धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 82

  1. [पुलस्त्य] ततॊ गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम तत्र सनात्वा नरॊ राजन धर्मशीलः समाहितः आ सप्तमं कुलं राजन पुनीते नात्र संशयः ॥ 1 ॥

  2. ततॊ गच्छेत धर्मज्ञ कारा पतनम उत्तमम अग्निष्टॊमम अवाप्नॊति मुनिलॊकं च गच्छति ॥ 2 ॥

  3. सौगन्धिकं वनं राजंस ततॊ गच्छेत मानवः यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः ॥ 3 ॥

  4. सिद्धचारणगन्धर्वाः किंनराः स महॊरगाः तद वनं परविशन्न एव सर्वपापैः परमुच्यते ॥ 4 ॥

  5. ततॊ हि सा सरिच्छ्रेष्ठा नदीनाम उत्तमा नदी पलक्षाद देवी सरुता राजन महापुण्या सरस्वती ॥ 5 ॥

  6. तत्राभिषेकं कुर्वीत वल्मीकान निःसृते जले अर्चयित्वा पितॄन देवान अश्वमेध फलं लभेत ॥ 6 ॥

  7. ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम षट्सु शम्या निपातेषु वल्मीकाद इति निश्चयः ॥ 7 ॥

  8. कपिलानां सहस्रं च वाजिमेधं च विन्दति तत्र सनात्वा नरव्याघ्र दृष्टम एतत पुरातने ॥ 8 ॥

  9. सुगन्धां शतकुम्भां च पञ्च यज्ञां च भारत अभिगम्य नरश्रेष्ठ सवर्गलॊके महीयते ॥ 9 ॥

  10. तरिशूलखातं तत्रैव तीर्थम आसाद्य भारत तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः गाणपत्यं स लभते देहं तयक्त्वा न संशयः ॥ 10 ॥

  11. ततॊ गच्छेत राजेन्द्र देव्याः सथानं सुदुर्लभम शाकम्भरीति विख्याता तरिषु लॊकेषु विश्रुता ॥ 11 ॥

  12. दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत आहारं सा कृतवती मासि मासि नराधिप ॥ 12 ॥

  13. ऋषयॊ ऽभयागतास तत्र देव्या भक्त्या तपॊधनाः आतिथ्यं च कृतं तेषां शाकेन किल भारत ततः शाकम्भरीत्य एव नाम तस्याः परतिष्ठितम ॥ 13 ॥

  14. शाकम्भरीं समासाद्य बरह्म चारी समाहितः तरिरात्रम उषितः शाकं भक्षयेन नियतः शुचिः ॥ 14 ॥

  15. शाकाहारस्य यत सम्यग वर्षैर दवादशभिः फलम तत फलं तस्य भवति देव्याश छन्देन भारत ॥ 15 ॥

  16. ततॊ गच्छेत सुवर्णाक्षं तरिषु लॊकेषु विश्रुतम यत्र विष्णुः परसादार्थं रुद्रम आराधयत पुरा ॥ 16 ॥

  17. वरांश च सुबहूँल लेभे दैवतेषु सुदुर्लभान उक्तश च तरिपुरघ्नेन परितुष्टेन भारत ॥ 17 ॥

  18. अपि चास्मत परियतरॊ लॊके कृष्ण भविष्यसि तवन मुखं च जगत कृत्स्नं भविष्यति न संशयः ॥ 18 ॥

  19. तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम अश्वमेधम अवाप्नॊति गाणपत्यं च विन्दति ॥ 19 ॥

  20. धूमावतीं ततॊ गच्छेत तरिरत्रॊपॊषितॊ नरः मनसा परार्थितान कामाँल लभते नात्र संशयः ॥ 20 ॥

  21. देव्यास तु दक्षिणार्धेन रथावर्तॊ नराधिप तत्रारॊहेत धर्मज्ञ शरदधानॊ जितेन्द्रियः महादेव परसादाद धि गच्छेत परमं गतिम ॥ 21 ॥

  22. परदक्षिणम उपावृत्य गच्छेत भरतर्षभ धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम तत्र सनात्वा नरव्याघ्र न शॊचति नराधिप ॥ 22 ॥

  23. ततॊ गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम सवर्गद्वारेण यत तुल्यं गङ्गा दवारं न संशयः ॥ 23 ॥

  24. तत्राभिषेकं कुर्वीत कॊटितीर्थे समाहितः पुण्डरीकम अवाप्नॊति कुलं चैव समुद्धरेत ॥ 24 ॥

