[व] धनंजयॊत्सुकास ते तु वने तस्मिन महारथाः नयवसन्त महाभागा दरौपद्या सह पाण्डवाः ॥ 1 ॥
अथापश्यन महात्मानं देवर्षिं तत्र नारदम दीप्यमानं शरिया बराह्म्या दीप्ताग्निसमतेजसम ॥ 2 ॥
स तैः परिवृतः शरीमान भरातृभिः कुरुसत्तमः विबभाव अतिदीप्तौजॊ देवैर इव शतक्रतुः ॥ 3 ॥
यथा च वेदान सावित्री याज्ञसेनी तथा सती न जहौ धर्मतः पार्थान मेरुम अर्कप्रभा यथा ॥ 4 ॥
परतिगृह्य तु तां पूजां नारदॊ भगवान ऋषिः आश्वासयद धर्मसुतं युक्तरूपम इवानघ ॥ 5 ॥
उवाच च महात्मानं धर्मराजं युधिष्ठिरम बरूहि धर्मभृतां शरेष्ठ केनार्थः किं ददामि ते ॥ 6 ॥
अथ धर्मसुतॊ राजा परणम्य भरातृभिः सह उवाच पराञ्जलिर वाक्यं नारदं देव संमितम ॥ 7 ॥
तवयि तुष्टे महाभाग सर्वलॊकाभिपूजिते कृतम इत्य एव मन्ये ऽहं परसादात तव सुव्रत ॥ 8 ॥
यदि तव अहम अनुग्राह्यॊ भरातृभिः सहितॊ ऽनघ संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम अर्हसि ॥ 9 ॥
परदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः किं फलं तस्य कार्त्स्न्येन तद बरह्मन वक्तुम अर्हसि ॥ 10 ॥
[न] शृणु राजन्न अवहितॊ यथा भीष्मेण भारत पुलस्त्यस्य सकाशाद वै सर्वम एतद उपश्रुतम ॥ 11 ॥
पुरा भागीरथी तीरे भीष्मॊ धर्मभृतां वरः पित्र्यं वरतं समास्थाय नयवसन मुनिवत तदा ॥ 12 ॥
शुभे देशे महाराज पुण्ये देवर्षिसेविते गङ्गा दवारे महातेजॊ देवगन्धर्वसेविते ॥ 13 ॥
स पितॄंस तर्पयाम आस देवांश च परमद्युतिः ऋषींश च तॊषयाम आस विधिदृष्टेन कर्मणा ॥ 14 ॥
कस्य चित तव अथ कालस्य जपन्न एव महातपाः ददर्शाद्भुतसंकाशं पुलस्त्यम ऋषिसत्तमम ॥ 15 ॥
स तं दृष्ट्वॊग्र तपसं दीप्यमानम इव शरिया परहर्षम अतुलं लेभे विस्मयं च परं ययौ ॥ 16 ॥
उपस्थितं महाराज पूजयाम आस भारत भीष्मॊ धर्मभृतां शरेष्ठॊ विधिदृष्टेन कर्मणा ॥ 17 ॥
शिरसा चार्घ्यम आदाय शुचिः परयत मानसः नाम संकीर्तयाम आस तस्मिन बरह्मर्षिसत्तमे ॥ 18 ॥
भीष्मॊ ऽहम अस्मि भद्रं ते दासॊ ऽसमि तव सुव्रत तव संदर्शनाद एव मुक्तॊ ऽहं सर्वकिल्बिषैः ॥ 19 ॥
एवम उक्त्वा महाराज भीष्मॊ धर्मभृतां वरः वाग्यतः पराञ्जलिर भूत्वा तूष्णीम आसीद युधिष्ठिर ॥ 20 ॥
तं दृष्ट्वा नियमेनाथ सवाध्यायाम्नाय कर्शितम भीष्मं कुरु कुलश्रेष्ठं मुनिः परीतमनाभवत ॥ 21 ॥
[पुलस्त्य] अनेन तव धर्मज्ञ परश्रयेण दमेन च सत्येन च महाभाग तुष्टॊ ऽसमि तव सर्वशः ॥ 22 ॥
यस्येदृशस ते धर्मॊ ऽयं पितृभक्त्याश्रितॊ ऽनघ तेन पश्यसि मां पुत्र परीतिश चापि मम तवयि ॥ 23 ॥
