[पुलस्त्य] ततॊ गच्छेत राजेन्द्र कुरुक्षेत्रम अभिष्टुतम पापेभ्यॊ विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ 1 ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम य एवं सततं बरूयात सॊ ऽपि पापैः परमुच्यते ॥ 2 ॥
अत्र मासं वसेद वीर सरस्वत्यां युधिष्ठिर यत्र बरह्मादयॊ देव ऋषयः सिद्धचारणाः ॥ 3 ॥
गन्धर्वाप्सरसॊ यक्षाः पन्नगाश च महीपते बरह्म कषेत्रं महापुण्यम अभिगच्छन्ति भारत ॥ 4 ॥
मनसाप्य अभिकामस्य कुरुक्षेत्रं युधिष्ठिर पापाणि विप्रणश्यन्ति बरह्मलॊकं च गच्छति ॥ 5 ॥
गत्वा हि शरद्धया युक्तः कुरुक्षेत्रं कुरूद्वह राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः ॥ 6 ॥
ततॊ मचक्रुकं राजन दवारपालं महाबलम यक्षं समभिवाद्यैव गॊसहस्रफलं लभेत ॥ 7 ॥
ततॊ गच्छेत धर्मज्ञ विष्णॊर सथानम अनुत्तमम सततं नाम राजेन्द्र यत्र संनिहितॊ हरिः ॥ 8 ॥
तत्र सनात्वार्चयित्वा च तरिलॊकप्रभवं हरिम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति ॥ 9 ॥
ततः पारिप्लवं गच्छेत तीर्थं तरैलॊक्यविश्रुतम अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः ॥ 10 ॥
पृथिव्यास तीर्थम आसाद्य गॊसहस्रफलं लभेत ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप दशाश्वमेधिके सनात्वा तद एव लभते फलम ॥ 11 ॥
सर्पदर्वीं समासाद्य नागानां तीर्थम उत्तमम अग्निष्टॊमम अवाप्नॊति नागलॊकं च विन्दति ॥ 12 ॥
ततॊ गच्छेत धर्मज्ञ दवारपालं तरन्तुकम तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत ॥ 13 ॥
ततः पञ्चनदं गत्वा नियतॊ नियताशनः कॊटिकीर्थम उपस्पृश्य हयमेध फलं लभेत अश्विनॊस तीर्थम आसाद्य रूपवान अभिजायते ॥ 14 ॥
ततॊ गच्छेत धर्मज्ञ वाराहं तीर्थम उत्तमम विष्णुर वाराह रूपेण पूर्वं यत्र सथितॊ ऽभवत तत्र सनात्वा नरव्याघ्र अग्निष्टॊम फलं लभेत ॥ 15 ॥
ततॊ जयन्त्या राजेन्द्र सॊमतीर्थं समाविशेत सनात्वा फलम अवाप्नॊति राजसूयस्य मानवः ॥ 16 ॥
एकहंसे नरः सनात्वा गॊसहस्रफलं लभेत कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह पुण्डरीकम अवाप्नॊति कृतशौचॊ भवेन नरः ॥ 17 ॥
ततॊ मुञ्ज वटं नाम महादेवस्य धीमतः तत्रॊष्य रजनीम एकां गाणपत्यम अवाप्नुयात ॥ 18 ॥
तत्रैव च महाराज यक्षी लॊकपरिश्रुता तां चाभिगम्य राजेन्द्र पुण्याँल लॊकान अवाप्नुयात ॥ 19 ॥
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ परदक्षिणम उपावृत्य तीर्थसेवी समाहितः ॥ 20 ॥
संमिते पुष्कराणां च सनात्वार्च्य पितृदेवताः जामदग्न्येन रामेण आहृते वै महात्मना कृतकृत्यॊ भवेद राजन्न अश्वमेधं च विन्दति ॥ 21 ॥
ततॊ रामह्रदान गच्छेत तीर्थसेवी नराधिप यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा कषत्रम उत्साद्य वीर्येण हरदाः पञ्च निवेशिताः ॥ 22 ॥
