बृहदश्व उवाच स मासम उष्य कौन्तेय भीमम आमन्त्र्य नैषधः पुराद अल्पपरीवारॊ जगाम निषधान परति ॥ 1 ॥
रथेनैकेन शुभ्रेण दन्तिभिः परिषॊडशैः पञ्चाशद्भिर हयैश चैव षट्शतैश च पदातिभिः ॥ 2 ॥
स कम्पयन्न इव महीं तवरमाणॊ महीपतिः परविवेशातिसंरब्धस तरसैव महामनाः ॥ 3 ॥
ततः पुष्करम आसाद्य वीरसेनसुतॊ नलः उवाच दीव्याव पुनर बहु वित्तं मयार्जितम ॥ 4 ॥
दमयन्ती च यच चान्यन मया वसु समर्जितम एष वै मम संन्यासस तव राज्यं तु पुष्कर ॥ 5 ॥
पुनः परवर्ततां दयूतम इति मे निश्चिता मतिः एकपाणेन भद्रं ते पराणयॊश च पणावहे ॥ 6 ॥
जित्वा परस्वम आहृत्य राज्यं वा यदि वा वसु परतिपाणः परदातव्यः परं हि धनम उच्यते ॥ 7 ॥
न चेद वाञ्छसि तद दयूतं युद्धद्यूतं परवर्तताम दवैरथेनास्तु वै शान्तिस तव वा मम वा नृप ॥ 8 ॥
वंशभॊज्यम इदं राज्यं मार्गितव्यं यथा तथा येन तेनाप्य उपायेन वृद्धानाम इति शासनम ॥ 9 ॥
दवयॊर एकतरे बुद्धिः करियताम अद्य पुष्कर कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ॥ 10 ॥
नैषधेनैवम उक्तस तु पुष्करः परहसन्न इव धरुवम आत्मजयं मत्वा परत्याह पृथिवीपतिम ॥ 11 ॥
दिष्ट्या तवयार्जितं वित्तं परतिपाणाय नैषध दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः कषयं गतम दिष्ट्या च धरियसे राजन सदारॊ ऽरिनिबर्हण ॥ 12 ॥
धनेनानेन वैदर्भी जितेन समलंकृता माम उपस्थास्यति वयक्तं दिवि शक्रम इवाप्सराः ॥ 13 ॥
नित्यशॊ हि समरामि तवां परतीक्षामि च नैषध देवने च मम परीतिर न भवत्य असुहृद्गणैः ॥ 14 ॥
जित्वा तव अद्य वरारॊहां दमयन्तीम अनिन्दिताम कृतकृत्यॊ भविष्यामि सा हि मे नित्यशॊ हृदि ॥ 15 ॥
शरुत्वा तु तस्य ता वाचॊ बह्वबद्धप्रलापिनः इयेष स शिरश छेत्तुं खड्गेन कुपितॊ नलः ॥ 16 ॥
समयंस तु रॊषताम्राक्षस तम उवाच ततॊ नृपः पणावः किं वयाहरसे जित्वा वै वयाहरिष्यसि ॥ 17 ॥
ततः परावर्तत दयूतं पुष्करस्य नलस्य च एकपाणेन भद्रं ते नलेन स पराजितः स रत्नकॊशनिचयः पराणेन पणितॊ ऽपि च ॥ 18 ॥
जित्वा च पुष्करं राजा परहसन्न इदम अब्रवीत मम सर्वम इदं राज्यम अव्यग्रं हतकण्टकम ॥ 19 ॥
वैदर्भी न तवया शक्या राजापसद वीक्षितुम तस्यास तवं सपरीवारॊ मूढ दासत्वम आगतः ॥ 20 ॥
न तत तवया कृतं कर्म येनाहं निर्जितः पुरा कलिना तत कृतं कर्म तवं तु मूढ न बुध्यसे नाहं परकृतं दॊषं तवय्य आधास्ये कथं चन ॥ 21 ॥
यथासुखं तवं जीवस्व पराणान अभ्युत्सृजामि ते तथैव च मम परीतिस तवयि वीर न संशयः ॥ 22 ॥
सौभ्रात्रं चैव मे तवत्तॊ न कदा चित परहास्यति पुष्कर तवं हि मे भराता संजीवस्व शतं समाः ॥ 23 ॥
एवं नलः सान्त्वयित्वा भरातरं सत्यविक्रमः सवपुरं परेषयाम आस परिष्वज्य पुनः पुनः ॥ 24 ॥
सान्त्वितॊ नैषधेनैवं पुष्करः परत्युवाच तम पुण्यश्लॊकं तदा राजन्न अभिवाद्य कृताञ्जलिः ॥ 25 ॥
कीर्तिर अस्तु तवाक्षय्या जीव वर्षायुतं सुखी यॊ मे वितरसि पराणान अधिष्ठानं च पार्थिव ॥ 26 ॥
स तथा सत्कृतॊ राज्ञा मासम उष्य तदा नृपः परययौ सवपुरं हृष्टः पुष्करः सवजनावृतः ॥ 27 ॥
महत्या सेनया राजन विनीतैः परिचारिकैः भराजमान इवादित्यॊ वपुषा पुरुषर्षभ ॥ 28 ॥
परस्थाप्य पुष्करं राजा वित्तवन्तम अनामयम परविवेश पुरं शरीमान अत्यर्थम उपशॊभितम परविश्य सान्त्वयाम आस पौरांश च निषधाधिपः ॥ 29 ॥
वनपर्व · Vana Parva
अध्याय 77
Reach this point to mark the section finished.
Continue to अध्याय 78