अमॊघदर्शी भीष्माहं बरूहि किं करवाणि ते यद वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ ॥ 24 ॥
[भ] परीते तवयि महाभाग सर्वलॊकाभिपूजिते कृतम इत्य एव मन्ये ऽहं यद अहं दृष्टवान परभुम ॥ 25 ॥
यदि तव अहम अनुग्राह्यस तव धर्मभृतां वर वक्ष्यामि हृत्स्थं संदेहं तन मे तवं वक्तुम अर्हसि ॥ 26 ॥
अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः तम अहं शरॊतुम इच्छामि पृथक संकीर्तितं तवया ॥ 27 ॥
परदक्षिणं यः पृथिवीं करॊत्य अमितविक्रम किं फलं तस्य विप्रर्षे तन मे बरूहि तपॊधन ॥ 28 ॥
[प] हन्त ते ऽहं परवक्ष्यामि यद ऋषीणां परायणम तद एकाग्रमनास तात शृणु तीर्थेषु यत फलम ॥ 29 ॥
यस्य हस्तौ च पादौ च मनश चैव सुसंयतम विद्या तपश च कीर्तिश च स तीर्थफलम अश्नुते ॥ 30 ॥
परतिग्रहाद उपावृत्तः संतुष्टॊ नियतः शुचिः अहं कारनिवृत्तिश च स तीर्थफलम अश्नुते ॥ 31 ॥
अकल्ककॊ निरारम्भॊ लघ्व आहारॊ जितेन्द्रियः विमुक्तः सर्वदॊषैर यः स तीर्थफलम अश्नुते ॥ 32 ॥
अक्रॊधनश च राजेन्द्र सत्यशीलॊ दृढव्रतः आत्मॊपमश च भूतेषु स तीर्थफलम अश्नुते ॥ 33 ॥
ऋषिभिः करतवः परॊक्ता वेदेष्व इह यथाक्रमम फलं चैव यथातत्त्वं परेत्य चेह च सर्वशः ॥ 34 ॥
न ते शक्या दरिद्रेण यज्ञाः पराप्तुं महीपते बहूपकरणा यज्ञा नाना संभारविस्तराः ॥ 35 ॥
पराप्यन्ते पार्थिवैर एते समृद्धैर वा नरैः कव चित नार्थान्य ऊनॊपकरणैर एकात्मभिर असंहतैः ॥ 36 ॥
यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं नरेश्वर तुल्यॊ यज्ञफलैः पुण्यैस तं निबॊध युधां वर ॥ 37 ॥
ऋषीणां परमं गुह्यम इदं भरतसत्तम तीर्थाभिगमनं पुण्यं यज्ञैर अपि विशिष्यते ॥ 38 ॥
अनुपॊष्य तरिरात्राणि तीर्थान्य अनभिगम्य च अदत्त्वा काञ्चनं गाश च दरिद्रॊ नाम जायते ॥ 39 ॥
अग्निष्टॊमादिभिर यज्ञैर इष्ट्वा विपुलदक्षिणैः न तत फलम अवाप्नॊति तीर्थाभिगमनेन यत ॥ 40 ॥
नृलॊके देवदेवस्य तीर्थं तरैलॊक्यविश्रुतम पुष्करं नाम विख्यातं महाभागः समाविशेत ॥ 41 ॥
दशकॊटिसहस्राणि तीर्थानां वै महीपते सांनिध्यं पुष्करे येषां तरिसंध्यं कुरुनन्दन ॥ 42 ॥
आदित्या वसवॊ रुद्राः साध्याश च स मरुद्गणाः गन्धर्वाप्सरसश चैव नित्यं संनिहिता विभॊ ॥ 43 ॥
यत्र देवास तपस तप्त्वा दैत्या बरह्मर्षयस तथा दिव्ययॊगा महाराज पुण्येन महतान्विताः ॥ 44 ॥
मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ 45 ॥
तस्मिंस तीर्थे महाभाग नित्यम एव पिता महः उवास परमप्रीतॊ देवदानव संम्मतः ॥ 46 ॥
पुष्करेषु महाभाग देवाः सर्षिपुरॊगमाः सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः ॥ 47 ॥
