[व] भरातॄणां मतम आज्ञाय नारदस्य च धीमतः पिता मह समं धौम्यं पराह राजा युधिष्ठिरः ॥ 1 ॥
मया स पुरुषव्याघ्रॊ जिष्णुः सत्यपराक्रमः अस्त्रहेतॊर महाबाहुर अमितात्मा विवासितः ॥ 2 ॥
स हि वीरॊ ऽनुरक्तश च समर्थश च तपॊधन कृती च भृशम अप्य अस्त्रे वासुदेव इव परभुः ॥ 3 ॥
अहं हय एताव उभौ बरह्मन कृष्णाव अरिनिघातिनौ अभिजानामि विक्रान्तौ तथा वयासः परतापवान तरियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ॥ 4 ॥
नारदॊ ऽपि तथा वेद सॊ ऽपय अशंसत सदा मम तथाहम अपि जानामि नरनारायणाव ऋषी ॥ 5 ॥
शक्तॊ ऽयम इत्य अतॊ मत्वा मया संप्रेषितॊ ऽरजुनः इन्द्राद अनवरः शक्तः सुरसूनुः सुराधिपम दरष्टुम अस्त्राणि चादातुम इन्द्राद इति विवासितः ॥ 6 ॥
भीष्मद्रॊणाव अतिरथौ कृपॊ दरौणिश च दुर्जयः धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः सर्वे वेदविदः शूराः सर्वे ऽसत्रकुशलास तथा ॥ 7 ॥
यॊद्धुकामश च पार्थेन सततं यॊ महाबलः स च दिव्यास्त्रवित कर्णः सूतपुत्रॊ महारथः ॥ 8 ॥
सॊ ऽशववेगानिल बलः शरार्चिस तलनिष्वनः रजॊ धूमॊ ऽसत्रसंतापॊ धार्तराष्ट्रानिलॊद्धतः ॥ 9 ॥
निसृष्ट इव कालेन युगान्तज्वलनॊ यथा मम सैन्यमयं कक्षं परधक्ष्यति न संशयः ॥ 10 ॥
तं स कृष्णानिलॊद्धूतॊ दिव्यास्त्रजलदॊ महान शवेतवाजिबलाका भृद गाण्डीवेन्द्रायुधॊज्ज्वलः ॥ 11 ॥
सततं शरधाराभिः परदीप्तं कर्ण पावकम उदीर्णॊ ऽरजुन मेघॊ ऽयं शमयिष्यति संयुगे ॥ 12 ॥
स साक्षाद एव सर्वाणि शक्रात परपुरंजयः दिव्यान्य अस्त्राणि बीभत्सुस तत्त्वतः परतिपत्स्यते ॥ 13 ॥
अलं स तेषां सर्वेषाम इति मे धीयते मतिः नास्ति तव अतिक्रिया तस्य रणे ऽरीणां परतिक्रिया ॥ 14 ॥
तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम दरष्टारॊ न हि बीभत्सुर भारम उद्यम्य सीदति ॥ 15 ॥
वयं तु तम ऋते वीरं वने ऽसमिन दविपदां वर अवधानं न गच्छामः काम्यके सह कृष्णया ॥ 16 ॥
भवान अन्यद वनं साधु बह्व अन्नं फलवच छुचि आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥ 17 ॥
यत्र कं चिद वयं कालं वसन्तः सत्यविक्रमम परतीक्षामॊ ऽरजुनं वीरं वर्षकामा इवाम्बुदम ॥ 18 ॥
विविधान आश्रमान कांश चिद दविजातिभ्यः परिश्रुतान सरांसि सरितश चैव रमणीयांश च पर्वतान ॥ 19 ॥
आचक्ष्व न हि नॊ बरह्मन रॊचते तम ऋते ऽरजुनम वने ऽसमिन काम्यके वासॊ गच्छामॊ ऽनयां दिशं परति ॥ 20 ॥
वनपर्व · Vana Parva
अध्याय 84
Reach this point to mark the section finished.
Continue to अध्याय 85