धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 83

  1. [पुलस्त्य] अथ संध्यां समासाद्य संवेद्यं तीर्थम उत्तमम उपस्पृश्य नरॊ विद्वान भवेन नास्त्य अत्र संशयः ॥ 1 ॥

  2. रामस्य च परसादेन तीर्थं राजन कृतं पुरा तल लॊहित्यं समासाद्य विन्द्याद बहुसुवर्णकम ॥ 2 ॥

  3. करतॊयां समासाद्य तरिरात्रॊपॊषितॊ नरः अश्वमेधम अवाप्नॊति कृते पैतामहे विधौ ॥ 3 ॥

  4. गङ्गायास तव अथ राजेन्द्र सागरस्य च संगमे अश्वमेधं दशगुणं परवदन्ति मनीषिणः ॥ 4 ॥

  5. गङ्गायास तव अपरं दवीपं पराप्य यः सनाति भारत तरिरात्रॊपॊषितॊ राजन सर्वकामान अवाप्नुयात ॥ 5 ॥

  6. ततॊ वैतरणीं गत्वा नदीं पापप्रमॊचनीम विरजं तीर्थम आसाद्य विराजति यथा शशी ॥ 6 ॥

  7. परभवेच च कुले पुण्ये सर्वपापं वयपॊहति गॊसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ॥ 7 ॥

  8. शॊणस्य जयॊतिरथ्याश च संगमे निवसञ शुचिः तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत ॥ 8 ॥

  9. शॊणस्य नर्मदायाश च परभवे कुरुनन्दन वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत ॥ 9 ॥

  10. ऋषभं तीर्थम आसाद्य कॊशलायां नराधिप वाजपेयम अवाप्नॊति तरिरात्रॊपॊषितॊ नरः ॥ 10 ॥

  11. कॊशलायां समासाद्य कालतीर्थ उपस्पृशेत वृशभैकादश फलं लभते नात्र संशयः ॥ 11 ॥

  12. पुष्पवत्याम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः गॊसहस्रफलं विन्द्यात कुलं चैव समुद्धरेत ॥ 12 ॥

  13. ततॊ बदरिका तीर्थे सनात्वा परयत मानसः दीर्घम आयुर अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 13 ॥

  14. ततॊ महेन्द्रम आसाद्य जामदग्न्य निषेवितम राम तीर्थे नरः सनात्वा वाजिमेधफलं लभेत ॥ 14 ॥

  15. मतङ्गस्य तु केदारस तत्रैव कुरुनन्दन तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत ॥ 15 ॥

  16. शरीपर्वतं समासाद्य नदीतीर उपस्पृशेत अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 16 ॥

  17. शरीपर्वते महादेवॊ देव्या सह महाद्युतिः नयवसत परमप्रीतॊ बरह्मा च तरिदशैर वृतः ॥ 17 ॥

  18. तत्र देव हरदे सनात्वा शुचिः परयत मानसः अश्वमेधम अवाप्नॊति परां सिद्धिं च गच्छति ॥ 18 ॥

  19. ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम वाजपेयम अवाप्नॊति नाकपृष्ठे च मॊदते ॥ 19 ॥

  20. ततॊ गच्छेत कावेरीं वृताम अप्सरसां गणैः तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत ॥ 20 ॥

  21. ततस तीरे समुद्रस्य कन्या तीर्थ उपस्पृशेत तत्रॊपस्पृश्य राजेन्द्र सर्वपापैः परमुच्यते ॥ 21 ॥

  22. अथ गॊकर्णम आसाद्य तरिषु लॊकेषु विश्रुतम समुद्रमध्ये राजेन्द्र सर्वलॊकनमस्कृतम ॥ 22 ॥

  23. यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः भूतयक्षपिशाचाश च किंनराः स महॊरगाः ॥ 23 ॥

  24. सिद्धचारणगन्धर्वा मानुषाः पन्नगास तथा सरितः सागराः शैला उपासन्त उमा पतिम ॥ 24 ॥

  25. तत्रेशानं समभ्यर्च्य तरिरात्रॊपॊषितॊ नरः दशाश्वमेधम आप्नॊति गाणपत्यं च विन्दति उष्य दवादश रात्रं तु कृतात्मा भवते नरः ॥ 25 ॥