तत्राभिषेकं यः कुर्यात पितृदेवार्चने रतः अश्वमेधं दशगुणं परवदन्ति मनीषिणः ॥ 48 ॥
अप्य एकं भॊजयेद विप्रं पुष्करारण्यम आश्रितः तेनासौ कर्मणा भीष्म परेत्य चेह च मॊदते ॥ 49 ॥
शाकमूलफलैर वापि येन वर्तयते सवयम तद वै दद्याद बराह्मणाय शरद्धावान अनसूयकः तेनैव पराप्नुयात पराज्ञॊ हयमेध फलं नरः ॥ 50 ॥
बराह्मणः कषत्रियॊ वैश्यः शूद्रॊ वा राजसत्तम न वियॊनिं वरजन्त्य एते सनातास तीर्थे महात्मनः ॥ 51 ॥
कार्तिक्यां तु विशेषेण यॊ ऽभिगच्छेत पुष्करम फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥ 52 ॥
सायंप्रातः समरेद यस तु पुष्कराणि कृताञ्जलिः उपस्पृष्टं भवेत तेन सर्वतीर्थेषु भारत पराप्नुयाच च नरॊ लॊकान बरह्मणः सदने ऽकषयान ॥ 53 ॥
जन्मप्रभृति यत पापं सत्रियॊ वा पुरुषस्य वा पुष्करे सनातमात्रस्य सर्वम एव परणश्यति ॥ 54 ॥
यथा सुराणां सर्वेषाम आदिस तु मधुसूदनः तथैव पुष्करं राजंस तीर्थानाम आदिर उच्यते ॥ 55 ॥
उष्य दवादश वर्षाणि पुष्करे नियतः शुचिः करतून सर्वान अवाप्नॊति बरह्मलॊकं च गच्छति ॥ 56 ॥
यस तु वर्षशतं पूर्णम अग्निहॊत्रम उपासते कार्तिकीं वा वसेद एकां पुष्करे समम एव तत ॥ 57 ॥
पुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम ॥ 58 ॥
उष्य दवादश रात्रं तु नियतॊ नियताशनः परदक्षिणम उपावृत्तॊ जम्बू मार्गं समाविशेत ॥ 59 ॥
जम्बू मार्गं समाविश्य देवर्षिपितृसेवितम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति ॥ 60 ॥
तत्रॊष्य रजनीः पञ्च षष्ठ कालक्षमी नरः न दुर्गतिम अवाप्नॊति सिद्धिं पराप्नॊति चॊत्तमाम ॥ 61 ॥
जम्बू मार्गाद उपावृत्तॊ गच्छेत तण्डुलिकाश्रमम न दुर्गतिम अवाप्नॊति सवर्गलॊके च पूज्यते ॥ 62 ॥
अगस्य सर आसाद्य पितृदेवार्चने रतः तरिरात्रॊपॊषितॊ राजन्न अग्निष्टॊम फलं लभेत ॥ 63 ॥
शाकवृत्तिः फलैर वापि कौमारं विन्दते पदम कण्वाश्रमं समासाद्य शरीजुष्टं लॊकपूजितम ॥ 64 ॥
धर्मारण्यं हि तत पुण्यम आद्यं च भरतर्षभ यत्र परविष्टमात्रॊ वै पापेभ्यॊ विप्रमुच्यते ॥ 65 ॥
अर्चयित्वा पितॄन देवान नियतॊ नियताशनः सर्वकामसमृद्धस्य यज्ञस्य फलम अश्नुते ॥ 66 ॥
परदक्षिणं ततः कृत्वा ययाति पतनं वरजेत हयमेधस्य यज्ञस्य फलं पराप्नॊति तत्र वै ॥ 67 ॥
महाकालं ततॊ गच्छेन नियतॊ नियताशनः कॊटितीर्थम उपस्पृश्य हयमेध फलं लभेत ॥ 68 ॥
ततॊ गच्छेत धर्मज्ञ पुण्यस्थानम उमापतेः नाम्ना भद्र वटं नाम तरिषु लॊकेषु विश्रुतम ॥ 69 ॥
