[व] गते तु विदुरे राजन्न आश्रमं पाण्डवान परति धृतराष्ट्रॊ महाप्राज्ञः पर्यतप्यत भारत ॥ 1 ॥
स सभा दवारम आगम्य विदुर समर मॊहितः समक्षं पार्थिवेन्द्राणां पपाताविष्ट चेतनः ॥ 2 ॥
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात समीपॊपस्थितं राजा संजयं वाक्यम अब्रवीत ॥ 3 ॥
भराता मम सुहृच चैव साक्षाद धर्म इवापरः तस्य समृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ॥ 4 ॥
तम आनयस्व धर्मज्ञं मम भरातरम आशु वै इति बरुवन स नृपतिः करुणं पर्यदेवयत ॥ 5 ॥
पश्चात तापाभिसंतप्तॊ विदुर समार कर्शितः भरातृस्नेहाद इदं राजन संजयं वाक्यम अब्रवीत ॥ 6 ॥
गच्छ संजय जानीहि भरातरं विदुरं मम यदि जीवति रॊषेण मया पापेन निर्धुतः ॥ 7 ॥
न हि तेन मम भरात्रा सुसूक्ष्मम अपि किं चन वयलीकं कृतपूर्वं मे पराज्ञेनामित बुद्धिना ॥ 8 ॥
स वयलीकं कथं पराप्तॊ मत्तः परमबुद्धिमान न जन्याज जीवितं पराज्ञस तं गच्छानय संजय ॥ 9 ॥
तस्य तद वचनं शरुत्वा राज्ञस तम अनुमान्य च संजयॊ बाढम इत्य उक्त्वा पराद्रवत काम्यकं वनम ॥ 10 ॥
सॊ ऽचिरेण समासाद्य तद वनं यत्र पाण्डवाः रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम ॥ 11 ॥
विदुरेण सहासीनं बराह्मणैश च सहस्रशः भरातृभिश चाभिसंगुप्तं देवैर इव शतक्रतुम ॥ 12 ॥
युधिष्ठिरम अथाभ्येत्य पूजयाम आस संजयः भीमार्जुनयमांश चापि तद अर्हं परत्यपद्यत ॥ 13 ॥
राज्ञा पृष्टः स कुशलं सुखासीनश च संजयः शशंसागमने हेतुम इदं चैवाब्रवीद वचः ॥ 14 ॥
राजा समरति ते कषत्तर धृतराष्ट्रॊ ऽमबिका सुतः तं पश्य गत्वा तवं कषिप्रं संजीवय च पार्थिवम ॥ 15 ॥
सॊ ऽनुमान्य नरश्रेष्ठान पाण्डवान कुरुनन्दनान नियॊगाद राजसिंहस्य गन्तुम अर्हसि मानद ॥ 16 ॥
एवम उक्तस तु विदुरॊ धीमान सवजनवत्सलः युधिष्ठिरस्यानुमते पुनर आयाद गजाह्वयम ॥ 17 ॥
तम अब्रवीन महाप्राज्ञं धृतराष्ट्रः परतापवान दिष्ट्या पराप्तॊ ऽसि धर्मज्ञ दिष्ट्या समरसि मे ऽनघ ॥ 18 ॥
अद्य रात्रौ दिवा चाहं तवत्कृते भरतर्षभ परजागरे पपश्यामि विचित्रं देहम आत्मनः ॥ 19 ॥
सॊ ऽङकम आदाय विदुरं मूर्ध्न्य उपाघ्राय चैव ह कषम्यताम इति चॊवाच यद उक्तॊ ऽसि मया रुषा ॥ 20 ॥
[वि] कषान्तम एव मया राजन गुरुर नः परमॊ भवान तथा हय अस्म्य आगतः कषिप्रं तवद्दर्शनपरायणः ॥ 21 ॥
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः दीनाभिपातिनॊ राजन नात्र कार्या विचारणा ॥ 22 ॥
पाण्डॊः सुता यादृशा मे तादृशा मे सुतास तव दीना इति हि मे बुद्धिर अभिपन्नाद्य तान रपति ॥ 23 ॥
[व] अन्यॊन्यम अनुनीयैवं भरातरौ तौ महाद्युती विदुरॊ धृतराष्ट्रश च लेभाते परमां मुदम ॥ 24 ॥
वनपर्व · Vana Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8