  26. तत एव तु गायत्र्याः सथानं तरैलॊक्यविश्रुतम तरिरात्रम उषितस तत्र गॊसहस्रफलं लभेत ॥ 26 ॥

  27. निदर्शनं च परत्यक्षं बराह्मणानां नराधिप गायत्रीं पठते यस तु यॊनिसंकरजस तथा गाथा वा गीतिका वापि तस्य संपद्यते नृप ॥ 27 ॥

  28. संवर्तस्य तु विप्रर्षेर वापीम आसाद्य दुर्लभाम रूपस्य भागी भवति सुभगश चैव जायते ॥ 28 ॥

  29. ततॊ वेण्णां समासाद्य तर्पयेत पितृदेवताः मयूरहंससंयुक्तं विमानं लभते नरः ॥ 29 ॥

  30. ततॊ गॊदावरीं पराप्य नित्यं सिद्धनिषेविताम गवाम अयम अवाप्नॊति वासुकेर लॊकम आप्नुयात ॥ 30 ॥

  31. वेण्णायाः संगमे सनात्वा वाजपेयफलं लभेत वरदा संगमे सनात्वा गॊसहस्रफलं लभेत ॥ 31 ॥

  32. बरह्म सथानं समासाद्य तरिरात्रम उषितॊ नरः गॊसहस्रफलं विन्देत सवर्गलॊकं च गच्छति ॥ 32 ॥

  33. कुशप्लवनम आसाद्य बरह्म चारी समाहितः तरिरात्रम उषितः सनात्वा अश्वमेध फलं लभेत ॥ 33 ॥

  34. ततॊ देव हरदे रम्ये कृष्ण वेण्णा जलॊद्भवे जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ॥ 34 ॥

  35. यत्र करतुशतैर इष्ट्वा देवराजॊ दिवं गतः अग्निष्टॊम शतं विन्देद गमनाद एव भारत ॥ 35 ॥

  36. सर्वदेव हरदे सनात्वा गॊसहस्रफलं लभेत जातिमात्रह्रदे सनात्वा भवेज जातिस्मरॊ नरः ॥ 36 ॥

  37. ततॊ ऽवाप्य महापुण्यां पयॊष्णीं सरितां वराम पितृदेवार्चन रतॊ गॊसहस्रफलं लभेत ॥ 37 ॥

  38. दण्डकारण्यम आसाद्य महाराज उपस्पृशेत गॊसहस्रफलं तत्र सनातमात्रस्य भारत ॥ 38 ॥

  39. शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनाः न दुर्गतिम अवाप्नॊति पुनाति च कुलं नरः ॥ 39 ॥

  40. ततः शूर्पारकं गच्छेज जामदग्न्य निषेवितम राम तीर्थे नरः सनात्वा विन्द्याद बहुसुवर्णकम ॥ 40 ॥

  41. सप्त गॊदावरे सनात्वा नियतॊ नियताशनः महत पुण्यम अवाप्नॊति देवलॊकं च गच्छति ॥ 41 ॥

  42. ततॊ देवपथं गच्छेन नियतॊ नियताशनः देव सत्रस्य यत पुण्यं तद अवाप्नॊति मानवः ॥ 42 ॥

  43. तुङ्गकारण्यम आसाद्य बरह्म चारी जितेन्द्रियः वेदान अध्यापयत तत्र ऋषिः सारस्वतः पुरा ॥ 43 ॥

  44. तत्र वेदान परनष्टांस तु मुनेर अङ्गिरसः सुतः उपविष्टॊ महर्षीणाम उत्तरीयेषु भारत ॥ 44 ॥

  45. ओंकारेण यथान्यायं सम्यग उच्चारितेन च येन यत पूर्वम अभ्यस्तं तत तस्य समुपस्थितम ॥ 45 ॥

  46. ऋषयस तत्र देवाश च वरुणॊ ऽगनिः परजापतिः हरिर नारायणॊ देवॊ महादेवस तथैव च ॥ 46 ॥

  47. पिता महश च भगवान देवैः सह महाद्युतिः भृगुं नियॊजयाम आस याजनार्थे महाद्युतिम ॥ 47 ॥