पूरयित्वा नरव्याघ्र रुधिरेणेति नः शरुतम पितरस तर्पिताः सर्वे तथैव च पिता महाः ततस ते पितरः परीता रामम ऊचुर महीपते ॥ 23 ॥
रम राम महाभाग परीताः सम तव भार्गव अनया पितृभक्त्या च विक्रमेण च ते विभॊ वरं वृणीष्व भद्रं ते किम इच्छसि महाद्युते ॥ 24 ॥
एवम उक्तः स राजेन्द्र रामः परहरतां वरः अब्रवीत पराञ्जलिर वाक्यं पितॄन स गगने सथितान ॥ 25 ॥
भवन्तॊ यदि मे परीता यद्य अनुग्राह्यता मयि पितृप्रसादाद इच्छेयं तपसाप्यायनं पुनः ॥ 26 ॥
यच च रॊषाभिभूतेन कषत्रम उत्सादितं मया ततश च पापान मुच्येयं युष्माकं तेजसा हय अहम हरदाश च तीर्थभूता मे भवेयुर भुवि विश्रुताः ॥ 27 ॥
एतच छरुत्वा शुभं वाक्यं रामस्य पितरस तदा परत्यूचुः परमप्रीता रामं हर्षसमन्विताः ॥ 28 ॥
तपस ते वर्धतां भूयः पितृभक्त्या विशेषतः यच च रॊषाभिभूतेन कषत्रम उत्सादितं तवया ॥ 29 ॥
ततश च पापान मुक्तस तवं कर्मभिस ते च पातिताः हरदाश च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥ 30 ॥
हरदेष्व एतेषु यः सनात्वा पितॄन संतर्पयिष्यति पितरस तस्य वै परीता दास्यन्ति भुवि दुर्लभम ईप्सितं मनसः कामं सवर्गलॊकं च शाश्वतम ॥ 31 ॥
एवं दत्त्वा वरान राजन रामस्य पितरस तदा आमन्त्र्य भार्गवं परीतास तत्रैवान्तर दधुस तदा ॥ 32 ॥
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनाः सनात्वा हरदेषु रामस्य बरह्म चारी शुभव्रतः रामम अभ्यर्च्य राजेन्द्र लभेद बहुसुवर्णकम ॥ 33 ॥
वंशमूलकम आसाद्य तीर्थसेवी कुरूद्वह सववंशम उद्धरेद राजन सनात्वा वै वंशमूलके ॥ 34 ॥
कायशॊधनम आसाद्य तीर्थं भरतसत्तम शरीरशुद्धिः सनातस्य तस्मिंस तीर्थे न संशयः शुद्धदेहश च संयाति शुभाँल लॊकान अनुत्तमान ॥ 35 ॥
ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम लॊका यत्रॊद्धृताः पूर्वं विष्णुना परभ विष्णुना ॥ 36 ॥
लॊकॊद्धारं समासाद्य तीर्थं तरैलॊक्यविश्रुतम सनात्वा तीर्थवरे राजँल लॊकान उद्धरते सवकान शरीतीर्थं च समासाद्य विन्दते शरियम उत्तमाम ॥ 37 ॥
कपिला तीर्थम आसाद्य बरह्म चारी समाहितः तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ 38 ॥
सूर्यतीर्थं समासाद्य सनात्वा नियतमानसः अर्चयित्वा पितॄन देवान उपवासपरायणः अग्निष्टॊमम अवाप्नॊति सूर्यलॊकं च गच्छति ॥ 39 ॥
गमां भवनम आसाद्य तीर्थसेवी यथाक्रमम तत्राभिषेकं कुर्वाणॊ गॊसहस्रफलं लभेत ॥ 40 ॥
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह देव्यास तीर्थे नरः सनात्वा लभते रूपम उत्तमम ॥ 41 ॥
ततॊ गच्छेत राजेन्द्र दवारपालम अरन्तुकम तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनाः तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत ॥ 42 ॥
