविष्यच च भवच च पुरुषर्षभ नारायणः परभुर विष्णुः शाश्वतः पुरुषॊत्तमः ॥ 21 ॥

  22. तस्यातियशसः पुण्यां विशालां बदरीम अनु आश्रमः खयायते पुण्यस तरिषु लॊकेषु विश्रुतः ॥ 22 ॥

  23. उष्ण तॊयवहा गङ्ग शीततॊयवहापरा सुवर्णसिकता राजन विशालां बदरीम अनु ॥ 23 ॥

  24. ऋषयॊ यत्र देवाश च महाभागा महौजसः पराप्य नित्यं नमस्यन्ति देवं नारायणं विभुम ॥ 24 ॥

  25. यत्र नारायणॊ देवः परमात्मा सनातनः तत्र कृत्स्नं जगत पार्थ तीर्थान्य आयतनानि च ॥ 25 ॥

  26. तत पुण्यं तत्परं बरह्म तत तीर्थं तत तपॊवनम तत्र देवर्षयः सिद्धाः सर्वे चैव तपॊधनाः ॥ 26 ॥

  27. आदिदेवॊ महायॊगी यत्रास्ते मधुसूदनः पुण्यानाम अपि तत पुण्यं तत्र ते संशयॊ ऽसतु मा ॥ 27 ॥

  28. एतानि राजन पुण्यानि पृथिव्यां पृथिवीपते कीर्तितानि नरश्रेष्ठ तीर्थान्य आयतनानि च ॥ 28 ॥

  29. एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः ऋषिभिर बरह्मकल्पैश च सेवितानि महात्मभिः ॥ 29 ॥

  30. चरन एतानि कौन्तेय सहितॊ बराह्मणर्षभैः भरातृभिश च महाभागैर उत्कण्ठां विजहिष्यसि ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 89

Previous: अध्याय 87