  48. ततः सचक्रे भगवान ऋषीणां विधिवत तदा सर्वेषां पुनर आधानं विधिदृष्टेन कर्मणा ॥ 48 ॥

  49. आज्यभागेन वै तत्र तर्पितास तु यथाविधि देवास तरिभुवणं याता ऋषयश च यथासुखम ॥ 49 ॥

  50. तद अरण्यं परविष्टस्य तुङ्गकं राजसत्तम पापं परणश्यते सर्वं सत्रियॊ वा पुरुषस्य वा ॥ 50 ॥

  51. तत्र मासं वसेद धीरॊ नियतॊ नियताशनः बरह्मलॊकं वरजेद राजन पुनीते च कुलं नरः ॥ 51 ॥

  52. मेधाविकं समासाद्य पितॄन देवांश च तर्पयेत अग्निष्टॊमम अवाप्नॊति समृतिं मेधां च विन्दति ॥ 52 ॥

  53. ततः कालंजरं गत्वा पर्वतं लॊकविश्रुतम तत्र देव हरदे सनात्वा गॊसहस्रफलं लभेत ॥ 53 ॥

  54. आत्मानं साधयेत तत्र गिरौ कालंजरे नृप सवर्गलॊके महीयेत नरॊ नास्त्य अत्र संशयः ॥ 54 ॥

  55. ततॊ गिरिवरश्रेष्ठे चित्रकूटे विशां पते मन्दाकिनीं समासाद्य नदीं पापप्रमॊचिनीम ॥ 55 ॥

  56. तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः अश्वमेधम अवाप्नॊति गतिं च परमां वरजेत ॥ 56 ॥

  57. ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम यत्र देवॊ महासेनॊ नित्यं संनिहितॊ नृपः ॥ 57 ॥

  58. पुमांस तत्र नरश्रेष्ठ गमनाद एव सिध्यति कॊटितीर्थे नरः सनात्वा गॊसहस्रफलं लभेत ॥ 58 ॥

  59. परदक्षिणम उपावृत्य जयेष्ठस्थानं वरजेन नरः अभिगम्य महादेवं विराजति यथा शशी ॥ 59 ॥

  60. तत्र कूपॊ महाराज विश्रुतॊ भरतर्षभ समुद्रास तत्र चत्वारॊ निवसन्ति युधिष्ठिर ॥ 60 ॥

  61. तत्रॊपस्पृश्य राजेन्द्र कृत्वा चापि परदक्षिणम नियतात्मा नरः पूतॊ गच्छेत परमां गतिम ॥ 61 ॥

  62. ततॊ गच्छेत कुरुश्रेष्ठ शृङ्गवेर पुरं महत यत्र तीर्णॊ महाराज रामॊ दाशरथिः पुरा ॥ 62 ॥

  63. गङ्गायां तु नरः सनात्वा बरह्म चारी समाहितः विधूतपाप्मा भवति वाजपेयं च विन्दति ॥ 63 ॥

  64. अभिगम्य महादेवम अभ्यर्च्य च नराधिप परदक्षिणम उपावृत्य गाणपत्यम अवाप्नुयात ॥ 64 ॥

  65. ततॊ गच्छेत राजेन्द्र परयागम ऋषिसंस्तुतम यत्र बरह्मादयॊ देवा दिशश च स दिग ईश्वराः ॥ 65 ॥

  66. लॊकपालाश च साध्याश च नैरृताः पितरस तथा सनत कुमार परमुखास तथैव परमर्षयः ॥ 66 ॥

  67. अङ्गिरः परमुखाश चैव तथा बरह्मर्षयॊ ऽपरे तथा नागाः सुपर्णाश च सिद्धाश चक्रचरास तथा ॥ 67 ॥

  68. सरितः सागराश चैव गन्धर्वाप्सरसस तथा हरिश च भगवान आस्ते परजापतिपुरस्कृतः ॥ 68 ॥

  69. तत्र तरीण्य अग्निकुण्डानि येषां मध्ये च जाह्नवी परयागाद अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥ 69 ॥