ततॊ गच्छेत धर्मज्ञ बरह्मावर्तं नराधिप बरह्मावर्ते नरः सनात्वा बरह्मलॊकम अवाप्नुयात ॥ 43 ॥
ततॊ गच्छेत धर्मज्ञ सुतीर्थकम अनुत्तमम यत्र संनिहिता नित्यं पितरॊ दैवतैः सह ॥ 44 ॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः अश्वमेधम अवाप्नॊति पितृलॊकं च गच्छति ॥ 45 ॥
ततॊ ऽमबुवश्यं धर्मज्ञ समासाद्य यथाक्रमम कॊशेश्वरस्य तीर्थेषु सनात्वा भरतसत्तम सर्वव्याधिविनिर्मुक्तॊ बरह्मलॊके महीयते ॥ 46 ॥
मातृतीर्थं च तत्रैव यत्र सनातस्य भारत परजा विवर्धते राजन्न अनन्तां चाश्नुते शरियम ॥ 47 ॥
ततः शीतवनं गच्छेन नियतॊ नियताशनः तीर्थं तत्र महाराज महद अन्यत्र दुर्लभम ॥ 48 ॥
पुनाति दर्शनाद एव दण्डेनैकं नराधिप केशान अभ्युक्ष्य वै तस्मिन पूतॊ भवति भारत ॥ 49 ॥
तीर्थं तत्र महाराज शवानलॊमापहं समृतम यतविप्रा नरव्याघ्र विद्वांसस तीर्थतत्पराः ॥ 50 ॥
शवानलॊमापनयने तीर्थे भरतसत्तम पराणायामैर निर्हरन्ति शवलॊमानि दविजॊत्तमाः ॥ 51 ॥
पूतात्मानश च राजेन्द्र परयान्ति परमां गतिम दशाश्वमेधिकं चैव तस्मिंस तीर्थे महीपते तत्र सनात्वा नरव्याघ्र गच्छेत परमां गतिम ॥ 52 ॥
ततॊ गच्छेत राजेन्द्र मानुषं लॊकविश्रुतम यत्र कृष्णमृगा राजन वयाधेन परिपीडिताः अवगाह्य तस्मिन सरसि मानुषत्वम उपागताः ॥ 53 ॥
तस्मिंस तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः सर्वपापविशुद्धात्मा सवर्गलॊके महीयते ॥ 54 ॥
मानुषस्य तु पूर्वेण करॊशमात्रे महीपते आपगा नाम विख्याता नदी सिद्धनिषेविता ॥ 55 ॥
शयामाक भॊजनं तत्र यः परयच्छति मानवः देवान पितॄंश च उद्दिश्य तस्य धर्मफलं महत एकस्मिन भॊजिते विप्रे कॊटिर भवति भॊजिता ॥ 56 ॥
तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा उषित्वा रजनीम एकाम अग्निष्टॊम फलं लभेत ॥ 57 ॥
ततॊ गच्छेत राजेन्द्र बरह्मणः सथानम उत्तमम बरह्मॊदुम्बरम इत्य एव परकाशं भुवि भारत ॥ 58 ॥
तत्र सप्तर्षिकुण्डेषु सनातस्य कुरुपुंगव केदारे चैव राजेन्द्र कपिष्ठल महात्मनाः ॥ 59 ॥
बरह्माणम अभिगम्याथ शुचिः परयत मानसः सर्वपापविशुद्धात्मा बरह्मलॊकं परपद्यते ॥ 60 ॥
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम अन्तर्धानम अवाप्नॊति तपसा दग्धकिल्बिषः ॥ 61 ॥
ततॊ गच्छेत राजेन्द्र सरकं लॊकविश्रुतम कृष्णपक्षे चतुर्दश्याम अभिगम्य वृषध्वजम लभते सर्वकामान हि सवर्गलॊकं च गच्छति ॥ 62 ॥
तिस्रः कॊट्यस तु तीर्थानां सरके कुरुनन्दन रुद्र कॊटिस तथा कूपे हरदेषु च महीपते इलास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ 63 ॥
तत्र सनात्वार्चयित्वा च पितॄन देवांश च भारत न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति ॥ 64 ॥
