धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 78

  1. बृहदश्व उवाच परशान्ते तु पुरे हृष्टे संप्रवृत्ते महॊत्सवे महत्या सेनया राजा दमयन्तीम उपानयत ॥ 1 ॥

  2. दमयन्तीम अपि पिता सत्कृत्य परवीरहा परस्थापयद अमेयात्मा भीमॊ भीमपराक्रमः ॥ 2 ॥

  3. आगतायां तु वैदर्भ्यां सपुत्रायां नलॊ नृपः वर्तयाम आस मुदितॊ देवराड इव नन्दने ॥ 3 ॥

  4. तथा परकाशतां यातॊ जम्बूद्वीपे ऽथ राजसु पुनः सवे चावसद राज्ये परत्याहृत्य महायशाः ॥ 4 ॥

  5. ईजे च विविधैर यज्ञैर विधिवत सवाप्तदक्षिणैः तथा तवम अपि राजेन्द्र ससुहृद वक्ष्यसे ऽचिरात ॥ 5 ॥

  6. दुःखम एतादृशं पराप्तॊ नलः परपुरंजयः देवनेन नरश्रेष्ठ सभार्यॊ भरतर्षभ ॥ 6 ॥

  7. एकाकिनैव सुमहन नलेन पृथिवीपते दुःखम आसादितं घॊरं पराप्तश चाभ्युदयः पुनः ॥ 7 ॥

  8. तवं पुनर भरातृसहितः कृष्णया चैव पाण्डव रमसे ऽसमिन महारण्ये धर्मम एवानुचिन्तयन ॥ 8 ॥

  9. बराह्मणैश च महाभागैर वेदवेदाङ्गपारगैः नित्यम अन्वास्यसे राजंस तत्र का परिदेवना ॥ 9 ॥

  10. इतिहासम इमं चापि कलिनाशनम उच्यते शक्यम आश्वासितुं शरुत्वा तवद्विधेन विशां पते ॥ 10 ॥

  11. अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा तस्याये च वयये चैव समाश्वसिहि मा शुचः ॥ 11 ॥

  12. ये चेदं कथयिष्यन्ति नलस्य चरितं महत शरॊष्यन्ति चाप्य अभीक्ष्णं वै नालक्ष्मीस तान भजिष्यति अर्थास तस्यॊपपत्स्यन्ते धन्यतां च गमिष्यति ॥ 12 ॥

  13. इतिहासम इमं शरुत्वा पुराणं शश्वद उत्तमम पुत्रान पौत्रान पशूंश चैव वेत्स्यते नृषु चाग्र्यताम अरॊगः परीतिमांश चैव भविष्यति न संशयः ॥ 13 ॥

  14. भयं पश्यसि यच च तवम आह्वयिष्यति मां पुनः अक्षज्ञ इति तत ते ऽहं नाशयिष्यामि पार्थिव ॥ 14 ॥

  15. वेदाक्षहृदयं कृत्स्नम अहं सत्यपराक्रम उपपद्यस्व कौन्तेय परसन्नॊ ऽहं बरवीमि ते ॥ 15 ॥

  16. वैशंपायन उवाच ततॊ हृष्टमना राजा बृहदश्वम उवाच ह भगवन्न अक्षहृदयं जञातुम इच्छामि तत्त्वतः ॥ 16 ॥

  17. ततॊ ऽकषहृदयं परादात पाण्डवाय महात्मने दत्त्वा चाश्वशिरॊ ऽगच्छद उपस्प्रष्टुं महातपः ॥ 17 ॥

  18. बृहदश्वे गते पार्थम अश्रौषीत सव्यसाचिनम वर्तमानं तपस्य उग्रे वायुभक्षं मनीषिणम ॥ 18 ॥

  19. बराह्मणेभ्यस तपस्विभ्यः संपतद्भ्यस ततस ततः तीर्थशैलवरेभ्यश च समेतेभ्यॊ दृढव्रतः ॥ 19 ॥

  20. इति पार्थॊ महाबाहुर दुरापं तप आस्थितः न तथा दृष्टपूर्वॊ ऽनयः कश चिद उग्रतपा इति ॥ 20 ॥

  21. यथा धनंजयः पार्थस तपस्वी नियतव्रतः मुनिर एकचरः शरीमान धर्मॊ विग्रहवान इव ॥ 21 ॥

  22. तं शरुत्वा पाण्डवॊ राजंस तप्यमानं महावने अन्वशॊचत कौन्तेयः परियं वै भरातरं जयम ॥ 22 ॥

  23. दह्यमानेन तु हृदा शरणार्थी महावने बराह्मणान विविधज्ञानान पर्यपृच्छद युधिष्ठिरः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 79

Previous: अध्याय 77