  70. तपनस्य सुता तत्र तरिषु लॊकेषु विश्रुता यमुना गङ्गया सार्धं संगता लॊकपावनी ॥ 70 ॥

  71. गङ्गायमुनयॊर मद्यं पृथिव्या जघनं समृतम परयागं जघनस्यान्तम उपस्थम ऋषयॊ विदुः ॥ 71 ॥

  72. परयागं स परतिष्ठानं कम्बलाश्वतरौ तथा तीर्थं भॊगवती चैव वेदी परॊक्ता परजापतेः ॥ 72 ॥

  73. तत्र वेदाश च यज्ञाश च मूर्तिमन्तॊ युधिष्ठिर परजापतिम उपासन्ते ऋषयश च महाव्रताः यजन्ते करतुभिर देवास तथा चक्रचरा नृप ॥ 73 ॥

  74. ततः पुण्यतमं नास्ति तरिषु लॊकेषु भारत परयागः सर्वतीर्थेभ्यः परभवत्य अधिकं विभॊ ॥ 74 ॥

  75. शरवणात तस्य तीर्थस्य नाम संकीर्तनाद अपि मृत्तिका लम्भनाद वापि नरः पापात परमुच्यते ॥ 75 ॥

  76. तत्राभिषेकं यः कुर्यात संगमे संशितव्रतः पुण्यं सफलम आप्नॊति राजसूयाश्वमेधयॊः ॥ 76 ॥

  77. एषा यजन भूमिर हि देवानाम अपि सत्कृता तत्र दत्तं सूक्ष्मम अपि महद भवति भारत ॥ 77 ॥

  78. न वेद वचनात तात न लॊकवचनाद अपि मतिर उत्क्रमणीया ते परयागमरणं परति ॥ 78 ॥

  79. दश तीर्थसहस्राणि षष्टिकॊट्त्यस तथापराः येषां सांनिध्यम अत्रैव कीर्तितं कुरुनन्दन ॥ 79 ॥

  80. चातुर्वेदे च यत पुण्यं सत्यवादिषु चैव यत सनात एव तदाप्नॊति गङ्गा यमुन संगमे ॥ 80 ॥

  81. तत्र भॊगवती नाम वासुकेस तीर्थम उत्तमम तत्राभिषेकं यः कुर्यात सॊ ऽशवमेधम अवाप्नुयात ॥ 81 ॥

  82. तत्र हंसप्रपतनं तीर्थं तरैलॊक्यविश्रुतम दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ 82 ॥

  83. यत्र गङ्गा महाराज स देशस तत तपॊवनम सिद्धक्षेत्रं तु तज जञेयं गङ्गातीरसमाश्रितम ॥ 83 ॥

  84. इदं सत्यं दविजातीनां साधूनाम आत्मजस्य च सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य च ॥ 84 ॥

  85. इदं धर्म्यम इदं पुण्यम इदं मेध्यम इदं सुखम इदं सवर्ग्यम इदं रम्यम इदं पावनम उत्तमम ॥ 85 ॥

  86. महर्षीणाम इदं गुह्यं सर्पपापप्रमॊचनम अधीत्य दविजमध्ये च निर्मलत्वम अवाप्नुयात ॥ 86 ॥

  87. यश चेदं शृणुयान नित्यं तीर्थपुण्यं सदा शुचिः जातीः स समरते बह्वीर नाकपृष्ठे च मॊदते ॥ 87 ॥

  88. गम्यान्य अपि च तीर्थानि कीर्तितान्य अगमानि च मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥ 88 ॥

  89. एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः ऋषिभिर देवकल्पैश च शरितानि सुकृतैषिभिः ॥ 89 ॥

  90. एवं तवम अपि कौरव्य विधिनानेन सुव्रत वरज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥ 90 ॥

  91. भावितैः कारणैः पूर्वम आस्तिक्याच छरुति दर्शनात पराप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ॥ 91 ॥

  92. नाव्रतॊ नाकृतात्मा च नाशुचिर न च तस्करः सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः ॥ 92 ॥

  93. तवया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना पितरस तारितास तात सर्वे च परपिता महाः ॥ 93 ॥