किंदाने च नरः सनात्वा किंजप्ये च महीपते अप्रमेयम अवाप्नॊति दानं जप्यं च भारत ॥ 65 ॥
कलश्यां चाप्य उपस्पृश्य शरद्दधानॊ जितेन्द्रियः अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः ॥ 66 ॥
सरकस्य तु पूर्वेण नारदस्य महात्मनाः तीर्थं कुरु वरश्रेष्ठ अनाजन्मेति विश्रुतम ॥ 67 ॥
तत्र तीर्थे नरः सनात्वा पराणांश चॊत्सृज्य भारत नारदेनाभ्यनुज्ञातॊ लॊकान पराप्नॊति दुर्लभान ॥ 68 ॥
शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत तत्र सनात्वा नरॊ राजन पुण्डरीकफलं लभेत ॥ 69 ॥
ततस तरिविष्टपं गच्छेत तरिषु लॊकेषु विश्रुतम तत्र वैतरणी पुण्या नदी पापप्रमॊचनी ॥ 70 ॥
तत्र सनात्वार्चयित्वा च शूलपाणिं वृषध्वजम सर्वपापविशुद्धात्मा गच्छेत परमां गतिम ॥ 71 ॥
ततॊ गच्छेत राजेन्द्र फलकी वनम उत्तमम यत्र देवाः सदा राजन फलकी वनम आश्रिताः तपश चरन्ति विपुलं बहुवर्षसहस्रकम ॥ 72 ॥
दृषद्वत्यां नरः सनात्वा तर्पयित्वा च देवताः अग्निष्टॊमातिरात्राभ्यां फलं विन्दति भारत ॥ 73 ॥
तीर्थे च सर्वदेवानां सनात्वा भरतसत्तम गॊसहस्रस्य राजेन्द्र फलं पराप्नॊति मानवः ॥ 74 ॥
पाणिखाते नरः सनात्वा तर्पयित्वा च देवताः राजसूयम अवाप्नॊति ऋषिलॊकं च गच्छति ॥ 75 ॥
ततॊ गच्छेत राजेन्द्र मिश्रकं तीर्थम उत्तमम तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ 76 ॥
वयासेन नृपशार्दूल दविजार्थम इति नः शरुतम सर्वतीर्थेषु स सनाति मिश्रके सनाति यॊ नरः ॥ 77 ॥
ततॊ वयास वनं गच्छेन नियतॊ नियताशनः मनॊजवे नरः सनात्वा गॊसहस्रफलं लभेत ॥ 78 ॥
गत्वा मधु वटीं चापि देव्यास तीर्थं नरः शुचिः तत्र सनात्वार्चयेद देवान पितॄंश च परयतः शुचिः स देव्या समनुज्ञातॊ गॊसहस्रफलं लभेत ॥ 79 ॥
कौशिक्याः संगमे यस तु दृषद्वत्याश च भारत सनाति वै नियताहारः सर्वपापैः परमुच्यते ॥ 80 ॥
ततॊ वयास सथली नाम यत्र वयासेन धीमता पुत्रशॊकाभितप्तेन देहत्यागार्थ निश्चयः ॥ 81 ॥
कृतॊ देवैश च राजेन्द्र पुनर उत्थापितस तदा अभिगम्य सथलीं तस्य गॊसहस्रफलं लभेत ॥ 82 ॥
किं दत्तं कूपम आसाद्य तिलप्रस्थं परदाय च गच्छेत परमां सिद्धिम ऋणैर मुक्तः कुरूद्वह ॥ 83 ॥
अहश च सुदिनं चैव दवे तीर्थे च सुदुर्लभे तयॊः सनात्वा नरव्याघ्र सूर्यलॊकम अवाप्नुयात ॥ 84 ॥
मृगधूमं ततॊ गच्छेत तरिषु लॊकेषु विश्रुतम तत्र गङ्गा हरदे सनात्वा समभ्यर्च्य च मानवः शूलपाणिं महादेवम अश्वमेध फलं लभेत ॥ 85 ॥
देव तीर्थे नरः सनात्वा गॊसहस्रफलं लभेत अथ वामनकं गच्छेत तरिषु लॊकेषु विश्रुतम ॥ 86 ॥
तत्र विष्णुपदे सनात्वा अर्चयित्वा च वामनम सर्वपापविशुद्धात्मा विष्णुलॊकम अवाप्नुयात ॥ 87 ॥