तत्राभिगम्य चेशानं गॊसहस्रफलं लभेत महादेव परसादाच च गाणपत्यम अवाप्नुयात ॥ 70 ॥
नर्मदाम अथ चासाद्य नदीं तरैलॊक्यविश्रुताम तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत ॥ 71 ॥
दक्षिणं सिन्धुम आसाद्य बरह्म चारी जितेन्द्रियः अग्निष्टॊमम अवाप्नॊति विमानं चाधिरॊहति ॥ 72 ॥
चर्मण्वतीं समासाद्य नियतॊ नियताशनः रन्ति देवाभ्यनुज्ञातॊ अग्निष्टॊम फलं लभेत ॥ 73 ॥
ततॊ गच्छेत धर्मज्ञ हिमवत्सुतम अर्बुदम पृथिव्यां यत्र वै छिद्रं पूर्वम आसीद युधिष्ठिर ॥ 74 ॥
तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत ॥ 75 ॥
पिङ्गा तीर्थम उपस्पृश्य बरह्म चारी जितेन्द्रियः कपिलानां नरव्याघ्र शतस्य फलम अश्नुते ॥ 76 ॥
ततॊ गच्छेत धर्मज्ञ परभासं लॊकविश्रुतम यत्र संनिहितॊ नित्यं सवयम एव हुताशनः देवतानां मुखं वीर अनलॊ ऽनिलसारथिः ॥ 77 ॥
तस्मिंस तीर्थवरे सनात्वा शुचिः परयत मानसः अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः ॥ 78 ॥
ततॊ गत्वा सरस्वत्याः सागरस्य च संगमे गॊसहस्रफलं पराप्य सवर्गलॊके महीयते दीप्यमानॊ ऽगनिवन नित्यं परभया भरतर्षभ ॥ 79 ॥
तरिरात्रम उषितस तत्र तर्पयेत पितृदेवताः परभासते यथा सॊमॊ अश्वमेधं च विन्दति ॥ 80 ॥
वरदानं ततॊ गच्छेत तीर्थं भरतसत्तम विष्णॊर दुर्वाससा यत्र वरॊ दत्तॊ युधिष्ठिर ॥ 81 ॥
वरदाने नरः सनात्वा गॊसहस्रफलं लभेत ततॊ दवारवतीं गच्छेन नियतॊ नियताशनः पिण्डारके नरः सनात्वा लभेद बहुसुवर्णकम ॥ 82 ॥
तस्मिंस तीर्थे महाभाग पद्मलक्षणलक्षिताः अद्यापि मुद्रा दृश्यन्ते तद अद्भुतम अरिंदम ॥ 83 ॥
तरिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ॥ 84 ॥
सागरस्य च सिन्धॊश च संगमं पराप्य भारत तीर्थे सलिलराजस्य सनात्वा परयत मानसः ॥ 85 ॥
तर्पयित्वा पितॄन देवान ऋषींश च भरतर्षभ पराप्नॊति वारुणं लॊकं दीप्यमानः सवतेजसा ॥ 86 ॥
शङ्कुकर्णेश्वरं देवम अर्चयित्वा युधिष्ठिर अश्वमेधं दशगुणं परवदन्ति मनीषिणः ॥ 87 ॥
परदक्षिणम उपावृत्य गच्छेत भरतर्षभ तीर्थं कुरु वरश्रेष्ठ तरिषु लॊकेषु विश्रुतम दृमीति नाम्ना विख्यातं सर्वपापप्रमॊचनम ॥ 88 ॥
यत्र बरह्मादयॊ देवा उपासन्ते महेश्वरम तत्र सनात्वार्चयित्वा च रुद्रं देवगणैर वृतम जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ 89 ॥
दृमी चात्र नरश्रेष्ठ सर्वदेवैर अभिष्टुता तत्र सनात्वा नरव्याघ्र हयमेधम अवाप्नुयात ॥ 90 ॥
जित्वा यत्र महाप्राज्ञ विष्णुना परभ विष्णुना पुरा शौचं कृतं राजन हत्वा दैवतकण्टकान ॥ 91 ॥