  25. सप्त गङ्गे तरिगङ्गे च शक्रावर्ते च तर्पयन देवान पितॄंश च विधिवत पुण्यलॊके महीयते ॥ 25 ॥

  26. ततः कनखले सनात्वा तरिरात्रॊपॊषितॊ नरः अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 26 ॥

  27. कपिला वटं च गच्छेत तीर्थसेवी नराधिप उष्यैकां रजनीं तत्र गॊसहस्रफलं लभेत ॥ 27 ॥

  28. नागराजस्य राजेन्द्र कपिलस्य महात्मनाः तीर्थं कुरु वरश्रेष्ठ सर्वलॊकेषु विश्रुतम ॥ 28 ॥

  29. तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप कपिलानां सहस्रस्य फलं पराप्नॊति मानवः ॥ 29 ॥

  30. ततॊ ललितिकां गच्छेच छंतनॊर तीर्थम उत्तमम तत्र सनात्वा नरॊ राजन न दुर्गतिम अवाप्नुयात ॥ 30 ॥

  31. गङ्गा संगमयॊश चैव सनाति यः संगमे नरः दशाश्वमेधान आप्नॊति कुलं चैव समुद्धरेत ॥ 31 ॥

  32. ततॊ गच्छेत राजेन्द्र सुगन्धां लॊकविश्रुताम सर्वपापविशुद्धात्मा बरह्मलॊके महीयते ॥ 32 ॥

  33. रुद्रावर्तं ततॊ गच्छेत तीर्थसेवी नराधिप तत्र सनात्वा नरॊ राजन सवर्गलॊके महीयते ॥ 33 ॥

  34. गङ्गायाश च नरश्रेष्ठ सरस्वत्याश च संगमे सनातॊ ऽशवमेधम आप्नॊति सवर्गलॊकं च गच्छति ॥ 34 ॥

  35. भद्र कर्णेश्वरं गत्वा देवम अर्च्य यथाविधि न दुर्गतिम अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 35 ॥

  36. ततः कुब्जाम्रकं गच्छेत तीर्थसेवी यथाक्रमम गॊसहस्रम अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 36 ॥

  37. अरुन्धती वटं गच्छेत तीर्थसेवी नराधिप सामुद्रकम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः गॊसहस्रफलं विन्देत कुलं चैव समुद्धरेत ॥ 37 ॥

  38. बरह्मावर्तं ततॊ गच्छेद बरह्म चारी समाहितः अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 38 ॥

  39. यमुना परभवं गत्वा उपस्पृश्य च यामुने अश्वमेध फलं लब्ध्वा सवर्गलॊके महीयते ॥ 39 ॥

  40. दर्वी संक्रमणं पराप्य तीर्थं तरैलॊक्यविश्रुतम अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 40 ॥

  41. सिन्धॊर च परभवं गत्वा सिद्धगन्धर्वसेवितम तत्रॊष्य रजनीः पञ्च विन्द्याद बहुसुवर्णकम ॥ 41 ॥

  42. अथ वेदीं समासाद्य नरः परमदुर्गमाम अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम ॥ 42 ॥

  43. ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत वासिष्ठं समतिक्रम्य सर्वे वर्णा दविजातयः ॥ 43 ॥

  44. ऋषिकुल्यां नरः सनात्वा ऋषिलॊकं परपद्यते यदि तत्र वसेन मासं शाकाहारॊ नराधिप ॥ 44 ॥

  45. भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत गत्वा वीर परमॊक्षं च सर्वपापैः परमुच्यते ॥ 45 ॥

  46. कृत्तिका मघयॊश चैव तीर्थम आसाद्य भारत अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति पुण्यकृत ॥ 46 ॥

  47. ततः संध्यां समासाद्य विद्या तीर्थम अनुत्तमम उपस्पृश्य च विद्यानां सर्वासां पारगॊ भवेत ॥ 47 ॥

  48. महाश्रमे वसेद रात्रिं सर्वपापप्रमॊचने एककालं निराहारॊ लॊकान आवसते शुभान ॥ 48 ॥

  49. षष्ठ कालॊपवासेन मासम उष्य महालये सर्वपापविशुद्धात्मा विन्द्याद बहुसुवर्णकम ॥ 49 ॥

  50. अथ वेतसिकां गत्वा पिता मह निषेविताम अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम ॥ 50 ॥