कुलम्पुने नरः सनात्वा पुनाति सवकुलं नरः पवनस्य हरदं गत्वा मरुतां तीर्थम उत्तमम तत्र सनात्वा नरव्याघ्र वायुलॊके महीयते ॥ 88 ॥
अमराणां हरदे सनात्वा अमरेषु नराधिप अमराणां परभावेन सवर्गलॊके महीयते ॥ 89 ॥
शालिहॊत्रस्य राजेन्द्र शालिशूर्पे यथाविधि सनात्वा नरवरश्रेष्ठ गॊसहस्रफलं लभेत ॥ 90 ॥
शरीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत ॥ 91 ॥
ततॊ नैमिष कुञ्जं च समासाद्य कुरूद्वह ऋषयः किल राजेन्द्र नैमिषेयास तपॊधनाः तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ॥ 92 ॥
ततः कुञ्जः सरस्वत्यां कृतॊ भरतसत्तम ऋषीणाम अवकाशः सयाद यथा तुष्टिकरॊ महान ॥ 93 ॥
तस्मिन कुञ्जे नरः सनात्वा गॊसहस्रफलं लभेत कन्या तीर्थे नरः सनात्वा अग्निष्टॊम फलं लभेत ॥ 94 ॥
ततॊ गच्छेन नरव्याघ्र बरह्मणः सथानम उत्तमम तत्र वर्णावरः सनात्वा बराह्मण्यं लभते नरः बराह्मणश च विशुद्धात्मा गच्छेत परमां गतिम ॥ 95 ॥
ततॊ गच्छेन नरश्रेष्ठ सॊमतीर्थम अनुत्तमम तत्र सनात्वा नरॊ राजन सॊमलॊकम अवाप्नुयात ॥ 96 ॥
सप्त सारस्वतं तीर्थं ततॊ गच्छेन नराधिप यत्र मङ्कणकः सिद्धॊ महर्षिर लॊकविश्रुतः ॥ 97 ॥
पुरा मङ्कणकॊ राजन कुशाग्रेणेति नः शरुतम कषतः किल करे राजंस तस्य शाकरसॊ ऽसरवत ॥ 98 ॥
स वै शाकरसं दृष्ट्वा हर्षाविष्टॊ महातपाः परनृत्तः किल विप्रर्षिर विस्मयॊत्फुल्ललॊचनः ॥ 99 ॥
ततस तस्मिन परनृत्ते वै सथावरं जङ्गमं च यत परनृत्तम उभयं वीर तेजसा तस्य मॊहितम ॥ 100 ॥
बरह्मादिभिः सुरै राजन्न ऋषिभिश च तपॊधनैः विज्ञप्तॊ वै महादेव ऋषेर अर्थे नराधिप नायं नृत्येद यथा देव तथा तवं कर्तुम अर्हसि ॥ 101 ॥
ततः परनृत्तम आसाद्य हर्षाविष्टेन चेतसा सुराणां हितकामार्थम ऋषिं देवॊ ऽभयभाषत ॥ 102 ॥
अहॊ महर्षे धर्मज्ञ किमर्थं नृत्यते भवान हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव ॥ 103 ॥
[रसि] किं न पश्यसि मे देवकराच छाक रसं सरुतम यं दृष्ट्वाहं परनृत्तॊ वै हर्षेण महतान्वितः ॥ 104 ॥
[पुलस्त्य] तं परहस्याब्रवीद देवॊ मुनिं रागेण मॊहितम अहं वै विस्मयं विप्र न गच्छामीति पश्य माम ॥ 105 ॥
एवम उक्त्वा नरश्रेष्ठ महादेवेन धीमता अङ्गुल्यग्रेण राजेन्द्र सवाङ्गुष्ठस ताडितॊ ऽनघ ॥ 106 ॥
ततॊ भस्म कषताद राजन निर्गतं हिमसंनिभम तद दृष्ट्वा वरीडितॊ राजन स मुनिः पादयॊर गतः ॥ 107 ॥
नान्यं देवम अहं मन्ये रुद्रात परतरं महत सुरासुरस्य जगतॊ गतिस तवम असि शूलधृक ॥ 108 ॥
तवया सृष्टम इदं विश्वं तरैलॊक्यं स चराचरम तवाम एव भगवन सर्वे परविशन्ति युगक्षये ॥ 109 ॥
देवैर अपि न शक्यस तवं परिज्ञातुं कुतॊ मया तवयि सर्वे च दृश्यन्ते सुरा बरह्मादयॊ ऽनघ ॥ 110 ॥
सर्वस तवम असि लॊकानां कर्ता कारयिता च ह तवत्प्रसादात सुराः सर्वे मॊदन्तीहाकुतॊ भयाः एवं सतुत्वा महादेवं स ऋषिः परणतॊ ऽभवत ॥ 111 ॥