ततॊ गच्छेत धर्मज्ञ वसॊर धाराम अभिष्टुताम गमनाद एव तस्यां हि हयमेधम अवाप्नुयात ॥ 92 ॥
सनात्वा कुरु वरश्रेष्ठ परयतात्मा तु मानवः तर्प्य देवान पितॄंश चैव विष्णुलॊके महीयते ॥ 93 ॥
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ तत्र सनात्वा च पीत्वा च वसूनां संमतॊ भवेत ॥ 94 ॥
सिन्धूत्तमम इति खयातं सर्वपापप्रणाशनम तत्र सनात्वा नरश्रेष्ठ लभेद बहुसुवर्णकम ॥ 95 ॥
बरह्म तुङ्गं समासाद्य शुचिः परयत मानसः बरह्मलॊकम अवाप्नॊति सुकृती विरजा नरः ॥ 96 ॥
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम तत्र सनात्वा नरः कषिप्रं शक्र लॊकम अवाप्नुयात ॥ 97 ॥
रेणुकायाश च तत्रैव तीर्थं देव निषेवितम तत्र सनात्वा भवेद विप्रॊ विमलश चन्द्रमा यथा ॥ 98 ॥
अथ पञ्चनदं गत्वा नियतॊ नियताशनः पञ्च यज्ञान अवाप्नॊति करमशॊ ये ऽनुकीर्तिताः ॥ 99 ॥
ततॊ गच्छेत धर्मज्ञ भीमायाः सथानम उत्तमम तत्र सनात्वा तु यॊन्यां वै नरॊ भरतसत्तम ॥ 100 ॥
देव्याः पुत्रॊ भवेद राजंस तप्तकुण्डलविग्रहः गवां शतसहस्रस्य फलं चैवाप्नुयान महत ॥ 101 ॥
गिरिमुञ्जं समासाद्य तरिषु लॊकेषु विश्रुतम पिता महं नमस्कृत्य गॊसहस्रफलं लभेत ॥ 102 ॥
ततॊ गच्छेत धर्मज्ञ विमलं तीर्थम उत्तमम अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ 103 ॥
तत्र सनात्वा नरश्रेष्ठ वाजपेयम अवाप्नुयात सर्वपापविशुद्धात्मा गच्छेच च परमां गतिम ॥ 104 ॥
ततॊ गच्छेत मलदां तरिषु लॊकेषु विश्रुताम पश्चिमायां तु संध्यायाम उपस्पृश्य यथाविधि ॥ 105 ॥
चरुं नरेन्द्र सप्तार्चेर यथाशक्ति निवेदयेत पितॄणाम अक्षयं दानं परवदन्ति मनीषिणः ॥ 106 ॥
गवां शतसहस्रेण राजसूय शतेन च अश्वमेध सहस्रेण शरेयान सप्तार्चिषश चरुः ॥ 107 ॥
ततॊ निवृत्तॊ राजेन्द्र वस्त्रा पदम अथाविशेत अभिगम्य महादेवम अश्वमेध फलं लभेत ॥ 108 ॥
मणिमन्तं समासाद्य बरह्म चारी समाहितः एकरात्रॊषितॊ राजन्न अग्निष्टॊम फलं लभेत ॥ 109 ॥
अथ गच्छेत राजेन्द्र देविकां लॊकविश्रुताम परसूतिर यत्र विप्राणां शरूयते भरतर्षभ ॥ 110 ॥
तरिशूलपाणेः सथानं च तरिषु लॊकेषु विश्रुतम देविकायां नरः सनात्वा समभ्यर्च्य महेश्वरम ॥ 111 ॥
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ सर्वकामसमृद्धस्य यज्ञस्य लभते फलम ॥ 112 ॥
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम तत्र सनात्वा नरः कषिप्रं सिद्धिम आप्नॊति भारत ॥ 113 ॥
यजनं याजनं गत्वा तथैव बरह्म वालुकाम पुष्पन्यास उपस्पृश्य न शॊचेन मरणं ततः ॥ 114 ॥
