[धर्म] दक्षिणस्यां तु पुण्यानि शृणु तीर्थनि भारत विस्तरेण यथाबुद्धिकीर्त्यमानानि भारत ॥ 1 ॥
यस्याम आख्यायते पुण्या दिशि गॊदावरी नदी बह्व आरामा बहु जला तापसाचरिता शुभा ॥ 2 ॥
वेण्णा भीम रथी चॊभे नद्यौ पापभयापहे मृगद्विजसमाकीर्णे तापसालयभूषिते ॥ 3 ॥
राजर्षेस तत्र च सरिन नृगस्य भरतर्षभ रम्यतीर्था बहु जला पयॊष्णी दविज सेविता ॥ 4 ॥
अपि चात्र महायॊगी मार्कण्डेयॊ महातपाः अनुवंष्यां जगौ गाथां नृगस्य धरणी पतेः ॥ 5 ॥
नृगस्य यजमानस्य परत्यक्षम इति नः शरुतम अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः ॥ 6 ॥
माठरस्य वनं पुण्यं बहुमूलफलं शिवम यूपश च भरतश्रेष्ठ वरुण सरॊतसे गिरौ ॥ 7 ॥
परवेण्य उत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा तापसानाम अरण्यानि कीर्तितानि यथा शरुति ॥ 8 ॥
वेदी शूर्पारके तात जमदग्नेर महात्मनः रम्या पाषाण तीर्था च पुरश्चन्द्रा च भारत ॥ 9 ॥
अशॊक तीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥ 10 ॥
कुमार्यः कथिताः पुण्याः पाण्ड्येष्व एव नरर्षभ ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥ 11 ॥
यत्र देवैस तपस तप्तं महद इच्छद्भिर आश्रमे गॊकर्णम इति विख्यातं तरिषु लॊकेषु भारत ॥ 12 ॥
शीततॊयॊ बहु जलः पुण्यस तात शिवश च सः हरदः परमदुष्प्रापॊ मानुषैर अकृतात्मभिः ॥ 13 ॥
तत्रैव तृणसॊमाग्नेः संपन्नफलमूलवान आश्रमॊ ऽगस्त्यशिष्यस्य पुण्यॊ देव सभे गिरौ ॥ 14 ॥
वैडूर्य पर्वतस तत्र शरीमान मणिमयः शिवः अगस्त्यस्याश्रमश चैव बहुमूलफलॊदकः ॥ 15 ॥
सुराष्ट्रेष्व अपि वक्ष्यामि पुण्यान्य आयतनानि च आश्रमान सरितः शैलान सरांसि च नराधिप ॥ 16 ॥
चमसॊन्मज्जनं विप्रास तत्रापि कथयन्त्य उत परभासं चॊदधौ तीर्थं तरिदशानां युधिष्ठिर ॥ 17 ॥
तत्र पिण्डारकं नाम तापसाचरितं शुभम उज्जयन्तश च शिखरी कषिप्रं सिद्धिकरॊ महान ॥ 18 ॥
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः पुराणः शरूयते शलॊकस तं निबॊध युधिष्ठिर ॥ 19 ॥
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते उज्जयन्ते सम तप्ताङ्गॊ नाकपृष्ठे महीयते ॥ 20 ॥
पुण्या दवारवती तत्र यत्रास्ते मधुसूदनः साक्षाद देवः पुराणॊ ऽसौ स हि धर्मः सनातनः ॥ 21 ॥
ये च वेदविदॊ विप्रा ये चाध्यात्मविदॊ जनाः ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम ॥ 22 ॥
पवित्राणां हि गॊविन्दः पवित्रं परम उच्यते पुण्यानाम अपि पुण्यॊ ऽसौ मङ्गलानां च मङ्गलम ॥ 23 ॥
तरैलॊक्यं पुण्डरीकाक्षॊ देवदेवः सनातनः आस्ते हरिर अचिन्त्यात्मा तत्रैव मधुसूदनः ॥ 24 ॥
वनपर्व · Vana Parva
अध्याय 86
Reach this point to mark the section finished.
Continue to अध्याय 87