  51. अथ सुन्दरिका तीर्थं पराप्य सिद्धनिषेवितम रूपस्य भागी भवति दृष्टम एतत पुरातने ॥ 51 ॥

  52. ततॊ वै बराह्मणीं गत्वा बरह्म चारी जितेन्द्रियः पद्मवर्णेन यानेन बरह्मलॊकं परपद्यते ॥ 52 ॥

  53. ततश च नैमिषं गच्छेत पुण्यं सिद्धनिषेवितम तत्र नित्यं निवसति बरह्मा देवगणैर वृतः ॥ 53 ॥

  54. नैमिषं परार्थयानस्य पापस्यार्धं परणश्यति परविष्टमात्रस तु नरः सर्वपापैः परमुच्यते ॥ 54 ॥

  55. तत्र मासं वसेद धीरॊ नैमिषे तीर्थतत्परः पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत ॥ 55 ॥

  56. अभिषेककृतस तत्र नियतॊ नियताशनः गवामयस्य यज्ञस्य फलं पराप्नॊति भारत पुनात्य आ सप्तमं चैव कुलं भरतसत्तम ॥ 56 ॥

  57. यस तयजेन नैमिषे पराणान उपवासपरायणः स मॊदेत सवर्गलॊकस्थ एवम आहुर मनीषिणः नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम ॥ 57 ॥

  58. गङ्गॊद्भेदं समासाद्य तरिरात्रॊपॊषितॊ नरः वाजपेयम अवाप्नॊति बरह्मभूतश च जायते ॥ 58 ॥

  59. सरस्वतीं समासाद्य तर्पयेत पितृदेवताः सारस्वतेषु लॊकेषु मॊदते नात्र संशयः ॥ 59 ॥

  60. ततश च बाहुदां गच्छेद बरह्म चारी समाहितः देव सत्रस्य यज्ञस्य फलं पराप्नॊति मानवः ॥ 60 ॥

  61. ततश चीरवतीं गच्छेत पुण्यां पुण्यतमैर वृताम पितृदेवार्चन रतॊ वाजपेयम अवाप्नुयात ॥ 61 ॥

  62. विमलाशॊकम आसाद्य विराजति यथा शशी तत्रॊष्य रजनीम एकां सवर्गलॊके महीयते ॥ 62 ॥

  63. गॊप्रतारं ततॊ गच्छेत सरय्वास तीर्थम उत्तमम यत्र रामॊ गतः सवर्गं स भृत्यबलवाहनः ॥ 63 ॥

  64. देहं तयक्त्वा दिवं यातस तस्य तीर्थस्य तेजसा रामस्य च परसादेन वयवसायाच च भारत ॥ 64 ॥

  65. तस्मिंस तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन सर्वपापविशुद्धात्मा सवर्गलॊके महीयते ॥ 65 ॥

  66. राम तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन अश्वमेधम अवाप्नॊति पुनाति च कुलं नरः ॥ 66 ॥

  67. शतसाहस्रिकं तत्र तीर्थं भरतसत्तम तत्रॊपस्पर्शनं कृत्वा नियतॊ नियताशनः गॊसहस्रफलं पुण्यं पराप्नॊति भरतर्षभ ॥ 67 ॥

  68. ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम कॊटितीर्थे नरः सनात्वा अर्चयित्वा गुहं नृप गॊसहस्रफलं विन्देत तेजस्वी च भवेन नरः ॥ 68 ॥

  69. ततॊ वाराणसीं गत्वा अर्चयित्वा वृषध्वजम कपिला हरदे नरः सनात्वा राजसूय फलं लभेत ॥ 69 ॥

  70. मार्कण्डेयस्य राजेन्द्र तीर्थम आसाद्य दुर्लभम गॊमती गङ्गयॊश चैव संगमे लॊकविश्रुते अग्निष्टॊमम अवाप्नॊति कुलं चैव समुद्धरेत ॥ 70 ॥

  71. ततॊ गयां समासाद्य बरह्म चारी जितेन्द्रियः अश्वमेधम अवाप्नॊति गमनाद एव भारत ॥ 71 ॥

  72. तत्राक्षयवतॊ नाम तरिषु लॊकेषु विश्रुतः पितॄणां तत्र वै दत्तम अक्षयं भवति परभॊ ॥ 72 ॥

  73. महानद्याम उपस्पृश्य तर्पयेत पितृदेवताः अक्षयान पराप्नुयाल लॊकान कुलं चैव समुद्धरेत ॥ 73 ॥