  94. पिता मह पुरॊगाश च देवाः सर्षिगणा नृप तव धर्मेण धर्मज्ञ नित्यम एवाभितॊषिताः ॥ 94 ॥

  95. अवाप्स्यसि च लॊकान वै वसूनां वासवॊपम कीर्तिं च महतीं भीष्म पराप्स्यसे भुवि शाश्वतीम ॥ 95 ॥

  96. [नारद] एवम उक्त्वाभ्यनुज्ञाप्य पुलस्त्यॊ भगवान ऋषिः परीतः परीतेन मनसा तत्रैवान्तरधीयते ॥ 96 ॥

  97. भीष्मश च कुरुशार्दूल शास्त्रतत्त्वार्थ दर्शिवान पुलस्त्यवचनाच चैव पृथिवीम अनुचक्रमे ॥ 97 ॥

  98. अनेन विधिना यस तु पृथिवीं संचरिष्यति अश्वमेध शतस्याग्र्यं फलं परेत्य स भॊक्ष्यते ॥ 98 ॥

  99. अतश चाष्ट गुणं पार्थ पराप्स्यसे धर्मम उत्तमम नेता च तवम ऋषीन यस्मात तेन ते ऽषट गुणं फलम ॥ 99 ॥

  100. रक्षॊगणावकीर्णानि तीर्थान्य एतानि भारत न गतिर विद्यते ऽनयस्य तवाम ऋते कुरुनन्दन ॥ 100 ॥

  101. इदं देवर्षिचरितं सर्वतीर्थार्थ संश्रितम यः पठेत कल्यम उत्थाय सर्वपापैः परमुच्यते ॥ 101 ॥

  102. ऋषिमुख्याः सदा यत्र वाल्मीकिस तव अथ काश्यपः आत्रेयस तव अथ कौण्डिन्यॊ विश्वा मित्रॊ ऽथ गौतमः ॥ 102 ॥

  103. असितॊ देवलश चैव मार्कण्डेयॊ ऽथ गालवः भरद वाजॊ वसिष्ठश च मुनिर उद्दालकस तथा ॥ 103 ॥

  104. शौनकः सह पुत्रेण वयासश च जपतां वरः दुर्वासाश च मुनिश्रेष्ठॊ गालवश च महातपः ॥ 104 ॥

  105. एते ऋषिवराः सर्वे तवत्प्रतीक्षास तपॊधनाः एभिः सह महाराज तीर्थान्य एतान्य अनुव्रज ॥ 105 ॥

  106. एष वै लॊमशॊ नाम देवर्षिर अमितद्युतिः समेष्यति तवया चैव तेन सार्धम अनुव्रज ॥ 106 ॥

  107. मया च सहधर्मज्ञ तीर्थान्य एतान्य अनुव्रज पराप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ॥ 107 ॥

  108. यथा ययातिर धर्मात्मा यथा राजा पुरूरवः तथा तवं कुरुशार्दूल सवेन धर्मेण शॊभसे ॥ 108 ॥

  109. यथा भगीरथॊ राजा यथा रामश च विश्रुतः तथा तवं सर्वराजभ्यॊ भराजसे रश्मिवान इव ॥ 109 ॥

  110. यथा मनुर यथेक्ष्वाकुर यथा पूरुर महायशाः यथा वैन्यॊ महातेजास तथा तवम अपि विश्रुतः ॥ 110 ॥

  111. यथा च वृत्रहा सर्वान सपत्नान निर्दहत पुरा तथा शत्रुक्षयं कृत्वा परजास तवं पालयिष्यसि ॥ 111 ॥

  112. सवधर्मविजिताम उर्वीं पराप्य राजीवलॊचन खयातिं यास्यसि धर्मेण कार्तवीर्यार्जुनॊ यथा ॥ 112 ॥

  113. [व] एवम आश्वास्य राजानं नारदॊ भगवान ऋषिः अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ॥ 113 ॥

  114. युधिष्ठिरॊ ऽपि धर्मात्मा तम एवार्थं विचिन्तयन तीर्थयात्राश्रयं पुण्यम ऋषीणां परत्यवेदयत ॥ 114 ॥

Reach this point to mark the section finished.

Continue to अध्याय 84

Previous: अध्याय 82