[धौम्य] अवन्तिषु परतीच्यां वै कीर्तयिष्यामि ते दिशि यानि तत्र पवित्राणि पुण्यान्य आयतनानि च ॥ 1 ॥
परियङ्ग्वाम्रवनॊपेता वानीर वनमालिनी परत्यक्स्रॊता नदी पुण्या नर्मदा तत्र भारत ॥ 2 ॥
निकेतः खयायते पुण्यॊ यत्र विश्रवसॊ मुनेः जज्ञे धनपतिर यत्र कुबेरॊ नरवाहनः ॥ 3 ॥
वैडूर्य शिखरॊ नाम पुण्यॊ गिरिवरः शुभः दिव्यपुष्पफलास तत्र पादपा हरितछदाः ॥ 4 ॥
तस्य शैलस्य शिखरे सरस तत्र च धीमतः परफुल्लनलिनं राजन देवगन्धर्वसेवितम ॥ 5 ॥
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते पुण्ये सवर्गॊपमे दिव्ये नित्यं देवर्षिसेविते ॥ 6 ॥
हरदिनी पुण्यतीर्था च राजर्षेस तत्र वै सरित विश्वा मित्र नदी पारा पुण्या परपुरंजय ॥ 7 ॥
यस्यास तीरे सतां मध्ये ययातिर नहुषात्मजः पपात स पुनर लॊकाँल लेभे धर्मान सनातनान ॥ 8 ॥
तत्र पुण्यह्रदस तात मैनाकश चैव पर्वतः बहुमूलफलॊ वीर असितॊ नाम पर्वतः ॥ 9 ॥
आश्रमः कक्षसेनस्य पुण्यस तत्र युधिष्ठिर चयवनस्याश्रमश चैव खयातः सर्वत्र पाण्डव तत्राल्पेनैव सिध्यन्ति मानवास तपसा विभॊ ॥ 10 ॥
जम्बू मार्गॊ महाराज ऋषीणां भावितात्मनाम आश्रमः शाम्यतां शरेष्ठ मृगद्विजगणायुतः ॥ 11 ॥
ततः पुण्यतमा राजन सततं तापसायुता केतुमाला च मेध्या च गङ्गारण्यं च भूमिप ॥ 12 ॥
खयातं च सैन्धवारण्यं पुण्यं दविजनिषेवितम पिता मह सरः पुण्यं पुष्करं नाम भारत वैखानसानां सिद्धानाम ऋषीणाम आश्रमः परियः ॥ 13 ॥
अप्य अत्र संस्तवार्थाय परजापतिर अथॊ जगौ पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर ॥ 14 ॥
मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः पापाणि विप्रणश्यन्ति नाकपृष्ठे च मॊदते ॥ 15 ॥
वनपर्व · Vana Parva
अध्याय 87
Reach this point to mark the section finished.
Continue to अध्याय 88