  74. ततॊ बरह्मसरॊ गच्छेद धर्मारण्यॊपशॊभितम पौण्डरीकम अवाप्नॊति परभाताम एव शर्वरीम ॥ 74 ॥

  75. तस्मिन सरसि राजेन्द्र बरह्मणॊ यूप उच्छ्रितः यूपं परदक्षिणं कृत्वा वाजपेयफलं लभेत ॥ 75 ॥

  76. ततॊ गच्छेत राजेन्द्र धेनुकां लॊकविश्रुताम एकरत्रॊषितॊ राजन परयच्छेत तिलधेनुकाम सर्वपापविशुद्धात्मा सॊमलॊकं वरजेद धरुवम ॥ 76 ॥

  77. तत्र चिह्नं महाराज अद्यापि हि न संशयः कपिला सह वत्सेन पर्वते विचरत्य उत स वत्सायाः पदानि सम दृश्यन्ते ऽदयापि भारत ॥ 77 ॥

  78. तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम यत किं चिद अशुभं कर्म तत परणश्यति भारत ॥ 78 ॥

  79. ततॊ गृध्रवटं गच्छेत सथानं देवस्य धीमतः सनायीत भस्मना तत्र अभिगम्य वृषध्वजम ॥ 79 ॥

  80. बराह्मणेन भवेच चीर्णं वरतं दवादश वार्षिकम इतरेषां तु वर्णानां सर्वपापं परणश्यति ॥ 80 ॥

  81. गच्छेत तत उद्यन्तं पर्वतं गीतनादितम सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ 81 ॥

  82. तत्र संध्याम उपासीत बराह्मणः संशितव्रतः उपास्ता च भवेत संध्या तेन दवादश वार्षिकी ॥ 82 ॥

  83. यॊनिद्वारं च तत्रैव विश्रुतं भरतर्षभ तत्राभिगम्य मुच्येत पुरुषॊ यॊनिसंकरात ॥ 83 ॥

  84. कृष्ण शुक्लाव उभौ पक्षौ गयायां यॊ वसेन नरः पुनात्य आ सप्तमं राजन कुलं नास्त्य अत्र संशयः ॥ 84 ॥

  85. एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत यजेत वाश्वमेधेन नीलं वा वृषम उत्सृजेत ॥ 85 ॥

  86. ततः फल्गुं वरजेद राजंस तीर्थसेवी नराधिप अश्वमेधम अवाप्नॊति सिद्धिं च महतीं वरजेत ॥ 86 ॥

  87. ततॊ गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः यत्र धर्मॊ महाराज नित्यम आस्ते युधिष्ठिर अभिगम्य ततस तत्र वाजिमेधफलं लभेत ॥ 87 ॥

  88. ततॊ गच्छेत राजेन्द्र बरह्मणस तीर्थम उत्तमम तत्रार्चयित्वा राजेन्द्र बरह्माणम अमितौजसम राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः ॥ 88 ॥

  89. ततॊ राजगृहं गच्छेत तीर्थसेवी नराधिप उपस्पृश्य तपॊदेषु काक्षीवान इव मॊदते ॥ 89 ॥

  90. यक्षिण्या नैत्यकं तत्र पराश्नीत पुरुषः शुचिः यक्षिण्यास तु परसादेन मुच्यते भरूण हत्यया ॥ 90 ॥

  91. मणिनागं ततॊ गत्वा गॊसहस्रफलं लभेत नैत्यकं भुञ्जते यस तु मणिनागस्य मानवः ॥ 91 ॥

  92. दष्टस्याशीविषेणापि न तस्य करमते विषम तत्रॊष्य रजनीम एकां सर्वपापैः परमुच्यते ॥ 92 ॥

  93. ततॊ गच्छेत बरह्मर्षेर गौतमस्य वनं नृप अहल्याया हलदे सनात्वा वरजेत परमां गतिम अभिगम्य शरियं राजन विन्दते शरियम उत्तमाम ॥ 93 ॥

  94. तत्रॊद पानॊ धर्मज्ञ तरिषु लॊकेषु विश्रुतः तत्राभिषेकं कृत्वा तु वाजिमेधम अवाप्नुयात ॥ 94 ॥

  95. जनकस्य तु राजर्षेः कूपस तरिदशपूजितः तत्राभिषेकं कृत्वा तु विष्णुलॊकम अवाप्नुयात ॥ 95 ॥