अर्धयॊजनविस्तारां पञ्चयॊजनम आयताम एतावद देविकाम आहुः पुण्यां देवर्षिसेविताम ॥ 115 ॥
ततॊ गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम यत्र बरह्मादयॊ देवाः सिद्धाश च परमर्षयः दीर्घसत्रम उपासन्ते दक्षिणाभिर यतव्रताः ॥ 116 ॥
गमनाद एव राजेन्द्र दीर्घसत्रम अरिंदम राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः ॥ 117 ॥
ततॊ विनशनं गच्छेन नियतॊ नियताशनः गच्छत्य अन्तर्हिता यत्र मरु पृष्ठे सरस्वती चमसे च शिवॊद्भेदे नागॊद्भेदे च दृश्यते ॥ 118 ॥
सनात्वा च चमसॊद्भेदे अग्निष्टॊम फलं लभेत शिवॊद्भेदे नरः सनात्वा गॊसहस्रफलं लभेत ॥ 119 ॥
नागॊद्भेदे नरः सनात्वा नागलॊकम अवाप्नुयात शशयानं च राजेन्द्र तीर्थम आसाद्य दुर्लभम शशरूपप्रतिछन्नाः पुष्करा यत्र भारत ॥ 120 ॥
सरस्वत्यां महाराज अनु संवत्सरं हि ते सनायन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा ॥ 121 ॥
तत्र सनात्वा नरव्याघ्र दयॊतते शशिवत सदा गॊसहस्रपलं चैव पराप्नुयाद भरतर्षभ ॥ 122 ॥
कुमार कॊटिम आसाद्य नियतः कुरुनन्दन तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः गवामयम अवाप्नॊति कुलं चैव समुद्धरेत ॥ 123 ॥
ततॊ गच्छेत धर्मज्ञ रुद्र कॊटिं समाहितः पुरा यत्र महाराज ऋषिकॊटिः समाहिता परहर्षेण च संविष्टा देव दर्शनकाङ्क्षया ॥ 124 ॥
अहं पूर्वम अहं पूर्वं दरक्ष्यामि वृषभध्वजम एवं संप्रस्थिता राजन्न ऋषयः किल भारत ॥ 125 ॥
ततॊ यॊगेष्वरेणापि यॊगम आस्थाय भूपते तेषां मन्युप्रणाशार्थम ऋषीणां भावितात्मनाम ॥ 126 ॥
सृष्टा कॊटिस तु रुद्राणाम ऋषीणाम अग्रतः सथिता मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक ॥ 127 ॥
तेषां तुष्टॊ महादेव ऋषीणाम उग्रतेजसाम भक्त्या परमया राजन वरं तेषां परदिष्टवान अद्य परभृति युष्माकं धर्मवृद्धिर भविष्यति ॥ 128 ॥
तत्र सनात्वा नरव्याघ्र रुद्र कॊट्यां नरः शुचिः अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत ॥ 129 ॥
ततॊ गच्छेत राजेन्द्र संगमं लॊकविश्रुतम सरस्वत्या महापुण्यम उपासन्ते जनार्दनम ॥ 130 ॥
यत्र बरह्मादयॊ देवा ऋषयः सिद्धचारणाः अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम ॥ 131 ॥
तत्र सनात्वा नरव्याघ्र विन्देद बहुसुवर्णकम सर्वपापविशुद्धात्मा बरह्मलॊकं च गच्छति ॥ 132 ॥
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप सत्रावसानम आसाद्य गॊसहस्रफलं लभेत ॥ 133 ॥
वनपर्व · Vana Parva
अध्याय 80
Reach this point to mark the section finished.
Continue to अध्याय 81