[रसि] तवत्प्रसादान महादेव तपॊ मे न कषरेत वै ॥ 112 ॥
[पुलस्त्य] ततॊ देवः परहृष्टात्मा बरह्मर्षिम इदम अब्रवीत तपस ते वर्धतां विप्र मत्प्रसादात सहस्रधा ॥ 113 ॥
आश्रमे चेह वत्स्यामि तवया सार्धं महामुने सप्त सारस्वते सनात्वा अर्चयिष्यन्ति ये तु माम ॥ 114 ॥
न तेषां दुर्लभं किं चिद इह लॊके परत्र च सारस्वतं च ते लॊकं गमिष्यन्ति न संशयः ॥ 115 ॥
ततस तव औशनसं गच्छेत तरिषु लॊकेषु विश्रुतम यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः ॥ 116 ॥
कार्तिकेयश च भगवांस तरिसंध्यं किल भारत सांनिध्यम अकरॊत तत्र भार्गव परियकाम्यया ॥ 117 ॥
कपालमॊचनं तीर्थं सर्वपापप्रमॊचनम तत्र सनात्वा नरव्याघ्र सर्वपापैः परमुच्यते ॥ 118 ॥
अग्नितीर्थं ततॊ गच्छेत तत्र सनात्वा नरर्षभ अग्निलॊकम अवाप्नॊति कुलं चैव समुद्धरेत ॥ 119 ॥
विश्वा मित्रस्य तत्रैव तीर्थं भरतसत्तम तत्र सनात्वा महाराज बराह्मण्यम अभिजायते ॥ 120 ॥
बरह्मयॊनिं समासाद्य शुचिः परयत मानसः तत्र सनात्वा नरव्याघ्र बरह्मलॊकं परपद्यते पुनात्य आ सप्तमं चैव कुलं नास्त्य अत्र संशयः ॥ 121 ॥
ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम पृथूदकम इति खयातं कार्तिकेयस्य वै नृप तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ 122 ॥
अज्ञानाज जञानतॊ वापि सत्रिया वा पुरुषेण वा यत किं चिद अशुभं कर्मकृतं मानुषबुद्धिना ॥ 123 ॥
तत सर्वं नश्यते तस्य सनातमात्रस्य भारत अश्वमेध फलं चापि सवर्गलॊकं च गच्छति ॥ 124 ॥
पुण्यम आहुः कुरुक्षेत्रं कुरुक्षेत्रात सरस्वतीम सरस्वत्याश च तीर्थानि तीर्थेभ्यश च पृथूदकम ॥ 125 ॥
उत्तमे सर्वतीर्थानां यस तयजेद आत्मनस तनुम पृथूदके जप्यपरॊ नैनं शवॊ मरणं तपेत ॥ 126 ॥
गीतं सनत कुमारेण वयासेन च महात्मना वेदे च नियतं राजन अभिगच्छेत पृथूदकम ॥ 127 ॥
पृथूदकात पुण्यतमं नान्यत तीर्थं नरॊत्तम एतन मेध्यं पवित्रं च पावनं च न संशयः ॥ 128 ॥
तत्र सनात्वा दिवं यान्ति अपि पापकृतॊ जनाः पृथूदके नरश्रेष्ठ पराहुर एवं मनीषिणः ॥ 129 ॥
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत ॥ 130 ॥
ततॊ गच्छेन नरश्रेष्ठ तीर्थं देव्या यथाक्रमम सरस्वत्यारुणायाश च संगमं लॊकविश्रुतम ॥ 131 ॥
तरिरात्रॊपॊषितः सनात्वा मुच्यते बरह्महत्यया अग्निष्टॊमातिरात्राभ्यां फलं विन्दति मानवः ॥ 132 ॥
आ सप्तमं कुलं चैव पुनाति भरतर्षभ अवतीर्णं च तत्रैव तीर्थं कुरुकुलॊद्वह विप्राणाम अनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥ 133 ॥
वरतॊपनयनाभ्यां वा उपवासेन वा दविजः करिया मन्त्रैश च संयुक्तॊ बराह्मणः सयान न संशयः ॥ 134 ॥
करिया मन्त्रविहीनॊ ऽपि तत्र सनात्वा नरर्षभ चीर्ण वरतॊ भवेद विप्रॊ दृष्टम एतत पुरातने ॥ 135 ॥