  96. ततॊ विनशनं गच्छेत सर्वपापप्रमॊचनम वाजपेयम अवाप्नॊति सॊमलॊकं च गच्छति ॥ 96 ॥

  97. गण्डकीं तु समासाद्य सर्वतीर्थजलॊद्भवाम वाजपेयम अवाप्नॊति सूर्यलॊकं च गच्छति ॥ 97 ॥

  98. ततॊ ऽधिवंश्यं धर्मज्ञ समाविश्य तपॊवनम गुह्यकेषु महाराज मॊदते नात्र संशयः ॥ 98 ॥

  99. कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम पुण्डरीकम अवाप्नॊति सूर्यलॊकं च गच्छति ॥ 99 ॥

  100. ततॊ विशालाम आसाद्य नदीं तरैलॊक्यविश्रुताम अग्निष्टॊमम अवाप्नॊति सवर्गलॊकं च गच्छति ॥ 100 ॥

  101. अथ माहेश्वरीं धारां समासाद्य नराधिप अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत ॥ 101 ॥

  102. दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति ॥ 102 ॥

  103. महेश्वर पदं गच्छेद बरह्म चारी समाहितः महेश्वर पदे सनात्वा वाजिमेधफलं लभेत ॥ 103 ॥

  104. तत्र कॊटिस तु तीर्थानां विश्रुता भरतर्षभ कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना हरियमाणाहृता राजन विष्णुना परभ विष्णुना ॥ 104 ॥

  105. तत्राभिषेकं कुर्वाणस तीर्थकॊट्यां युधिष्ठिर पुण्डरीकम अवाप्नॊति विष्णुलॊकं च गच्छति ॥ 105 ॥

  106. ततॊ गच्छेत राजेन्द्र सथानं नारायणस्य तु सदा संनिहितॊ यत्र हरिर वसति भारत शालग्राम इति खयातॊ विष्णॊर अद्भुतकर्मणः ॥ 106 ॥

  107. अभिगम्य तरिलॊकेशं वरदं विष्णुम अव्ययम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति ॥ 107 ॥

  108. तत्रॊद पानॊ धर्मज्ञ सर्वपापप्रमॊचनः समुद्रास तत्र चत्वारः कूपे संनिहिताः सदा तत्रॊपस्पृश्य राजेन्द्र न दुर्गतिम अवाप्नुयात ॥ 108 ॥

  109. अभिगम्य महादेवं वरदं विष्णुम अव्ययम विराजति यथा सॊम ऋणैर मुक्तॊ युधिष्ठिर ॥ 109 ॥

  110. जातिस्मर उपस्पृश्य शुचिः परयत मानसः जातिस्मरत्वं पराप्नॊति सनात्वा तत्र न संशयः ॥ 110 ॥

  111. वटेश्वर पुरं गत्वा अर्चयित्वा तु केशवम ईप्सिताँल लभते कामान उपवासान न संशयः ॥ 111 ॥

  112. ततस तु वामनं गत्वा सर्वपापप्रमॊचनम अभिवाद्य हरिं देवं न दुर्गतिम अवाप्नुयात ॥ 112 ॥

  113. भरतस्याश्रमं गत्वा सर्वपापप्रमॊचनम कौशिकीं तत्र सेवेत महापातक नाशिनीम राजसूयस्य यज्ञस्य फलं पराप्नॊति मानवः ॥ 113 ॥

  114. ततॊ गच्छेत धर्मज्ञ चम्पकारण्यम उत्तमम तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत ॥ 114 ॥

  115. अथ जयेष्ठिलम आसाद्य तीर्थं परमसंमतम उपॊष्य रजनीम एकाम अग्निष्टॊम फलं लभेत ॥ 115 ॥

  116. तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम मित्रा वरुणयॊर लॊकान आप्नॊति पुरुषर्षभ ॥ 116 ॥

  117. कन्या संवेद्यम आसाद्य नियतॊ नियताशनः मनॊः परजापतेर लॊकान आप्नॊति भरतर्षभ ॥ 117 ॥

  118. कन्यायां ये परयच्छन्ति पानम अन्नं च भारत तद अक्षयम इति पराहुर ऋषयः संशितव्रताः ॥ 118 ॥

  119. निश्चीरां च समासाद्य तरिषु लॊकेषु विश्रुताम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति ॥ 119 ॥

  120. ये तु दानं परयच्छन्ति निश्चीरा संगमे नराः ते यान्ति नरशार्दूल बरह्मलॊकं न संशयः ॥ 120 ॥

