[व] तान सर्वान उत्सुकान दृष्ट्वा पाण्डवान दीनचेतसः आश्वासयंस तदा धौम्यॊ बृहस्पतिसमॊ ऽबरवीत ॥ 1 ॥
बराह्मणानुमतान पुण्यान आश्रमान भरतर्षभ दिशस तीर्थानि शैलांश च शृणु मे गदतॊ नृप ॥ 2 ॥
पूर्वं पराचीं दिशं राजन राजर्षिगणसेविताम रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथा समृति ॥ 3 ॥
तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत यत्र तीर्थानि देवानां सुपुण्यानि पृथक पृथक ॥ 4 ॥
यत्र सा गॊमती पुण्या रम्या देवर्षिसेविता यज्ञभूमिश च देवानां शामित्रं च विवस्वतः ॥ 5 ॥
तस्यां गिरिवरः पुण्यॊ गयॊ राजर्षिसत्कृतः शिवं बरह्मसरॊ यत्र सेवितं तरिदशर्षिभिः ॥ 6 ॥
यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत ॥ 7 ॥
महानदी च तत्रैव तथा गय शिरॊ ऽनघ यथासौ कीर्त्यते विप्रैर अक्षय्य करणॊ वटः यत्र दत्तं पितृभ्यॊ ऽननम अक्षय्यं भवति परभॊ ॥ 8 ॥
सा च पुण्यजला यत्र फल्गु नामा महानदी बहुमूलफला चापि कौशिकी भरतर्षभ विश्वा मित्रॊ ऽभयगाद यत्र बराह्मणत्वं तपॊधनः ॥ 9 ॥
गङ्गा यत्र नदी पुण्या यस्यास तीरे भगीरथः अयजत तात बहुभिः करतुभिर भूरिदक्षिणैः ॥ 10 ॥
पाञ्चालेषु च कौरव्य कथयन्त्य उत्पलावतम विश्वा मित्रॊ ऽयजद यत्र शक्रेण सह कौशिकः यत्रानुवंशं भगवाञ जामदग्न्यस तथा जगौ ॥ 11 ॥
विश्वामित्रस्य तां दृष्ट्वा विभूतिम अतिमानुषीम कन्य कुब्जे ऽपिबत सॊमम इन्द्रेण सह कौशिकः ततः कषत्राद अपाक्रामद बराह्मणॊ ऽसमीति चाब्रवीत ॥ 12 ॥
पवित्रम ऋषिभिर जुष्टं पुण्यं पावनम उत्तमम गङ्गायमुनयॊर वीर संगमं लॊकविश्रुतम ॥ 13 ॥
यत्रायजत भूतात्मा पूर्वम एव पिता महः परयागम इति विख्यातं तस्माद भरतसत्तम ॥ 14 ॥
अगस्त्यस्य च राजेन्द्र तत्राश्रमवरॊ महान हिरण्यबिन्दुः कथितॊ गिरौ कालंजरे नृप ॥ 15 ॥
अत्यन्यान पर्वतान राजन पुण्यॊ गिरिवरः शिवः महेन्द्रॊ नाम कौरव्य भार्गवस्य महात्मनः ॥ 16 ॥
अयजद यत्र कौन्तेय पूर्वम एव पिता महः यत्र भागीरथी पुण्या सदस्यासीद युधिष्ठिर ॥ 17 ॥
यत्रासौ बरह्म शालेति पुण्या खयाता विशां पतौ धूतपाप्मभिर आकीर्णा पुण्यं तस्याश च दर्शनम ॥ 18 ॥
पवित्रॊ मङ्गलीयश च खयातॊ लॊके सनातनः केदारश च मतङ्गस्य महान आश्रम उत्तमः ॥ 19 ॥
कुण्डॊदः पर्वतॊ रम्यॊ बहुमूलफलॊदकः नैषधस तृषितॊ यत्र जलं शर्म च लब्धवान ॥ 20 ॥
यत्र देव वनं रम्यं तापसैर उपशॊभितम बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ॥ 21 ॥
तीर्थानि सरितः शैलाः पुण्यान्य आयतनानि च पराच्यां दिशि महाराज कीर्तितानि मया तव ॥ 22 ॥
तिसृष्व अन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु सरितः पर्वतांश चैव पुण्यान्य आयतनानि च ॥ 23 ॥
वनपर्व · Vana Parva
अध्याय 85
Reach this point to mark the section finished.
Continue to अध्याय 86