[ज] भगवन काम्यकात पार्थे गते मे परपिता महे पाण्डवाः किम अकुर्वन्त तम ऋते सव्यसाचिनम ॥ 1 ॥
स हि तेषां महेष्वासॊ गतिर आसीद अनीकजित आदित्यानां यथा विष्णुस तथैव परतिभाति मे ॥ 2 ॥
तेनेन्द्र समवीर्येण संग्रामेष्व अनिवर्तिना विना भूता वने वीराः कथम आसन पिता महाः ॥ 3 ॥
[व] गते तु काम्यकात तात पाण्डवे सव्यसाचिनि बभूवुः कौरवेयास ते दुःखशॊकपरायणाः ॥ 4 ॥
आक्षिप्त सूत्रा मणयश छिन्नपक्षा इव दविजाः अप्रीत मनसः सर्वे बभूवुर अथ पाण्डवाः ॥ 5 ॥
वनं च तद अभूत तेन हीनम अक्लिष्टकर्मणा कुवेरेण यथा हीनं वनं चैत्ररथं तथा ॥ 6 ॥
तम ऋते पुरुषव्याघ्रं पाण्डवा जनमेजय मुदम अप्राप्नुवन्तॊ वै काम्यके नयवसंस तदा ॥ 7 ॥
बराह्मणार्थे पराक्रान्ताः शुद्धैर बाणैर महारथाः निघ्नन्तॊ भरतश्रेष्ठ मेध्यान बहुविधान मृगान ॥ 8 ॥
नित्यं हि पुरुषव्याघ्रा वन्याहारम अरिंदमाः विप्रसृत्य समाहृत्य बराह्मणेभ्यॊ नयवेदयन ॥ 9 ॥
एवं ते नयवसंस तत्र सॊत्कण्ठाः पुरुषर्षभाः अहृष्ट मनसः सर्वे गते राजन धनंजये ॥ 10 ॥
अथ विप्रॊषितं वीरं पाञ्चाली मध्यमं पतिम समरन्ती पाण्डवश्रेष्ठम इदं वचनम अब्रवीत ॥ 11 ॥
यॊ ऽरजुनेनार्जुनस तुल्यॊ दविबाहुर बहु बाहुना तम ऋते पाण्डवश्रेष्ठं वनं न परतिभाति मे शून्याम इव च पश्यामि तत्र तत्र महीम इमाम ॥ 12 ॥
बह्वाश्चर्यम इदं चापि वनं कुसुमितद्रुमम न तथा रमणीयं मे तम ऋते सव्यसाचिनम ॥ 13 ॥
नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम तम ऋते पुण्डरीकाक्षं काम्यकं नातिभाति मे ॥ 14 ॥
यस्य सम धनुषॊ घॊषः शरूयते ऽशनिनिस्वनः न लभे शर्म तं राजन समरन्ती सव्यसाचिनम ॥ 15 ॥
तथा लालप्यमानां तां निशम्य परवीरहा भीमसेनॊ महाराज दरौपदीम इदम अब्रवीत ॥ 16 ॥
मनः परीतिकरं भद्रे यद बरवीषि सुमध्यमे तन मे परीणाति हृदयम अमृतप्राशनॊपमम ॥ 17 ॥
यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ मौर्वी कृतकिणौ वृत्तौ खड्गायुध गदाधरौ ॥ 18 ॥
निष्काङ्गदकृतापीडौ पञ्चशीर्षाव इवॊरगौ तम ऋते पुरुषव्याघ्रं नष्टसूर्यम इदं वनम ॥ 19 ॥
यम आश्रित्य महाबाहुं पाञ्चालाः कुरवस तथा सुराणाम अपि यत्तानां पृतनासु न बिभ्यति ॥ 20 ॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनाः मन्यामहे जितान आजौ परान पराप्तां च मेदिनीम ॥ 21 ॥
तम ऋते फल्गुनं वीरं न लभे काम्यके धृतिम शून्याम इव च पश्यामि तत्र तत्र महीम इमाम ॥ 22 ॥
[नकुल] य उदीचीं दिशं गत्वा जित्वा युधि महाबलान गन्धर्वमुख्याञ शतशॊ हयाँल लेभे स वासविः ॥ 23 ॥
राजंस तित्तिरि कल्माषाञ शरीमान अनिलरंहसः परादाद भरात्रे परियः परेम्ना राजसूये महाक्रतौ ॥ 24 ॥
तम ऋते भीमधन्वानं भीमाद अवरजं वने कामये काम्यके वासं नेदानीम अमरॊपमम ॥ 25 ॥
[सहदेव] यॊ धनानि च कन्याश च युधि जित्वा महारथान आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥ 26 ॥
यः समेतान मृधे जित्वा यादवान अमितद्युतिः सुभद्राम आजहारैकॊ वासुदेवस्य संमते ॥ 27 ॥
तस्य जिष्णॊर बृसीं दृष्ट्वा शून्याम उपनिवेशने हृदयं मे महाराज न शाम्यति कदा चन ॥ 28 ॥
वनाद अस्माद विवासं तु रॊचये ऽहम अरिंदम न हि नस तम ऋते वीरं रमणीयम इदं वनम ॥ 29 ॥
वनपर्व · Vana Parva
अध्याय 79
Reach this point to mark the section finished.
Continue to अध्याय 80