  121. तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः तत्राभिषेकं कुर्वाणॊ वाजपेयम अवाप्नुयात ॥ 121 ॥

  122. देवकूटं समासाद्य बरह्मर्षिगणसेवितम अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत ॥ 122 ॥

  123. ततॊ गच्छेत राजेन्द्र कौशिकस्य मुनेर हरदम यत्र सिद्धिं परां पराप्तॊ विश्वा मित्रॊ ऽथ कौशिकः ॥ 123 ॥

  124. तत्र मासं वसेद वीर कौशिक्यां भरतर्षभ अश्वमेधस्य यत पुण्यं तन मासेनाधिगच्छति ॥ 124 ॥

  125. सर्वतीर्थवरे चैव यॊ वसेत महाह्रदे न दुर्गतिम अवाप्नॊति विन्देद बहुसुवर्णकम ॥ 125 ॥

  126. कुमारम अभिगत्वा च वीराश्रमनिवासिनम अश्वमेधम अवाप्नॊति नरॊ नास्त्य अत्र संशयः ॥ 126 ॥

  127. अग्निधारां समासाद्य तरिषु लॊकेषु विश्रुताम अग्निष्टॊमम अवाप्नॊति न च सवर्गान निवर्तते ॥ 127 ॥

  128. पिता मह सरॊ गत्वा शैलराजप्रतिष्ठितम तत्राभिषेकं कुर्वाणॊ अग्निष्टॊम फलं लभेत ॥ 128 ॥

  129. पिता महस्य सरसः परस्रुता लॊकपावनी कुमार धारा तत्रैव तरिषु लॊकेषु विश्रुता ॥ 129 ॥

  130. यत्र सनात्वा कृतार्थॊ ऽसमीत्य आत्मानम अवगच्छति षष्ठ कालॊपवासेन मुच्यते बरह्महत्यया ॥ 130 ॥

  131. शिखरं वै महादेव्या गौर्यास तरैलॊक्यविश्रुतम समारुह्य नरः शराद्धः सतनकुण्डेषु संविशेत ॥ 131 ॥

  132. तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः हयमेधम अवाप्नॊति शक्र लॊकं च गच्छति ॥ 132 ॥

  133. ताम्रारुणं समासाद्य बरह्म चारी समाहितः अश्वमेधम अवाप्नॊति शक्र लॊकं च गच्छति ॥ 133 ॥

  134. नन्दिन्यां च समासाद्य कूपं तरिदशसेवितम नरमेधस्य यत पुण्यं तत पराप्नॊति कुरूद्वह ॥ 134 ॥

  135. कालिका संगमे सनात्वा कौशिक्यारुणयॊर यतः तरिरात्रॊपॊषितॊ विद्वान सर्वपापैः परमुच्यते ॥ 135 ॥

  136. उर्वशी तीर्थम आसाद्य ततः सॊमाश्रमं बुधः कुम्भकर्णाश्रमे सनात्वा पूज्यते भुवि मानवः ॥ 136 ॥

  137. सनात्वा कॊका मुखे पुण्ये बरह्म चारी यतव्रतः जातिस्मरत्वं पराप्नॊति दृष्टम एतत पुरातने ॥ 137 ॥

  138. सकृन नन्दां समासाद्य कृतात्मा भवति दविजः सर्वपापविशुद्धात्मा शक्र लॊकं च गच्छति ॥ 138 ॥

  139. ऋषभद्वीपम आसाद्य सेव्यं करौञ्चनिषूदनम सरस्वत्याम उपस्पृश्य विमानस्थॊ विराजते ॥ 139 ॥

  140. औद्दालकं महाराज तीर्थं मुनिनिषेवितम तत्राभिषेकं कुर्वीत सर्वपापैः परमुच्यते ॥ 140 ॥

  141. धर्मतीर्थं समासाद्य पुण्यं बरह्मर्षिसेवितम वाजपेयम अवाप्नॊति नरॊ नास्त्य अत्र संशयः ॥ 141 ॥

  142. तथा चम्पां समासाद्य भागीरथ्यां कृतॊदकः दण्डार्कम अभिगम्यैव गॊसहस्रफलं लभेत ॥ 142 ॥

  143. लवेडिकां ततॊ गच्छेत पुण्यां पुण्यॊपसेविताम वाजपेयम अवाप्नॊति विमानस्थश च पूज्यते ॥ 143 ॥

Reach this point to mark the section finished.

Continue to अध्याय 83

Previous: अध्याय 81