समुद्राश चापि चत्वारः समानीताश च दर्भिणा येषु सनातॊ नरव्याघ्र न दुर्गतिम अवाप्नुयात फलानि गॊसहस्राणां चतुर्णां विन्दते च सः ॥ 136 ॥
ततॊ गच्छेत राजेन्द्र तीर्थं शतसहस्रकम साहस्रकं च तत्रैव दवे तीर्थे लॊकविश्रुते ॥ 137 ॥
उभयॊर हि नरः सनात्वा गॊसहस्रफलं भवेत दानं वाप्य उपवासॊ वा सहस्रगुणितं भवेत ॥ 138 ॥
ततॊ गच्छेत राजेन्द्र रेणुका तीर्थम उत्तमम तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः सरव पापविशुद्धात्मा अग्निष्टॊम फलं लभेत ॥ 139 ॥
विमॊचनम उपस्पृश्य जितमन्युर जितेन्द्रियः परतिग्रह कृतैर दॊषैर सर्वैः स परिमुच्यते ॥ 140 ॥
ततः पञ्च वटं गत्वा बरह्म चारी जितेन्द्रियः पुण्येन महता युक्तः सतां लॊके महीयते ॥ 141 ॥
यत्र यॊगेश्वरः सथाणुः सवयम एव वृषध्वजः तम अर्चयित्वा देवेशं गमनाद एव सिध्यति ॥ 142 ॥
औजसं वरुणं तीर्थं दीप्यते सवेन तेजसा यत्र बरह्मादिभिर देवैर ऋषिभिश च तपॊधनैः सेनापत्येन देवानाम अभिषिक्तॊ गुहस तदा ॥ 143 ॥
औजसस्य तु पूर्वेण कुरु तीर्थं कुरूद्वह कुरु तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः सर्वपापविशुद्धात्मा कुरु लॊकं परपद्यते ॥ 144 ॥
सवर्गद्वारं ततॊ गच्छेन नियतॊ नियताशनः सवर्गलॊकम अवाप्नॊति बरह्मलॊकं च गच्छति ॥ 145 ॥
ततॊ गच्छेद अनरकं तीर्थसेवी नराधिप तत्र सनात्वा नरॊ राजन न दुर्गतिम इवाप्नुयात ॥ 146 ॥
तत्र बरह्मा सवयं नित्यं देवैः सह महीपते अन्वास्यते नरश्रेष्ठ नारायण पुरॊगमैः ॥ 147 ॥
सांनिध्यं चैव राजेन्द्र रुद्र पत्न्याः कुरूद्वह अभिगम्य च तां देवीं न दुर्गतिम अवाप्नुयात ॥ 148 ॥
तत्रैव च महाराज विश्वेश्वरम उमापतिम अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥ 149 ॥
नारायणं चाभिगम्य पद्मनाभम अरिंदमम शॊभमानॊ महाराज विष्णुलॊकं परपद्यते ॥ 150 ॥
तीर्थे तु सर्वदेवानां सनातः स पुरुषर्षभ सर्वदुःखैः परित्यक्तॊ दयॊतते शशिवत सदा ॥ 151 ॥
ततः सवस्ति पुरं गच्छेत तीर्थसेवी नराधिप पावनं तीर्थम आसाद्य तर्पयेत पितृदेवताः अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः ॥ 152 ॥
गङ्गा हरदश च तत्रैव कूपश च भरतर्षभ तिस्रः कॊट्यस तु तीर्थानां तस्मिन कूपे महीपते तत्र सनात्वा नरॊ राजन सवर्गलॊकं परपद्यते ॥ 153 ॥
आपगायां नरः सनात्वा अर्चयित्वा महेश्वरम गाणपत्यम अवाप्नॊति कुलं चॊद्धरते सवकम ॥ 154 ॥
ततः सथाणुवटं गच्छेत तरिषु लॊकेषु विश्रुतम तत्र सनात्वा सथितॊ रात्रिं रुद्र लॊकम अवाप्नुयात ॥ 155 ॥
बदरी पाचनं गच्छेद वसिष्ठस्याश्रमं ततः बदरं भक्षयेत तत्र तरिरात्रॊपॊषितॊ नरः ॥ 156 ॥
सम्यग दवादश वर्षाणि बदरान भक्षयेत तु यः तरिरात्रॊपॊषितश चैव भवेत तुल्यॊ नराधिप ॥ 157 ॥
इन्द्र मार्गं समासाद्य तीर्थसेवी नराधिप अहॊरात्रॊपवासेन शक्र लॊके महीयते ॥ 158 ॥
एकरात्रं समासाद्य एकरात्रॊषितॊ नरः नियतः सत्यवादी च बरह्मलॊके महीयते ॥ 159 ॥
ततॊ गच्छेत धर्मज्ञ तीर्थं तरैलॊक्यविश्रुतम आदित्यस्याश्रमॊ यत्र तेजॊराशेर महात्मनाः ॥ 160 ॥
तस्मिंस तीर्थे नरः सनात्वा पूजयित्वा विभावसुम आदित्यलॊकं वरजति कुलं चैव समुद्धरेत ॥ 161 ॥
सॊमतीर्थे नरः सनात्वा तीर्थसेवी कुरूद्वह सॊमलॊकम अवाप्नॊति नरॊ नास्त्य अत्र संशयः ॥ 162 ॥
ततॊ गच्छेत धर्मज्ञ दधीचस्य महात्मनाः तीर्थं पुण्यतमं राजन पावनं लॊकविश्रुतम ॥ 163 ॥
यत्र सारस्वतॊ राजन सॊ ऽङगिरास तपसॊ निधिः तस्मिंस तीर्थे नरः सनात्वा वाजपेयफलं लभेत सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ 164 ॥
ततः कन्याश्रमं गच्छेन नियतॊ बरह्मचर्यवान तरिरात्रॊपॊषितॊ राजन्न उपवासपरायणः लभेत कन्याशतं दिव्यं बरह्मलॊकं च गच्छति ॥ 165 ॥
यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः मासि मासि समायान्ति पुण्येन महतान्विताः ॥ 166 ॥
संनिहित्याम उपस्पृश्य राहुग्रस्ते दिवाकरे अश्वमेध शतं तेन इष्टं भवति शाश्वतम ॥ 167 ॥
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च नद्यॊ नदास तडागाश च सर्वप्रस्रवणानि च ॥ 168 ॥
उदपानाश च वप्राश च पुण्यान्य आयतनानि च मासि मासि समायान्ति संनिहित्यां न संशयः ॥ 169 ॥
यत किं चिद दुष्कृतं कर्म सत्रिया वा पुरुषस्य वा सनातमात्रस्य तत सर्वं नश्यते नात्र संशयः पद्मवर्णेन यानेन बरह्मलॊकं स गच्छति ॥ 170 ॥
अभिवाद्य ततॊ यक्षं दवारपालम अरन्तुकम कॊटिरूपम उपस्पृश्य लभेद बहुसुवर्णकम ॥ 171 ॥
गङ्गा हरदश च तत्रैव तीर्थं भरतसत्तम तत्र सनातस तु धर्मज्ञ बरह्म चारी समाहितः राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम ॥ 172 ॥
पृथिव्यां नैमिषं पुण्यम अन्तरिक्षे च पुष्करम तरयाणाम अपि लॊकानां कुरुक्षेत्रं विशिष्यते ॥ 173 ॥
पांसवॊ ऽपि कुरुक्षेत्रे वायुना समुदीरिताः अपि दुष्कृतकर्माणं नयन्ति परमां गतिम ॥ 174 ॥
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम ये वसन्ति कुरुक्षेत्रे ते वसन्ति तरिविष्टपे ॥ 175 ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम अप्य एकां वाचम उत्सृज्य सर्वपापैः परमुच्यते ॥ 176 ॥
बरह्म वेदी कुरुक्षेत्रं पुण्यं बरह्मर्षिसेवितम तदावसन्ति ये राजन न ते शॊच्याः कथं चन ॥ 177 ॥
तरन्तुकारन्तुकयॊर यद अन्तरं; रामह्रदानां च मचक्रुकस्य एतत कुरुक्षेत्रसमन्तपञ्चकं; पिता महस्यॊत्तर वेदिर उच्यते ॥ 178 ॥
वनपर्व · Vana Parva
अध्याय 81
Reach this point to mark the section finished.
Continue to अध्याय 82